________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० 'नहि' इत्यादि / न हिर्यस्मात् ततोऽर्थात् स्वभावलाभं प्रति व्याप्रियमाणस्यं स्वरूप- . लाभमर्थयमानस्य तत्परिच्छित्तिः अर्थपरिच्छित्तिः / कुत इत्याह-अनुत्पन्नत्वात् / यदनुत्पन्नं सद् यदा यत आत्मलाभ लभते न तत्तदो तस्य परिच्छेदकम् यथा अलब्धात्मलाभावस्थायां पितुः पुत्रः, अनुत्पन्नं संदर्थादात्मलाभं लभते च उत्पत्तिक्षणे ज्ञानमिति / अथ उत्पन्नस्य सतो ज्ञानस्य अर्थग्रहणे व्यापारो भविष्यति इत्युच्यते; अत्राह-'उत्पन्नस्यापि' 'इत्यादि / न केवलमनुत्पन्नस्य अपि तु उत्पन्नस्यापि ज्ञानस्य कारणे स्वजनके न व्यापारः तद्हणलक्षणः / अत्र दृष्टान्तमाहकरणादिवत् / करणं चक्षुरादि आदिर्यस्य अदृष्टादेः तत्रेव तद्वदिति / प्रयोगः-अर्थो न ज्ञानकारणम्, तेन परिच्छिद्यमानत्वात् , यत्त तत्कारणं न तत्तेन परिच्छिद्यते यथा चक्षुरादि, परिच्छिद्यते च ज्ञानेनार्थः, अतस्तत्कारणन्न भवतीति / न च आलोकेन अनेकान्तः, तत्र ज्ञानकारणत्वस्य निराकरिष्यमाणत्वात् / तर्हि पुत्रेण अनेकान्तः, पितुरुत्पन्नस्याप्यस्य तत्परिच्छेदकत्वात् ; इत्यप्यसत्; पुत्रशरीरस्यैव तेत उत्पत्तेः, न च तत् तत्परिच्छेदकं किन्तु ज्ञानम् , तच्च ततो नोत्पद्यते चक्षुरादित एवास्योत्पत्तेः / कथ मेवं पूर्वप्रयोगे तस्य दृष्टान्ततोपपद्यते ? इत्यप्यचोद्यम् ; शरीरतः तद्विशिष्टज्ञानतो वाऽ16 लब्धात्मलाभस्य परिच्छेदकत्वाभावमात्रापेक्षया तस्य तदुपपत्तेः संभवात् / ननु च अर्थकार्यतया ज्ञानं स्वयमेव आत्मानं प्रतिपद्यते, अतः तद्बाधितकर्मनिर्देशानन्तरं प्रयुक्तत्वेन कालात्ययापदिष्टः परिच्छिद्यमानत्वात्' इति हेतुः; इत्यत्राह'यदि' इत्यादि / यदि कारणकार्यभावम् आत्मार्थयोः, आत्मन: कार्यभावम् अर्थस्य कारणभावं विज्ञानं कर्तृ परिच्छिन्द्यात्, तदा न कश्चिद्विप्रतिपत्तुमर्हति / क ? इत्याह20 कर्तृकरणकर्मसु / अर्थः कर्ता, चक्षुरादि करणम्, ज्ञान कर्म, तेषु इति / यत्र कारण कार्यभावो निर्बाधायां संविदि प्रतिभासते न तत्र कादित्रये कश्चिद् विप्रतिपद्यते यथा कुलालघटयोः, विप्रतिपद्यते च अर्थज्ञानयोः कादौ जैनादिरिति / . 'ननु सर्वत्र अन्वयव्यतिरेकसमधिगम्य: कार्यकारणभावः, तौ चात्रापि विद्येते-अर्थे (1) ज्ञानं नार्थस्य परिच्छेदकम् अनुत्पन्नं सदलब्धात्मलाभत्वात् / (2) उत्पत्तिक्षणे / (3) पुत्रस्य। (4) पितृपरिच्छेदकत्वात् / (5) पितुः / (6) पुत्रशरीरम्। (7) पितृपरिच्छेदकम् / (8) ज्ञानम्। (9) पितुः / (10) ज्ञानस्य। (11) यदनुत्पन्नं सदित्यादिप्रयोगे / (12) पुत्रस्य / (13) शरीररूपेण। (14) शरीरविशिष्टज्ञानरूपेण वाऽनुत्पन्नस्य। (15) पुत्रस्य / (16) दृष्टान्ततोपपत्तेः, यथा हि शरीररूपेण विशिष्टज्ञानात्मकतया वाऽनिष्पन्नः पुत्रः न पितृपरिच्छेदकः तथैव ज्ञानमनुत्पन्नं सन्नार्थस्य परिच्छेदकम् / (17) स्वसंवेदनप्रत्यक्षबाधितसाध्यप्रयोगानन्तरम् / (18) स्वस्य-ज्ञानस्य। (19) ज्ञानस्योत्पादकत्वादर्थः कर्ता। (20) अर्थाज्जायमानत्वाज्ज्ञानं कर्म / 1 न हि यस्मात् आ०, ब०। 2-स्यरूपला-ब०। 3 यत्त ब० / 4 सदर्थात्मलाभं आ०, श्र०। 5-त्तिलक्षणे श्र०। 6 परिज्ञानस्य ब०। 7-केवलनव्यापा-श्र० / 8च तत्परि-श्र०, ब०। 9 अतस्तदाधि-आ० / 10-नन्तरप्रयु-आ०, ब०।11 परिच्छेद्य-ब०।