________________ प्रवचनप्र० का 0 54 ] अर्थकारणताविचारः सत्येव ज्ञानस्योत्पत्तेः तदभावे चाऽनुत्पत्तेः। प्रयोगः यद् यस्यान्वयव्यतिरेकावनुकरोति तत्तस्य कार्यम् यथा अग्नेधूमः, अन्वयव्यतिरेकावनुरोति च ज्ञानमर्थस्य' इत्याशङ्कयाह अन्वयव्यतिरेकाभ्यामर्थश्चेत् कारणं विदः / संशयादि विदुत्पादः कौतस्कुत इतीक्ष्यताम् // 54 // विवृतिः-बुद्धेरेव व्यभिचारो नार्थस्य कथमव्यभिचारिणोऽर्थस्य अन्वय- 5 व्यतिरेकावनुकुर्वती व्यभिचरेनाम ? ततः संशयादिज्ञानमहेतुकं स्यात् / तिमिराशुभ्रमणनौयानसंक्षोभादिहेतुत्वे कमर्थमर्थः पुष्णाति इति मृग्यम् / सत्यज्ञानेऽपि तिमिराद्यभावस्य इन्द्रियमनोगतस्य कारणत्वात् / ततः सुभाषितम्-'इन्द्रियमनसी कारणं विज्ञानस्य अर्थो विषयः' इति / अर्थसद्भावे भावोऽन्वयः तदभावेऽभावो व्यतिरेकः ताभ्यामर्थश्चेद् यदि 10 . कारणं विदो ज्ञानस्य / अत्र दूषणमाह-संशय' इत्यादि। संशयः कारिकार्थः- . आदिर्यस्याः सा चासौ वित् च तस्य उत्पाद आत्मलाभः कौतस्कुत इत्येवमीक्ष्यतां पर्यालोच्यताम् / / ___ कारिकां व्याख्यातुमाह-'बुद्धेः' इत्यादि / बुद्धेरेव व्यभिचारः अन्यदेशादि _ विशिष्टस्यार्थस्य अन्यदेशादिना ग्रहणलक्षणो नार्थस्य, 'व्यभिचारः' 15 विवृतिव्याख्यानम्- इति सम्बन्धः। स हि यथार्थामयथार्थी वा अन्वयव्यतिरेकावनु (1) ज्ञानमर्थकार्यम् अर्थान्वयव्यतिरेकानुविधायित्वात् / (2) "चेद्यदि कारणं कथ्यते / कः ? अर्थो विषयः / कस्याः ? विदो ज्ञानस्य / काभ्याम् ? अन्वयव्यतिरेकाभ्याम्, सति भवनमन्वयः असत्यभवनं व्यतिरेकः ताभ्याम् / तथाहि-ज्ञानमर्थकारणकं तदन्वयव्यतिरेकानुविधानादिति / तदा कौतस्कृतः स्यात्, कुतस्कुत आगतः कौतस्कुतः / कः ? संशयादिविदुत्पादः संशयविपर्यासज्ञानोत्पत्तिः इत्येवमीक्ष्यतां तद्वादिभिः स्वमनसि पर्यालोच्यताम् अर्थाभावेऽपि संशयाधुत्पत्तेः / न हि स्थाणुपुरुषात्मक: केशोण्डुकस्वभावो वार्थस्तज्ज्ञानोत्पत्तौ व्याप्रियते, ततो भागासिद्धमर्थान्वव्यतिरेकानुविधानं ज्ञानस्येति।" -लघी० ता० पृ० 76 / (3) अत्रायं पूर्वपक्षः-"अर्थस्य च ज्ञानजनकत्वमन्वयव्यतिरेकाभ्यामवगम्यते। यदा हि देवदत्तार्थी कश्चिद् व्रजति तद्गृहम् / तत्रासन्निहितं चैनं गत्वापि न स पश्यति / क्षणान्तरे स आयान्तं देवदत्तं निरीक्षते / तत्र तत्सदसत्त्वेन तथात्वं वेत्ति तद्धियः / / अनागते देवदत्ते न देवदत्तज्ञानमुदपादि तस्मिन्नागते तदुत्पन्न मिति तद्भावभावित्वात्तज्जन्यत्वं तदवसीयते।"-न्यायमं० 10 544 / (4) "तिमिरमणोविप्लवः, इन्द्रियगतमिदं विभ्रमकारणम् / आशुभ्रमणमलातादेः, मन्दं हि भ्राम्यमाणेऽलातादौ न चक्रभ्रान्तिरुत्पद्यते तदर्थमाशुग्रहणेन विशेष्यते भ्रमणम् / एतच्च विषयगतं विभ्रमकारणम् / नावा गमनं नौयानम् / गच्छन्त्यां नावि स्थितस्य गच्छद्वक्षादिभ्रान्तिरुत्पद्यते इति यानग्रहणम् / एतच्च बाह्याश्रयस्थितं विभ्रमकारणम् / संक्षोभो वातपित्तश्लेष्मणाम् / वातादिषु हि क्षोभं गतेषु ज्वलितस्तम्भादिभ्रान्तिरुत्पद्यते। एतच्चाध्यात्मगतं विभ्रमकारणम् ।"-न्यायबि० टी० पृ० 16 / (5) उद्धृतमिदम्-'इन्द्रियनसी विज्ञानकारणमिति वचनात् ।"-न्यायवि० वि० पृ० 32 A.| "तस्मादिन्द्रियमनसी विज्ञानस्य कारणं नार्थोऽपीत्यकलंकरपि."-तत्त्वार्थश्लो० 10 330 / 1-दिचिदुत्पा-आ० / 2 किमर्थमर्थः ज० वि० / चित् आ० / 4-शिष्टस्यान्यदे-ब० /