________________ प्रवचनप्र० का 0 52 ] प्रमाणनिरूपणम् कथम् ? इत्यपि वार्तम् ; तादात्म्यतदुत्पत्त्योरभावेऽपि प्रदीपार्थयोः प्रकाश्यप्रकाशकभाववत् ज्ञानार्थयोः विषयविषयिभावस्य समर्थितत्वात् / ननु च आत्मादेरभावान्न किञ्चित्तस्य ज्ञानम् ? इत्यपि श्रद्धामात्रम् ; तस्य विषयपरिच्छेदे प्रबन्धेन प्रसाधितत्वात् / यदि वा, आत्मा स्वरूपम् , आदिशब्देन अर्थपरिग्रहः, तेन स्वार्थयो: इत्ययमर्थः सिद्धो भवति / प्रसाधितञ्च स्वपरव्यवसायात्मकत्वं ज्ञानस्य प्रपञ्चतः स्वसं- 5 वेदनसिद्धौ इत्यलं पुनस्तत्प्रसाधनप्रयासेन / अथ को निक्षेपः ? इत्याह-'उपाय' इत्यादि / उपायः कारणम् आत्मादिज्ञानस्य नामादि न्यासो निक्षेपः इष्यते / नयो ज्ञातुरभिप्रायः, प्रमाणविषयीकृतेऽर्थे एकांशविषयो ज्ञातुः प्रमातुरभिप्रायः। किं फलमेतेषां स्वरूपव्यावर्णने ? इत्याह-युक्तितः प्रमाणादिलक्षणायाः अर्थस्य परिग्रहः स्वीकारः। उपलक्षणमेतत् तेन अनर्थपरिहारोऽपि गृह्यते / 10 कारिकां विवृण्वन्नाह-'ज्ञानं प्रमाणम्' इत्यादि / प्रमाणं धर्मि ज्ञानमिति साध्यम्, _ 'प्रमाणत्वान्यथानुपपत्तेः' इति हेतुरत्र द्रष्टव्यः। ननु सन्निकर्षादिना अयं हेतुर्व्यभिचारी, तस्याऽज्ञानरूपस्यापि अव्यपदेश्याव्यभिचारिव्यवसायात्मकज्ञानजनकत्वेन प्रमाणत्वसंभवात् इत्यत्राह-'कारणस्यापि' इत्यादि / कारणस्यापि यथोक्तज्ञानजनकस्यापि सन्निकर्षादेरचेतनस्य सतः प्रामाण्यमनुपपन्नम् / अत्र 15 दृष्टान्तमाह-असन्निकृष्टेन्द्रियार्थवत् / सन्निकर्षः सन्निकृष्टं तच्च इन्द्रियश्च अर्थश्च सन्निकृष्टेन्द्रियार्थाः, विवक्षितेभ्यस्तेभ्यः अन्ये असन्निकृष्टेन्द्रियार्थाः तेषामिव तद्वत् / यद्वा, असन्निकृष्टौ च तौ इन्द्रियार्थौ च तयोरिव तद्वत् / यद्वा, प्रयोगः-विवादगोचरापन्नं सन्निकर्षादि अप्रमाणम् अचेतनत्वात् अविवक्षितसन्निकर्षादिवत् / यथा च अचेतनस्य सन्निकर्षादेः प्रामाण्यन्नोपपद्यते तथा प्रत्यक्षपरिच्छेदे प्रपञ्चतः प्रतिपादितम् / 20 ___अत्राह पर:-'विषमः' इत्यादि / विषमः दार्शन्तिकेन समानो न भवति उपन्यासो दृष्टान्तरूपः / तदेव वैषम्यं दर्शयति-'असन्निकृष्टस्य' इत्यादिना / असन्निकृष्टस्य इन्द्रियार्थलक्षणस्य वस्तुनः तदकारणत्वात् विवक्षितज्ञानाहेतुत्वात् / एतदुक्तं भवति-यदि नैयायिकादिः चेतनत्वेन कचित् प्रामाण्यमभ्युपगच्छति तर्हि दृष्टान्ते चैतन्याभावे यथा प्रामाण्याभावः तथा दार्टान्तिकेऽपि स्यात् , यावता ज्ञानकारणत्वेन 25 तदभ्युपगतम् / तत्कारणत्वञ्च दृष्टान्ते यद्यपि नास्ति तथापि दार्टान्तिके अस्ति इति (1) आत्मादेः / (2) पृ० 343 / (3) पृ० 176 / (4) तुलना-“एत्थ किमळं णयपरूवणमिदि ? प्रमाणनयनिक्षेपर्योऽर्थो नाभिसमीक्ष्यते। युक्तञ्चायुक्तवद् भाति तस्यायुक्तञ्च युक्तवत्॥"धवलाटी० पृ०१६। (5) तुलना-"सम्यग्ज्ञानं प्रमाणं प्रमाणत्वान्यथानुपपत्तेः।"-प्रमाणप० पृ०५१ / प्रमेयक० पृ०७। स्या० र० पृ० 41 / प्रमेयर० 111 / प्रमाणमी० पृ० 2 / (6) तुलना-"न ह्यचेतनोऽर्थः स्वप्रमितौ करणं घटादिवत् ।”-प्रमाणप० पृ० 51 / (7) पृ० 29 / (8) प्रामाण्यं स्वीकृतं न चेतनत्वेन नाप्यचेतनत्वेनेति भावः / ___1-वीनामयं ब०। 2-ज्ञानकस्यापि आ० / 33