________________ प्रवचनप्र का० 53 ] अर्थकारणताविचारः 10 विवृतिः -अर्थ परिच्छिन्दद्विज्ञानम् आत्मनः कारणान्तरमपरं सूचयत्येव / नहि ततः खभावलाभं प्रति व्याप्रियमाणस्य तत्परिच्छित्तिः अनुत्पन्नत्वात् / उत्पन्नस्यापि न कारणे व्यापारः करणादिवत् / यदि कारणकार्यभावम् आत्मार्थयोर्विज्ञानं परिच्छिन्द्यात् न कश्चिद् विप्रतिपत्तुमर्हति कर्तृकरणकर्मसु / घटाद्यर्थग्राहकं हि ज्ञानं 'देशकालाकारविशिष्टो घटाद्यर्थोऽयम्' इत्यनेनोल्लेखेन / अर्थमेव विद्यात्, न उत्पत्तिम् आत्मलाभमर्थतो विद्यात् / अथ कारिकार्थः तत्ततः तो वेत्ति इत्युच्यते; अत्राह-'अन्यथा' इत्यादि / अन्यथा अन्येन तत्परिज्ञानप्रकारेण न विवादः स्यात् / यस्य यस्मादुत्पत्तिः प्रत्यक्षतःप्रतीयते न तस्य तदुत्पत्तौ कस्यचिद् विवादः यथा कुलालाद् घटस्य, विवादश्च ज्ञानस्य अर्थादुत्पत्तौ, तस्मात् साँ तस्ये प्रत्यक्षतो न प्रतीयते इति / अर्थं प्रमाणान्तरात्तस्य अर्थकार्यता प्रतीयते-ननु तत्कि प्रत्यक्षरूपम्, अनुमानरूपं वा स्यात् ? यदि प्रत्यक्षरूपम् ; तत्किं ज्ञानविषयम् , अर्थविषयम् , उभयविषयं वा स्यात् ? तत्राद्यविकल्पद्वये तयोः कार्यकारणभावप्रतीतिरनुपपन्ना, एकैकविषयज्ञानग्राह्यत्वात्, ययोः एकैकविषयज्ञानग्राह्यत्वं न तयोः कार्यकारणभावप्रतीतिः यथा रूपरसयोः धूमपावकयोर्वा, एकैकविषयज्ञानग्राह्यत्वश्च अर्थज्ञानयोरिति / अथ उभय- 15 विषयप्रत्यक्षात तत्प्रतीतिः; तन्न; तथाविधप्रत्यक्षस्य अस्मादृशामसम्भवात् / किश्च, तदुभयविषयं प्रत्यक्षं ताभ्यामुत्पन्नं सत् तयोः कार्यकारणभावं प्रत्येति, अनुत्पन्नं वा? न तावदनुत्पन्नम् ; आद्यज्ञानस्यापि अर्थादनुत्पन्नस्य अर्थग्राहकत्वप्रसङ्गात् / अथ उत्पन्नम् ; तर्हि तस्यापि तदुत्पत्तिः अपरस्मात् तत उत्पन्नाज्ज्ञानात् प्रत्येतव्या तस्याप्यन्यस्मादित्यनवस्था / आद्यात् द्वितीयस्य, द्वितीयाच्चाद्यस्य तत्प्रतीतौ अन्योन्या- 20 श्रयः। तन्न प्रत्यक्षरूपात्प्रमाणान्तरात् ज्ञानस्य अर्थकार्यतासिद्धिः / नापि अर्थान्वयव्यतिरेकानुविधायित्वलक्षणानुमानरूपात्; तस्य अनन्तरकारिकायां निराकरिष्यमाणत्वात् / कारिकां विवृण्वन्नाह-'अर्थम्' इत्यादि / अर्थ घटादिकं परिच्छिन्दद् विज्ञा _ नम् आत्मनः स्वस्य कारणान्तरमपरं परपरिकल्पितादर्थलक्षणकारणाद् विवृतिव्याख्यानम् अपरमेव चक्षुरादिलक्षणं कारणान्तरं सूचयति / कुत एतदित्याह- 25 (1) ज्ञानम् / (2) अर्थात् / (3) उत्पत्तिम् / (4) उत्पत्तिः / (5) ज्ञानस्य / (6) तुलना-"किञ्चार्थकार्यतया ज्ञानं प्रत्यक्षतः प्रतीयते प्रमाणान्तराद्वा? प्रत्यक्षतश्चेत्, किं तत एव प्रत्यक्षान्तराद्वा ? ... अथ प्रमाणान्तरात्तस्यार्थकार्यता प्रतीयते; तत्कि ज्ञानविषयमर्थविषयमभयविषयं वा स्यात् ?"-प्रमेयक० पृ० 232 / (7) ज्ञानार्थयोः। (8) ज्ञानार्थोभयग्राहि। (9) उभयाभ्यां ज्ञानार्थाभ्याम् / (10) ताभ्यामर्थज्ञानाभ्यामुत्पत्तिः / (11) उभयात्। (12) तदुत्पत्तिप्रतीतौ। ___ 1 विन्द्यात् अथ श्र०। 2-स्मात्तस्य श्र०। 3-पाचकयोर्वा आ० / 4-मभावात् श्र० / 5-वात्तदुभय-ब०। 6-ङ्गात्तस्यापि श्र०।