________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [5. नयपरि० ततः तस्याः समधिगतेः सकाशात् एकान्तवादी सुगतादिः सकलवित् सर्वज्ञो नेति 'ज्ञायते' इत्यध्याहारः। किं कुर्वन् ? अलक्षयन्, कारिकार्थः ___ अनिश्चिन्वन् / किम् इत्याह-तत्त्वं जीवादि / कथम्भूतम् ? इत्याहअनेकान्तभाक् अनेकान्तात्मकम् / पुनरपि कथम्भूतम् ? इत्याह-शक्यपरी। क्षणम् , अपिशब्दोऽत्र द्रष्टव्यः / शक्यं परीक्षणं संशयादिव्यवच्छेदेन स्वरूप विवेचनं यस्य तत् तथोक्तम् / तदपि पृथग्जनलक्ष्यमपि इत्यर्थः / पुनरपि कथम्भूतम् ? प्रत्यक्षम्, प्रत्यक्षग्राह्यमपि, अत्रापि अपिशब्दो द्रष्टव्यः / किं कृत्वाऽलक्षयन् ? इत्याहअभ्यस्य, किम् इत्याह- स्वमतम्, एकान्तम्, अथवा सुष्ठु अमतमज्ञानं क्षणिक निरंशतत्त्वम् / अनेन जीवादितत्त्वालक्षणे कारणमुक्तम् / ननु तल्लक्षणे किं प्रयोजनम् ? 10 इति चेदत्राह-प्रेक्षावान् इत्यादि / अत्रापि 'ततः' इत्येतदपेक्ष्यम् , ततोऽयमर्थः सिद्धः ततः तज्ज्ञानात् प्रेक्षावान् परीक्षको लोकः अकलङ्कः निर्दोषः अतत्त्वाभ्यासरहितः / त्वामेव याति शरणम् / किंविशिष्टं त्वाम् ? वीरम्, वीरनामानम् अन्तिम तीर्थकरदेवम् / यदि वा, विशिष्टाम् अन्यजनासाधारणाम् ईम् अन्तरङ्गबहि रङ्गलक्षणां श्रियं रातीति वीरः तीर्थकरसमुंदयः तम् / पुनरपि कथम्भूतम् ? जिनम्, 15 संसारसमुद्रावर्त्तपरिभ्रामककर्मचक्रोन्मूलकम् / न केवलं त्वामुक्तविशेषणं शरणमेव यात्ययं प्रेक्षावान जनः, किन्तु नमस्करोति च / केन विशेषणेन ? इत्याह-सर्वज्ञाय सकलविदे / कथम्भूताय ? इत्याह-निरस्तबाधकधिये, निरस्ता बाधकानाम् एकान्तवादिनां धीर्येन / यदि वा, निरस्तं बाधकं यस्याः सा तथाविधा धीर्यस्य, निरस्ता वा बाधिका धीर्यस्य तस्मै / पुनरपि कथम्भूताय ? स्याद्वादिने ते तुभ्यं नमः स्तात् नमस्कारोऽस्तु इति / 'अकलङ्काय वीराय जिनाय' इति विभक्तिपरिणामेन उत्तरं पदत्रयं योज्यमिति / स्याद्वादोअरवेरशेषविषयप्रद्योतिनो देशतः, ___ तद्रूपप्रतिरूपणाय गदिताः सप्तैव ते सन्नयाः / किं भास्वान्निखिलप्रकाशनपटुर्बालाग्रमप्युच्चकैः, शक्तो द्योतयितुं विनोन्नतकरैर्निर्मूल्य बाढं तमः ? // छ / 'इति प्रभाचन्द्रविरचिते न्यायकुमुदचन्द्रे लघीयस्त्रयालङ्कारे पञ्चमः परिच्छेदैः॥ छ / एवं प्रकान्तप्रत्यक्षादिपरिच्छेदपञ्चमो नयप्रवेशो द्वितीयपरिच्छेदः समाप्तः / - - 1-च्छेवे स्व-आ० / 2-पेक्षम् आ० / 3 ततोप्यर्थः आ० / 4 तत ज्ञानात् आ० / 5-कोऽकलश्र०। 6 त्वां वीरनामानं आ०। 7-मतीर्थ-श्र०, ब०। 8-मुदायः श्र० / 9-दिने तुभ्यं आ० / 10 उत्तरपदत्रयं आ० / 11 इति श्रीमत्प्रभाचन्द्रदेववि-ब० / 12-दः समाप्तः ब० / 13 एकान्तं-ब० /