________________ प्रवचन० का० 55 ] अर्थकारणताविचारः दिभिर्व्यभिचारोन स्यात् , ताल्वादिदण्डादिजनितात् शब्दघटादेः तद्विपरीतस्य विद्युदादेरन्यत्वात्। न चान्यस्य व्यभिचारे अन्यस्य व्यभिचारोऽतिप्रसङ्गात्। तथाप्यत्र व्यभिचारे प्रकृतेऽपि सोऽस्तु विशेषाभावात् / 'तिमिर' इत्यादिना परमतमाशङ्कते-तिमिरादीनां द्वन्द्वः, पुनः आदिशब्देन बहुव्रीहिः / आदिशब्दश्च प्रत्येकमभिसम्बध्यते। तेन एकत्र आदिशब्देन कामलादि- 6 सकलेन्द्रियदोषपरिग्रहः, अन्यत्र दृढप्रहारादिस्वीकारः, इतरत्र अश्वयानाद्युपादानम्, अपरत्र कोद्रवाशुपयोगग्रहणम् / तद्धेतुत्वे अङ्गीक्रियमाणे कमर्थ किं प्रयोजनम् अर्थः पुष्णाति इति एवं मृग्यं ने कञ्चिदित्यर्थः। कुत एतदित्यत्राह- 'सत्यज्ञानेऽपि' इत्यादि / न केवलमसत्यज्ञाने अपितु सत्यज्ञानेऽपि तिमिरायभावस्य, कथम्भूतस्य ? इन्द्रियमनोगतस्य / इन्द्रियगतस्य तिमिराद्यभावस्य, मनोगतस्य सङ्क्षोभाद्यभावस्य, इन्द्रि- 10 यमनोगतस्य आशुभ्रमणाद्यभावस्य कारणत्वात् इन्द्रियादिकमेव च तेद्विविक्तं तदभाव इति मन्यते, भावान्तरस्वभावत्वादभावस्य / यथा च अन्यत एवोत्पन्नं संशयादिज्ञानम् असतोऽकारणस्य अर्थस्य ग्राहक तथा सतः सत्यज्ञानमिति सूरेरभिप्रायः / उपसंहारमाह-'तत' इत्यादि / यस्मादुक्तप्रकारेण अर्थस्य विज्ञानं प्रति कारणत्वं नोपपद्यते ततः सुभाषितम्-इन्द्रियमनसी कारणं विज्ञानस्य अर्थो घटादिविषयः परिच्छेद्य इति / 15 ननु च इन्द्रियार्थयोः सतोरपि सन्निकर्षव्यतिरेकेण बुद्धरनुत्पत्तेः तस्मिन् सत्येव उत्पत्तेः तस्यैव तंत्र साधकतमत्वोपपत्तेः नेन्द्रियमनसी तत्कारणम् इत्याशङ्कापनोदार्थमाह सैन्निधेरिन्द्रियार्थानामन्वयव्यतिरेकयोः। कार्यकारणयोश्चापि बुद्धिरध्यवसायिनी // 55 // 20 विवृतिः-सन्निकर्षादयः कारणान्तरादुत्पन्नया बुद्ध्याऽध्यवसीयन्तेन चतैबुद्धिः प्रागनध्यवसायात् , अन्यथा कैमर्थक्याद् बुद्धरन्वेषणम् ? आत्ममनइन्द्रियार्थानां (1) तिमिरे / (2) आशुभ्रमणे / (3) नौयाने / (4) संक्षोभे / (5) तिमिरादिरहितम् / (6) तिमिराद्यभावः / (7) इन्द्रियादिदोषात् / (8) तुलना-“अनेन (केशोण्डुकज्ञानेन) व्यभिचारात् संशयज्ञानेन च / न हि तदर्थे सत्येव भवति अभ्रान्तत्वानुषङ्गात् , तद्विषयभूतस्य स्थाणुपुरुषलक्षणार्थद्वयस्यकत्र सद्भावासंभवाच्च ।"-प्रमेयक० पृ० 234 / (9) अकलङ्कदेवस्य / (10) सन्निकर्षस्यैव। (11) बुद्धौ। (12) "अध्यवसायिनी निश्चायिका / का? बुद्धिर्ज्ञानमेव / कस्य? सन्निधेरपि सन्निकर्षस्यापि न केवलमर्थस्येत्यपिशब्दार्थः / केषाम् ? इन्द्रियार्थानाम्, इन्द्रियाणि चक्षरादीनि अर्थाश्च रूपादयः तेषाम् / न केवलं सन्निधेरपि तु अन्वयव्यतिरेकयोश्च सन्निकर्षस्य भावाभावयोश्च / तथा कार्यकारणयोश्च / कार्य सन्निकर्षः कारणमिन्द्रियादिः तयोश्च बुद्धिरेवाध्यवसायिनी। ततः सैव प्रमाणं न सन्निकर्षादि तस्य प्रमेयत्वात् ।"-लघी० ता०१०७७ / 1 न किञ्चिवि-आ०, श्र०1 2 साक्षेपाद्यभा-श्र०। 3 अर्थग्राह-श्र०। 4-क्या बुद्ध-ज० वि०। 5 आत्मनो मनसा करणानामतीन्द्रियाणाम् ई० वि०।