________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० कारणानामतीन्द्रियाणां सन्निकर्षो दुरवबोधः / कथं तस्य विज्ञानोत्पत्तावङ्गीकरणमिति चिन्त्यम् ? प्राविज्ञानोत्पत्तेः अर्थमनवबुद्ध्यमानाः कारणमकारणं वा कथं ब्रूयुः ? उत्पन्नं हि विज्ञानमर्थस्य परिच्छेदकं न तत्कारणतायाः / आलोकोऽपि न कारणं परिच्छेद्यत्वादर्थवत् / कार्यकारणयोश्चापि इत्यपिशब्दः सन्निधेः इत्यस्यानन्तरं द्रष्टव्यः, ततो a ऽयमर्थो जायते-न केवलमर्थस्य किन्तु सन्निधेरपि सन्निकर्षस्यापि बुद्धिरकारिकार्थः ___ध्यवसायिनी। केषां तस्य इत्याह-इन्द्रियार्थानाम्। तथा अन्वयव्यतिरेकयोः सन्निधे वाभावयोः बुद्धिः अध्यवसायिनी / न केवलमनयोः अपितु कार्यकारणयोश्च, कार्य सन्निकर्षः कारणम् इन्द्रियादि / यदि वा, कार्य 10 ज्ञानम् , कारणं सन्निकर्षः तयोश्च बुद्धिरध्यवसायिनी / एतदुक्तं भवति-सन्निक र्षादिसद्भावेऽपि यावद् बुद्धिर्नोत्पद्यते तावत्तस्य तद॑न्वयव्यतिरेकयो: तत्कार्यकारणभावस्य अन्यस्य वा न व्यवस्था, बुद्धिकल्पनावैफल्यप्रसङ्गात् / उत्पन्नायां तु ताम् अन्यापेक्षामन्तरेणैव तत्त्वव्यवस्थेति, अतः सैवं साधकतमत्वात् प्रमाणं न सन्निकर्षादि / कारिकां विवृण्वन्नाह-'सन्निकर्ष' इत्यादि / सन्निकर्ष आदिर्येषाम् अन्वयव्यविवृतिव्याख्यानम्___तिरेकादीनां ते तथोक्ताः, कारणान्तरात् इन्द्रियमनोलक्षणाद् उत्पन्न - या बुद्ध्या अध्यवसीयन्ते / न च नैव तैः सन्निकर्षादिभिर्बुद्धिः अध्यवसीयते / कुत एतदित्याह-'प्राग्' इत्यादि / प्राक् बुद्ध्युत्पादात् पूर्वम् अनध्यवसायात सन्निकर्षादीनां बुद्धिविषयव्यवसायरहितत्वात् / तदनभ्युपगमे दूषणमाह 'अन्यथा' इत्यादि। अन्यथा अन्येन प्रागध्यवसायप्रकारेण कैमर्थक्याद् बुद्धेः 20 अन्वेषणम् / बुद्धेरिव अंन्यस्यापि सन्निकर्षादिभ्यः एव सिद्धेः / न चैवम् , अतो बुद्धेरेव सर्वत्र साधकतमत्वात्प्रामाण्यमित्यभिप्रायः / यत्पुनरेतेत्-"आत्मा मनसा युज्यते, (1) तुलना-"आलोकेनापि जन्यत्वे नालम्बनतया भिदः (विदः) / किन्त्विन्द्रियबलाधानमात्रत्वेनानुमन्यते ॥"-तत्त्वार्थश्लो० 50 218 / "नार्थालोको कारणं परिच्छेद्यत्त्वात्तमोवत् / तदन्वयव्यतिरेकानुविधानाभावात्केशोण्डुकज्ञानवन्नक्तञ्चरज्ञानवच्च ।"-परीक्षामु० 2 / 6,7 / “नार्थालोको कारणमव्यतिरेकात् ।"-प्रमाणमी० 121225 / (2) सन्निकर्षस्य / (3) सन्निकर्षस्य / (4) सन्निकर्षबुद्धयोरन्वयव्यतिरेकयोः। (5) इन्द्रियसन्निकर्षयोः सन्निकर्षज्ञानयोर्वा कार्यकारणभावस्य। (6) बुद्धौ / (7) बुद्धिः / (8) यदि बुद्धयुत्पादमन्तरेणापि सन्निकर्षादि अर्थपरिच्छेदकं स्यात्तदा। (9) "तच्चेदं प्रत्यक्षं चतुष्टयत्रयद्वयसन्निकर्षात्प्रवर्तते / तत्र बाह्ये रूपादौ विषये चतुष्टयसन्निकर्षाज्ञानमुत्पद्यते आत्मा मनसा संयुज्यते मन इन्द्रियेण इन्द्रियमर्थेनेति / सुखादौ तु त्रयसन्निकर्षाज्ज्ञानमुत्पद्यते तत्र चक्षरादिव्यापाराभावात् / आत्मनि तु योगिनो द्वयोरात्ममनसोरेव संयोगाज्ज्ञानमुपजायते तृतीयस्य ग्राह्यस्य ग्राहकस्य तत्राभावात्।"-न्यायमं पृ०७४ / उद्धृतमिदम्-प्रमाणवा० स्ववृ० टी० पृ० 140 / ___ 1 दुरवबोध: प्राग्विज्ञानोत्पत्तेरर्थमनवबुद्धधमना कारणमकारणं वा कथं ब्रूयुः / कथं तस्य विज्ञानोत्पत्तावंगीकरणमिति वित्यासाधिज्ञानोत्पत्तेरथमवबुद्धचमानाः कारणमकारणं वा कथं ब्रूयः? उत्पन्नं ज० वि० / 2 तत्कारणतया ई०वि०।-रव्यवसा-श्र०। 4 अव्यव-श्र015 कार्यः आ०,श्र० / 6 तावन्न तस्य श्र०17 अन्यपि आ० /