________________ नयप्र० का० 48 ] शब्दादिनयानां निरूपणम् कर्ता तदैव प्रत्यक्षदेशादिसामग्रीसन्निधानात् स एव कर्म, अन्यकर्मापेक्षया करणम् , तस्मै दीयमानद्रव्याद्यपेक्षया सम्प्रदानम् , तस्माद् आकृष्यमाणभावापेक्षया अपादानम् , तत्र स्थाप्यमानार्थापेक्षया अधिकरणमिति ।तथा तेन प्रकारेण कालादिभेदतः काल आदिर्यस्य देशादेः स तथोक्तः तद्भेदतः एकस्य षट्कारकी प्रकल्पेत' इति सम्बन्धः। तद्यथा आसीद् देवदत्तः कादिस्वभावो भवति भविष्यति वा / एवमन्यत्रापि योज्यम् / 5 ___ कारिकार्थं दर्शयन् अत्र सुनयदुर्नयभेदं दर्शयति-'प्रतिक्षणम्' इत्यादिना / क्षणं क्षणं प्रति प्रतिक्षणम् , अर्थमर्थं प्रति प्रत्यर्थश्च नानासामग्रीविवृतिव्याख्यानम् - सन्निपातात् षट्कारकीसंभवेऽपि तत्प्रतिक्षेपः तस्याः षट्कारक्याः प्रतिक्षेपो निरासः दुर्नयः। कथं तत्संभव: ? इत्यत्राह-यथैकं स्वलक्षणम् , यथा एकं स्वलक्षणं व्यवस्थितं तथा यथा भवति तथा तत्संभवेऽपि इति / नन्वेकस्य 10 स्वलक्षणस्य अनेकस्य स्वभावस्य कार्यस्य च संभवे तद्वदन्यत्रापि तत्संभवः स्यात् , नचासावस्ति, तत्संभवे तस्यावश्यं भेदात् इत्यत्राह-'स्वभाव' इत्यादि / स्वभावभेदानां कार्यभेदानाञ्च तदभेदकत्वात् स्वलक्षणाभेदकत्वात् / न खलु सजातीयेतरकार्यभेदे तत्कारणस्वभावभेदे वा स्वलक्षणस्य भेदोऽस्ति / एवं कालादिभेदे षट्कारकीसंभवेऽपि तन्निरासो दुर्नयः इति दर्शयन्नाह-'तथा' इत्यादि / यथा सामग्रीभेदे 15 एकस्य षट्कारकीसम्भवेऽपि तन्निरासो दुर्नयः, तथा कालादिभेदेऽपि 'षट्कारकी संभवेऽपि' इति सम्बन्धः / अत्रापि 'स्वभाव' इत्यादि अपेक्ष्यम्। कस्तर्हि नयः ? * ' इत्यत्राह-'तदपेक्षो नयः' इति / तस्यां षट्कारक्याम् अपेक्षा यस्य असौ नयः / कुतः स नयः ? इत्यत्राह-'स्वार्थ' इत्यादि / स्वः विषयीक्रियमाणो योऽर्थः तस्य प्राधान्येऽपि तद्गुणत्वाद् अविवक्षितधर्माणामप्रतिक्षेपेण गुणीभूतत्वात् / यदि एवं- 20 विधो नयो भवति, प्रमाणं तर्हि कीदृशम् ? इत्याह-'तद्' इत्यादि / तद् अगुणीभूतं विवक्षिताविवक्षितधर्मोभयम् आत्मा यस्य अर्थस्य तस्य ज्ञानं प्रमाणम् / अनेन "प्रमाणनयैरधिगमः'' [ तत्त्वार्थसू० 1 / 6 ] इत्येतत् सगृहीतम् / ननु नयः सर्वोऽपि मानसो विकल्पः, विकल्पश्च निर्विषय एव तत्त्वात् प्रधानदिविकल्पवत् , तत्कथं तेनं कस्यचिदधिगमः स्यात् ? इत्याशक्य 'विकल्पत्वात्' 25 इत्यस्य हेतोः तर्कादिना अनैकान्तिकत्वं दर्शयन्नाह (1) शब्दादिषु / (2) एकम् / (3) येन प्रकारेण। (4) कालादिभेदसंभवेप्येकमेवेत्यर्थः। (5) अनेकस्वभावकार्यसम्भवः / (6) अनेकस्वभावकार्यसंभवे। (7) अर्थस्य / (8) षट्कारकीप्रतिक्षेपः / (9) विकल्पत्वात् / (10) नयेन / 1-व्यापेक्षया श्र। 2 तदभेदतः आ० / 8 प्रकल्प्येत ब०, श्र०। 4 क्षणं प्रतिक्षणम् ब० / 5 तस्याः निरा-श्र० / 6 यथा तथा भवति श्र०। 7 अनेक स्वभा-आ०, ब० / 8 तत्करण-आ० / 9 तदित्यादि श्र०। 10 तद्गुणी-श्र० / 11 अर्थस्य ज्ञानं श्र० / 12 ननु न नयः श्र० /