________________ 658 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० सिद्धर्मस्य प्रामाण्यमिति / अत्र दूषणमाह-'नैतत्सारम्' इत्यादि / एतत् ज्ञानकारणत्वेन प्रमाणत्वं न सारम् / कुत एतदित्याह-'अर्थस्य' इत्यादि / अर्थस्य ज्ञानविषयस्य घटादेः तदकारणत्वात स्वग्राहिज्ञानाजनकत्वात् / एतदपि कुतः इत्याह-'तस्य' इत्यादि / तस्य घटादिज्ञानस्य इन्द्रियानिन्द्रियनिमित्तत्वात् / अर्थनिमित्तत्वं कुतो 5 नेति चेदत्राह-अर्थस्य विषयत्वात् परिच्छेद्यत्वात् / ननु 'विषयश्च स्यात् कारणञ्च' इति कोऽनयोर्विरोधः ? इत्यत्राह-'नहि' इत्यादि / हिर्यस्मात् न तस्य ज्ञानस्य परिच्छेद्योऽर्थः तत्कारणतां ज्ञानहेतुताम् आत्मसात्कुर्यात् / अत्र परप्रसिद्धं दृष्टान्तमाहप्रदीपस्येव घटादिरिति / अत्रायमभिप्रायः-यथा प्रदीपप्रकाश्यो घटादिः न प्रदीपकारण तामात्मसात्करोति तथापि प्रदीपेन प्रकाश्यते तथा ज्ञानप्रकाश्योऽप्यसौ तत्कारणतामनात्म10 सात्कुर्वन्नपि तत्प्रकाश्य इति / अनेन परंपरिकल्पितः "नाकारणं विषयः”[ ] इति नियमो निरस्तः; प्रदीपं प्रत्यकारणस्यापि घटादेः तत्प्रकाशनविषयतोपलब्धेः।। किश्च, 'नाकारणं विषयः' इत्यभ्युपगच्छता कि कारणमेव विषय इत्यभिप्रेतम् , कारणं विषय एव इति वा ? प्रथमपक्षे विज्ञानस्वरूपसंवेदनानुपपत्तिः / नहि स्वरूपं स्वस्यैव कारणम् ; स्वात्मनि क्रियाविरोधात् / द्वितीयपक्षे तु चक्षुरादेरपि विषयत्व15 प्रसक्तिः कारणत्वाविशेषात् / किञ्च, अर्थस्य ज्ञान प्रति कारणत्वे सिद्धे अयं नियम: परिकल्प्येत, असिद्धे वा ? न तावदसिद्धे; अतिप्रसङ्गात् / अथ सिद्धे; कुतस्तत्सिद्धिःतत एव ज्ञानात् , अन्यतो वा ? न तावत् तत एव; यतः अयमर्थ इति ज्ञानं विद्यान्नोत्पत्तिमर्थतः / अन्यथा न विवादः स्यात् कुलालादिघटादिवत् // 53 // (1) सन्निकर्षस्य / (2) घटाद्यर्थः / (3) ज्ञानं प्रति हेतुताम् / (4) ज्ञानेन प्रकाश्यो भवतु / (5) सौगत / (6) "कारणीभावो हि विषयीभाव उच्यतेऽस्माभिर्न सम्बन्धः / तथाहि-रूपादिविषयश्चक्षषो विज्ञानोत्पत्तौ सहकारितां प्रतिपद्यमानो विषयीभवतीत्युच्यते / द्विविधश्च सहकारार्थः परस्परोपकारको वा यथा' 'एकार्थक्रिया वा यथोन्मिषितमात्रेण रूपं गृह्णतः / उभयथापि विज्ञानस्य कारणविशेष एव विषय उच्यते ।"-तत्त्वसं पं० पृ० 683 / (7) तुलना-"तथाहि-किं कारणं विषय एव, उत कारणमेव विषयः ? प्रथमपक्षे रूपादिसंविदां चक्षुराद्यपि विषयो भवेत् द्वितीयपक्षे. पि भविष्यति रोहिण्यदयः कृत्तिकोदयादतीतक्षपायामिव इत्यस्यानुमानस्य भावी रोहिण्यदयोऽकारणत्वाद्विषयो न स्यात्"-सन्मति० टी० पृ० 510 / (8) विज्ञानस्वरूपसंवेदनं हि तदा स्याद् यदा विज्ञानस्य स्वरूपं स्वसंवेदनं प्रति कारणं स्यात् / न चैतदस्ति / (9) "विद्यात् जानीयात् / किम् ? ज्ञानम् / कथम् ? अयमर्थ इति / पुनर्न विद्यात्, काम् ? उत्पत्तिम् अहमस्मादुत्पन्नमिति स्वजन्म / कस्मात् ? अर्थतः घटादेः सकाशात् / इदञ्च प्रमेयं प्रतीतिसिद्धमेव, अन्यथा यद्यर्थात् स्वोत्पत्ति ज्ञानं विद्यात् तदा वादिप्रतिवादिनोविवादो ज्ञानमर्यादुत्पन्नं न वेति विप्रतिपत्तिः, किंवत् ? कुलालादिघटादिवत्, यथा कुलालादेः सकाशाद् घटादेर्जन्मनि प्रतीतिसिद्ध कस्यापि न विवादोऽस्ति तथाऽर्थात् ज्ञानजन्मन्यपि विवादो मा भूत, अस्ति चायं विवादः स्याद्वादिना ज्ञानजन्मनीति ।"-लघी० ता०प०७६ / 1-स्याप्रामा-श्र०। 2 न दीप-आ०, श्र०। कारणहेतव विषय श्र०। 4 परिकल्पेत आ०,ब०।