________________ तृतीये प्रवचन प्रवेशे षष्ठः प्रवचनपरिच्छेदः। सत्यस्वच्छजलः सुरत्ननिचयः सज्ज्ञानवीचीचयः, ___ युक्तथावतहतस्वरूपकुमतप्रौढोग्नेक्रक्रमः / स्फारागाधगभीरमूर्तिरसमध्वानो जनानन्दनः, . स्याद्वादोदधिरेष वाञ्छितफलं दद्यात समासेवितः // 1 // अथ प्रमाणनयस्वरूपं निरूप्य इदानीं प्रमाणविशेषस्य आगमस्य स्वरूपं पृथक् / निरूपयितुमुपक्रमते, तत्र अनेकधा विप्रतिपत्तिसद्भावात् / तदादौ च शास्त्रस्य मध्यमङ्गलभूतम् इष्टदेवताविशेषगुणस्तोत्रमाह प्रणिपत्य महावीरं स्याद्वादेक्षणसप्तकम् / प्रमाणनयनिक्षेपानभिधास्ये यथागमम् // 51 // . प्रणिपत्य नत्वा / कैम् ? वीरम् अन्तिमतीर्थकर तीर्थकरसमुदायं वा। 10 किंविशिष्टम् ? स्याद्वादेक्षणसप्तकं। स्यादस्तीत्यादिसप्तभङ्गमयो कारिकार्थः वादः स्याद्वादः ईक्षणसप्तकं यस्य स तथोक्तः तम् / ननु स्याद्वादस्य ईक्षणव्यपदेशः मुख्यतः, उपचारतो वा स्यात् ? न तावत् प्रथमः पक्षः; चक्षुष्येव मुख्यतः तद्व्यपदेशप्रसिद्धेः। द्वितीयपक्षोऽप्यनुपपन्नः; यतो रूपादिप्रतिपत्तेः हेतुभूतं चक्षुः ईक्षणं लोके प्रसिद्धम् / न च भगवतः तत्प्रतिपत्तौ स्याद्वादो हेतुभूतः, 16 तत्कथमस्य उपचारतोऽपि ईक्षणव्यपदेशः ? अथ अपरमनेनासौं बोधयतीति तत्प्रतिपत्तेर्हेतुभूतत्वात् तद्व्यपदेशः; तर्हि परस्यैव तदीक्षणसप्तकं न भगवतः, अन्यदीयात्ततो अन्यस्य प्रतिपत्तेरयोगात् ; तदसमीचीनम् ; अन्यथा व्याख्यानात् / स्याद्वाद एव ईक्षणसप्तकं यस्माद् भव्यानां स तथोक्तस्तम् / यदि वा, ईक्षणसप्तकमिव ईक्षण (1) स्यादस्तीत्यादिसप्तभंगमयो वादः स्याद्वाद: ईक्षणानां सप्तकंम् ईक्षणसप्तकम् स्याद्वाद एवेक्षणसप्तकं यस्माद्विनेयानां भवत्यसो तथोक्तस्तम् / न खलु निरुपकारः प्रेक्षावतां प्रणामा)ऽनिप्र. सङ्गात् ।"-लघी० ता०पू०७४ / (2) ईक्षणव्यपदेश / (3) रूपादिप्रतीतौ। (4) स्याद्वादस्य / (5) स्याद्वादेन / (6) भगवान् / (7) ईक्षणव्यपदेशः / (8) स्याद्वाद / 1-बक्रक्रमः श्र०। 2 तदा सेवितः ब०, श्र० / 3 कं वीरं आ०। 4 अन्तिमतीर्थकरसमुदयं वा आ० / 5-अथ रमनेना-आ०, अथ परमतेना-ब०।