________________ 15 कारिकार्थ: 656 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० सप्तकं स्याद्वादः तत् सप्तकं यस्यासौ स तथोक्तेः तमिति / किं पुनः तत्सप्तकेन स्याद्वादस्य साधर्म्य येनवमुच्यते इति चेत् ; उपदेशाद्यनपेक्षाऽर्थज्ञानजनकत्वम् / यथैव हि ईक्षणात् परोपदेशलिङ्गान्वयव्यतिरेकनिरपेक्षं रूपादिज्ञानं जायते तथा स्याद्वादाद् भगवतः केवलज्ञानमिति / तमित्थम्भूतम् इष्टदेवताविशेष प्रणिपत्य वक्ष्यमाणलक्षण5 लक्षितान् प्रमाणनयनिक्षेपान् अभिधास्ये। कथम् ? यथागमम् , आगमानतिक्रमेण / अनेन तत्र आत्मनः स्वातन्त्र्यं परिहृतम् / / तत्र प्रमाणादीनां समासतो लक्षणं प्रतिपादयन्नाह ज्ञानं प्रमाणमात्मादेः उपायो न्यास इष्यते। नयो ज्ञातुरभिप्रायो युक्तितोऽर्थपरिग्रहः // 52 // विवृतिः-ज्ञानं प्रमाणं कारणस्याप्यचेतनस्य प्रामाण्यमनुपपन्नम् असनिकृष्टेन्द्रियार्थवत् / विषमोऽयमुपन्यासः असन्निकृष्टस्य तदकारणत्वादिति; नैतत्सारम् / अर्थस्य तदकारणत्वात् तस्येन्द्रियानिन्द्रियनिमित्तत्वात् अर्थस्य विषयत्वात् / न हि .. तत्परिच्छेद्योऽर्थः तत्कारणतामात्मसात्कुर्यात् प्रदीपस्येव घटादिः। ज्ञानमेव प्रमाणमेव इत्याद्यवधारणं सर्वत्र द्रष्टव्यम् / कस्य तत् / __इत्याह-आत्मादेः। आदिशब्देन पुद्गलादिपरिग्रहः। ननु ज्ञाना थयोः तादात्म्यादिसम्बन्धासंभवात् कथं तत्तस्य इत्युच्यते इति चेत् ; न; तदभावेऽपि विषयविषयिभावलक्षणसम्बन्धसंभवात् / तदभावे 'सोऽपि (1) ईक्षणसप्तकेन। (2) ग्रन्थकर्तुः। (3) "इष्यते अभ्युपगम्यते सकलविप्रतिपत्तीनां प्रागेव निरस्तत्वात् / किम् ? प्रमाणम् / किविशिष्टम् ? ज्ञानं जानाति ज्ञायतेऽनेन ज्ञप्तिमात्र वा ज्ञानमित्युच्यते, द्रव्यपर्याययोः भेदाभेदविवक्षायां कादिसाधनोपपत्तेः / कस्य? आत्मादे: आत्मा स्वरूपमादिर्यस्य बाह्यार्थस्य स आत्मादिः तस्य स्वार्थस्य ग्राहकमित्यर्थः। अथवा आत्मा चिद्रव्यमादिशब्देन आवरणानां क्षयोपशमः क्षयश्चान्तरङ्गं बहिरङ्गं पुनरिन्द्रियानिन्द्रियं गह्यते, तस्मादुपजायमानमित्यध्याहारः / तथा इष्यते / कः ? नयः। किं रूपः? अभिप्रायः विवक्षा / कस्य ? ज्ञातुः श्रुतजानिनः / तथा इष्यते। कः ? न्यासो निक्षेपः / किंविशिष्ट: ? उपायः अधिगमहेतुः नामादिरूपः / अर्थस्य स्वतः सिद्धत्वात् किमेत: प्रमाणादिभिरित्याशंक्याह-युक्तीत्यादि / युक्तितः प्रमाणनयनिक्षेपैरेवार्थस्य जीवादेः परिग्रहः प्रमितिर्न स्वतः इति ।"-लघी० ता० पृ० 75 / तुलना-"ज्ञानं प्रमाणमित्याहुर्नयो ज्ञातुर्मतं मतः ।"-सिद्धिवि०, टी० पृ० 518 A. प्रमाणसं०१० 127 / उद्धृतोयम्'ज्ञानं प्रमाणमित्याहुः..."-धवलाटी० पृ०१७। (4) तुलना-"ज्ञातृणामभिसन्धयः खलु नयास्ते द्रव्यपर्यायतः, तत्र द्रव्यमनन्तपर्ययपदं भेदात्मकाः पर्यया।"-सिद्धिवि० टी० 517 A. / (5) तुलना"ज्ञानं प्रमाणं नाज्ञानमिन्द्रियार्थसन्निकर्षादि."-प्रमाणवा० मनोरथ० पृ०३ / लघी० टि० पृ० 132 / "ज्ञानमेवेत्यवधारणात् सन्निकर्षादेरसंविदितात्मनो व्युदास: ।"-सिद्धिवि०, टी० पृ०५१८ A. / (6) तुलना-"नार्थालोको कारणं परिच्छद्यत्वात्तमोवत् ।"-परीक्षामु० 2 / 6 / प्रमाणमी० 101 / 25 / (7) ज्ञानम् / (8) अर्थस्य / (9) तादात्म्यादिसम्बन्धाभावे। (10) विषयविषयिभावोऽपि। 1-क्तमिति ब०। 2-केन स्यासा-आ० / 3 अनेन आत्म-श्र०। 4 उच्यते ज० वि० / -च्यतेति ब०।