________________ ___ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [.. प्रवचनपरि० कारयन् बुद्धि जनयत्येव / “सर्व सालम्बनं ज्ञानम्' [ ] इत्यभ्युपगमात् / केशोण्डुकादिज्ञानस्यापि अक्षिपक्ष्मादिनिबन्धनत्वादिति / पूर्वार्द्ध व्याख्यातम् / उत्तरमुत्तरार्द्ध व्याचक्षाणः प्राह-'कथम्' इत्यादि / कथं केन प्रकारेण अव्यभिचारिणोऽर्थस्य अन्वयव्यतिरेकावनुकुर्वती बुद्धिः अर्थ व्यभिचरेनाम ? नैव व्यभिचरेत् / यथैव हि 5 व्यवस्थितोऽर्थः तथैव गृहीयात् , तत आत्मलाभलक्षणत्वादव्यभिचारस्य / व्यभिचरति च / अतो यथा अन्यदेशादिसम्बद्धस्य धर्मस्यासत एव ग्रहणं तथा धर्मिणोऽप्यसत एव ग्रहणसम्भवान्न विपरीतख्यात्यै(त्ये)कान्त: श्रेयान् , असत्ख्यातेरपि प्रसङ्गात् इत्यभिप्रायः / एतदेव दर्शयन्चाह-'ततः' इत्यादि / ततः तस्माद् बुद्धेय॑भिचारात् संशयादिज्ञानमहेतुकम्, अर्थलक्षणकारणशून्यं स्यात् धर्मवत् धर्मिणोऽपि असत एव प्रतिभाससंभवात् / दृश्यते हि तावद् अक्षिपक्ष्माद्यपायेऽपि तैमिरिकस्य केशोण्डुकादिज्ञानम् / ननु केशोण्डुकादिज्ञानं भ्रान्तत्वाद् अर्थापायेऽपि उत्पद्यते, नान्यद् विपर्ययात् / नचान्यस्य व्यभिचारे अन्यस्य व्यभिचारः अतिप्रसङ्गात् ; इत्यप्यसमीक्षितांभिधानम्; . . परनिरपेक्षतया हि स्वपरप्रकाशात्मकत्वं ज्ञानस्य स्वरूपं न पुनः सत्यत्वमसत्यत्वं वा / तत्र च यथा सत्याभिमतं ज्ञानं स्वपरप्रकाशात्मकं तथा केशोण्डुकादिज्ञानमपि। एतावांस्तु विशेषः-किश्चित् सत्परं प्रकाशयति संवादसंभवात्, "किश्चित्तु असद् "विसंवादात् / न चैतावता जात्यन्तरत्वेन अनयोरन्यत्वं व्यभिचाराभावो वा, अन्यथा 'प्रयत्नानन्तरीयकः शब्दः कृतकत्वाद् घटादिवत्' इत्यादेरपि अप्रयत्नानन्तरीयकैः विद्युद्वनकुसुमा-: (1) “यथा चिरकालीनाध्ययनादिखिन्नस्योत्थितस्य नीललोहितादिगुणविशिष्ट: केशोण्डकाख्यः कश्चिन्नयनाने परिस्फुटति, अथवा करसंमदितलोचनरश्मिष येयं केशपिण्डावस्था स केशोण्डकः ।"शास्त्रदी० युक्ति० पृ० 99 / "केशोण्डुका नाम पक्षिणः ये केशमूलान्युत्पाटयन्ति"-शिक्षासमु० पृ०७०। "तैमिरिकाणामिव केशोण्डुकाद्याभासं विनाप्यर्थसत्त्वादिति ।"-मध्यान्तवि० पृ० 15 / 'केशोण्डुकं यथा मिथ्या गृह्यन्ते तैमिरैर्जनैः ।"-लङ्कावतार० पृ० 274 / (2) तुलना-"कामलाद्युपहतचक्षुषो हि न केशोण्डुकज्ञानेऽर्थः कारणत्वेन व्याप्रियते-तत्र हि केशोण्डुकस्य व्यापारो नयनपक्ष्मादेर्वा कामलादेर्वा गत्यन्तराभावात् ? न तावदाद्यविकल्पः; न खलु तज्ज्ञानं केशोण्डुकलक्षणेऽर्थे सत्येव भवति भ्रमाभावप्रसङ्गात् / नयनपक्ष्मादेस्तत्कारणत्वे तस्यैव प्रतिभासप्रसङ्गात् गगनतलावलम्बितया पुरःस्थतया केशोण्डुकाकारतया च प्रतिभासो न स्यात् / न ह्यन्यदन्यत्रान्यथा प्रत्येतुं शक्यम् / अथ नयनकेशा एव तत्र तथाऽसन्तोऽपि प्रतिभासन्ते तहि तद्रहितस्य कामलिनोऽपि तत्प्रतिभासाभावः ।"-प्रमेयक० पृ० 233 / (3) "स्वपरग्रहणलक्षणं हि ज्ञानम्, तत्र च यथा सत्याभिमतज्ञानं स्वपरग्राहक तथा केशोण्डकादिज्ञानमपि / एतावाँस्तु विशेषः किञ्चित्सत्परं गृह्णाति संवादसद्भावात् , किञ्चिदसद्विसंवादात् ।"प्रमेयक० पृ० 235 / (4) सत्यज्ञानम् / (5) असत्यज्ञानम्। (6) सत्परत्व-असत्परत्वग्रहणमात्रेण / (7) सत्याऽसत्यज्ञानयोः / 1-यत् ब० / 2 'ज्ञानम्' नास्ति श्र०। 3 इत्युप-ब० / 4-पक्षादि-श्र० / 5-सम्बन्धस्य श्र० / 6 दृश्यते हि लोचनपक्ष्माद्यपायेऽपि ब०। 7 नचान्यस्यस्य व्यभिचारोऽति-ब०। 8 स्वरूपपरप्रकाश्रः। 9 विसंवादसंभवात् श्र०।