________________ नयप्र० का 0 50 ] शब्दादिनयानां निरूपणम् भवति तथा व्यप्तिज्ञानपरीक्षायां प्रपञ्चतः प्ररूपितमित्यलमतिप्रसङ्गेन / ततः सिद्धम्नयस्य निर्विषयत्वे साध्ये 'विकल्पत्वात्' इत्यस्य हेतोः तर्केण अनैकान्तिकत्वम् / तथा स्मरणेन चे, इत्याह-'स्मरणम्' इत्यादि / स्मरणं सर्व संज्ञानं 'प्रमाणम्' इति सम्बन्धः / कथम्भूतम् ? इत्याह-अधिगताथोविसंवादि, स्वयं स्मरणेन अधिगतो योऽर्थः तदविसंवादि, यदि वा, प्रमाणान्तरेण अधिगतार्थाविसंवादि। 5 कस्मिन् सति ? इत्याह-प्रामाण्ये सति / कस्याः ? अनुमायाः / क ? इत्याह'तत्कृत' इत्यादि / तेन तर्केण कृतो निश्चितोऽर्थः अविनामावलक्षणः तस्य आधारभूते एकदेशेऽपि साध्यस्वरूपे, च शब्दो भिन्न प्रक्रमः अपिशब्दार्थः / ततः किं जातम् ? इत्याह-'समधिगतिः' इत्यादि / अतः अस्मात् नयानां निर्विषयत्वप्रसाधकहेतो: तर्कस्मृत्यनुमानज्ञानैः व्यभिचारित्वलक्षणात् न्यायात् समधिगतिः जीवाद्यर्थानां 10 सप्तधाख्यैः नयाँधैः / तैश्च तेषां समधिगतौ सत्यां यज्जातं तद्दर्शयतिसर्वज्ञाय निरस्तबाधकधिये स्याद्वादिने ते नमस्तात्प्रत्यक्षमलक्षयन् स्वमतमभ्यस्याप्यनेकान्तभाक् / तत्त्वं शक्यपरीक्षणं सकलविन्नैकान्तवादी ततः, प्रेक्षावानकलङ्क याति शरणं त्वामेव वीरं ज॑िनम् // 50 // (1) पृ० 423 / (2) अनैकान्तिकत्वम् / (3) नयैः / (4) जीवाद्यर्थानाम् / (5) 'न स्यात् सकलवित् त्रिकालगोचराशेषद्रव्यपर्यायवेदी न भवेत् / कः ? एकान्तवादी "सुगतादिः / किं कुर्वन् ? अलक्षयन् अजानन् / किम् ? तत्त्वम् किं विशिष्टम् ? अनेकान्तभाक् अनेकान्तं द्रव्यपर्यायात्मतां भजत्यात्मसात्करोति इत्यनेकान्तभाक् / पुनः कथम्भूतम् ? शक्यं परीक्षणं शक्यपरीक्षणं संशयादिव्यवच्छेदेन विवेचनं यस्य तथोक्तं लौकिकगोचरमपीत्यर्थः / कथम् ? प्रत्यक्षम् किं कृत्वा ? अभ्यस्य भावयित्वा। किम? स्वमतम् सर्वथैकान्तदर्शनं निरन्वयविनाशादिभावनावहितचेतसोऽनेकान्ततत्त्वमधिगन्तुमनलमिति कथं सर्ववेदित्वं तेषामित्यर्थः / ततः कारणात्, भो अकलंक ज्ञानावरणादिकलङ्करहित, नमस्करवाणि / कस्मै ? तुभ्यम् / कथम्भूताय ? सर्वज्ञाय ' 'पुनः किं विशिष्टाय ? निरस्तमनेकान्ततत्त्वभावनाबलाद्विश्लेषितं बाधकं दोषावरणद्वयं यस्याः सा निरस्तबाधका तादृशी धीर्यस्य तथोक्तस्तस्मै / भूयः किम्भूताय ? स्याद्वादिने। न केवलमहमेव ते नमस्कारोमि किन्तु प्रेक्षावान परीक्षकः सर्वोपि त्वामेव शरणं याति प्रतिपद्यते, नित्यप्रवृत्तमानविवक्षया एवं वचनात् / किन्नामानम् ? वीरं पश्चिमतीर्थकरं वर्धमानम् / पुनरपि कथम्भूतम् ? जिनम् बहुविधविषमगहनभ्रमणकारणं दुष्कृतं जयतीति जिनस्तम्"-लघी० ता० पृ० 72 / (6) पालीभाषायां तु जिनातेर्धातोः 'जिनातीति जिनः' इति सिद्धयति / (7) एतच्छ्लोकानन्तरं परिच्छेदसमाप्तिं विधाय ज० वि० प्रतौ निम्नश्लोकः समुल्लिखितः, परञ्च सः तात्पर्यवृत्तिकृता अभयचन्द्रेण न्यायकुमुदकृता चाऽव्याख्यातत्वात् अर्थप्रकरणदृष्टयाऽसङ्गतत्वाच्च प्रक्षिप्त एव भाति-"मोहेनैव (नाहं नैव) परोऽपि कर्मभिरिह प्रेत्याभिबन्धः पूनः / भोक्ता कर्मफलस्य जातुचिदिति प्रभ्रष्टदृष्टिर्जनः / कस्माच्चित्रतपोभिरुद्यतमनाश्चैत्यादिकं वन्दते। किं वा तत्र तपोऽस्ति केवलमिमे धूतर्जडा वञ्चिताः // " (अयं श्लोकः यशस्तिल कचम्पूत्तरभागेऽपि पृ० 257) प्रश्रुतिरूपेण निष्टङ्कितः। 1-मिप्रस-आ012 भिन्नक्रमः श्र०।-तिरिति इत्यादि श्र०। 4-कलमेति शरणं ज० वि०।