________________ लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [5. नयपरि० व्याप्तिं साध्येन हेतोः स्फुटयति न विना चिन्तयैकत्र दृष्टिः, संकल्येनैष तर्कोऽनधिगतविषयः तत्कृतार्थेकदेशे। प्रामाण्ये चानुमायाः स्मरणमधिगतार्थाविसंवादि सर्वम्, संज्ञानश्च प्रमाणं समधिगतिरतः सप्तधाख्यैनयोधैः // 49 // व्याप्तिम् अविनाभावं हेतोः लिङ्गस्य साध्येन लिङ्गिना सह स्फुटयति * प्रकाशयति न, काऽसौ ? दृष्टिः दर्शनम् एकत्र एकस्मिन् देशे, कारिकाव्याख्यानम् " उपलक्षणमेतत् तेन 'एकदा चे या दृष्टिः' इति गृह्यते / सकलदृष्टिरेव स्फुटयति, तत्रं च अनुमानमनर्थकमित्यभिप्रायः / केन विना इत्याह-विना चिन्तया, तया सहिता तु स्फुटयति। अत: सौ प्रमाणान्तरं स्यादिति भावः / कथं तया विना साँ ती न स्फुटयति इत्याह-साकल्येन सामस्त्येन / देशतस्तु यदि स्फुटयति तदा स्फुटयतु, किन्तु तथाऽनुमानानुदयः / कस्तर्हि साकल्येन ती स्फुटयति ? इत्याह-'एषः' इत्यादि / एषः प्रतिप्राणिस्वसंवेदन-प्रत्यक्षप्रसिद्धः तर्कः मानसोऽस्पष्टविकल्पः / कथम्भूतः ? इत्याह-अनधिगतविषयः अनधिगतः प्रमाणान्तरेणाऽपरिच्छिन्नः विषयो यस्य स तथोक्तः / स किम् ? इत्याह-संज्ञानमेव, च शब्दः एवकारार्थः, अत 15 एव प्रमाणम् / यथा चासौं साकल्येन व्याप्तिप्रकाशकः अनधिगतविषयः संज्ञानञ्च (1) "न स्फुटयति न प्रकाशयति / का? एकत्र दृष्टिः एकस्मिन् महानसादौ साध्यसाधनयोः दृष्टिदर्शनं प्रत्यक्षमित्यर्थः / काम् ? व्याप्तिमविनाभावम् / कस्य ? हेतोः साधनस्य धूमादेः / केन सह ? साध्येन अग्न्यादिना सह। केन ? साकल्येन सकलानां देशकालान्तरितसाध्यसाधनव्यक्तीनां भावः साकल्यं तेन / कथम् ? चिन्तया विना ऊहप्रमाणाभाव इत्यर्थः / न हि दृष्टान्तमिणि साध्यसाधनसम्बन्धदर्शनं साकल्येन व्याप्तिप्रतिपत्तौ समर्थमनुमानानर्थक्यप्रसङ्गात् तद्रष्टुरभिज्ञत्वापत्तेश्च / तहि किं प्रमाणं तां स्फुटयतीति चेदुच्यते ? एष तर्कः यः साकल्येन साध्यसाधनयोः व्याप्ति स्फुटयति ज्ञानं स एव च सकलानुमानिकप्रसिद्धस्तर्क इत्युच्यते / ननु गृहीतग्राहित्वादस्याप्रामाण्यमित्याशंक्याहअनधिगतविषयः / किविशिष्ट: ? संज्ञानं सम्यक्ज्ञानमर्थे प्रमाणं भवतीति / तथा स्मरणं स्मृतिश्च प्रमाणम् / किं विशिष्टम् ? अधिगतार्थविसंवादि, अधिगतः प्रत्यक्षेणानुभूतोऽर्थो विषयस्तत्र अविसंवादि विसंवादरहितमिति / एतच्च संज्ञानमिति / कस्मिन् सति ? प्रामाण्य प्रमाणत्वे सति / कस्याः ? अनमायाः अनमानस्य / क्व ? तत्कृतार्थंकदेशे, तेन तर्केण कृतो निश्चित: अर्थोऽविनाभावस्तस्यैकदेशः साध्यं तत्रानुमानप्रामाण्यस्य स्मृतितर्कप्रामाण्याविनाभावित्वादित्यर्थः / अथवा सञ्ज्ञानञ्च प्रत्यभिज्ञानञ्च प्रमाणमविसंवादाविशेषात् / न केवलमेतत् परोक्षमेव विकल्पात्मकं प्रमाणमपि तु सर्वं प्रत्यक्षमपि विकल्पात्मकं प्रमाणं तस्यैव व्यवहारोपयोगित्वात्, निर्विकल्पकस्य क्वचिदप्यनुपयोगात् / अतः कारणातर्कादिवत् विकल्पात्मकैरेव नयोघैः समधिगतिः सम्यगधिगमो जीवादितत्त्वनिर्णयो भवति / किं भूतैः ? सप्तधाख्यः, सप्तधा नैगमादिसप्तप्रकारा आख्या येषां तैरिति ।"-लघी० ता० पृ०७० / (2) सकलदृष्टौ सर्वज्ञतायाम् / (3) दृष्टिः / (4) चिन्तया। (5) दृष्टिः / (6) व्याप्तिम् / (7) एकदेशेन व्याप्तिग्रहणे सति / (8) व्याप्तिम् / (9) तर्कः / 1 वानुमा-ज० वि० / 2-दिसं-मु० लघी०। 3-यो यः आ० / 4 च दृष्टिः आ० / 5 विना तासां न आ० /