________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [5. नयपरि० एकस्यानेकसामग्रीसन्निपातात् प्रतिक्षणम् / षट्कारकी प्रकल्पेत तथा कालादिभेदतः॥४८॥ विवृतिः-प्रतिक्षणं प्रत्यर्थं च नानासामग्रीसन्निपातात् षट्कारकीसंभवेऽपि यथैकं स्वलक्षणं स्वभावकार्यभेदानां तदभेदकत्वात् तथा कालादिभेदेऽपि / 5 तत्प्रतिक्षेपो दुर्नयः तदपेक्षो नयः, स्वार्थप्राधान्येऽपि तद्गुणत्वात् / तदुभयात्मार्थज्ञानं प्रमाणम् / एकस्य वस्तुनः, अपिशब्दोऽत्र द्रष्टव्यः ततोऽनेकस्यापि प्रकल्पेत। का ? इत्याह-षट्कारकी। कुत इत्याह-अनेकसामग्रीसन्निपातात् कारिकाव्याख्यानम् - अनेका नाना या सामग्री अनेककार्योत्पादककारणसमग्रता तस्याः 10 सन्निपातात् / कथं प्रकल्पेत इत्याह-प्रतिक्षणं, क्षणं क्षणं प्रति प्रतिक्षणं यथाभवति तथा प्रकल्पेत / तथाहि-यदैव चक्रादिसन्निधानात् घटस्य करणाद् देवदत्तः (1) "प्रकल्पेत घटेत / का? षट्कारकी, षण्णां कारकाणां समाहार: षटकारकी। कस्य? एकस्यापि जीवादिवस्तुनः अपिशब्दस्याध्याहारात् / कथम् ? प्रतिक्षणम्, क्षणः समयः क्षणं क्षणं प्रति प्रतिक्षणम् / कस्मात् ? अनेकसामग्रीसन्निपातात्, अनेका बहिरङ्गाऽन्तरङ्गा सामग्री कारणकलापः तस्याः सन्निपातः सन्निधिस्तस्मात् / तथाहि-यदैव चक्रादिसन्निधानात् घटस्य कर्ता देवदत्तः तदेव स्वप्रेक्षकजनसन्निधानात् स एव दश्यते इति कर्म, प्रयोजनापेक्षया देवदत्तेन कारयतीति करणम, दीयमानद्रव्यापेक्षया देवदत्ताय ददातीति सम्प्रदानम्, अपायापेक्षया देवदत्तादपैतीति अपादानम्, तत्र स्थद्रव्यापेक्षया देवदत्ते कुण्डलमित्यधिकरणमित्यविरोधातथाप्रतीतेः। न हि प्रतीयमाने विरोधो नाम / तथा युगपदिव कालादिभेदत: कालदेशाकाराणां भेदः क्रम: तेनापि षट्कारकी प्रकल्पेत / तथाहि अकरोद्देवदत्तः करोति करिष्यतीति प्रतीतिबलायातत्वात् / अथवा तथा एकस्य षट्कारकीप्रकल्पनवत् कालाद्यपि प्रकल्पेत / कुतः? भेदतः कथञ्चिदर्थस्य भेदात। सर्वथाऽभिन्ने सकलकारकादिभेदानपपत्तेः ।"-लघी० ता० पृ०६८ / (2) तुलना-"एवमेते शब्दसमभिरुढेवम्भूता नयाः परस्परापेक्षाः सम्यक् अन्योन्यमनपेक्षास्तु मिथ्येति प्रतिपत्तव्यम्।"-प्रमेयक० 10680 / "अर्थभेदं विना शब्दानामेव नानात्वैकान्तस्तदाभासः ।"-प्रमेयर० 6 / 7 / 4 / “एवं शब्दादयोऽपि सर्वथा शब्दाव्यतिरेकमर्थं समर्थयन्तो दुर्नयाः ।"न्यायावता० टी० पृ० 90 / 'तद्भेदेन तस्य तमेव समर्थयमानस्तदाभासः / यथा बभूव भवति भविष्यति सुमेरुरित्यादयो भिन्नकालाः शब्दा भिन्नमेवार्थमभिदधति भिन्नकालशब्दत्वात्तादृसिद्धान्यशब्दवदित्यादिरिति ।"-प्रमाणनय० 7134,35 / जनतर्कभा० 1024 / “पर्यायनानात्वमन्तरेणापि इन्द्रादिभेदकथनं तदाभासः ।"-प्रमेयर०६।७४ / “पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्तदाभासः इति / यथेन्द्रः शक्रः पुरन्दर इत्यादयः शब्दा भिन्नाभिधेया एव भिन्नशब्दत्वात् करिकुरङ्गतुरङ्गमशब्दवदित्यादिरिति ।"-प्रमाणनय०७३८,३९। जैनतर्कभा०प०२४। "क्रियानिरपेक्षत्वेन क्रियावाचकेष काल्पनिको व्यवहारस्तदाभास इति ।"-प्रमेयर० 6174 / "क्रियानाविष्टं वस्तू शब्दवाच्यतया प्रतिक्षिपंस्तु तदाभासः / यथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दबाच्यं घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशन्यत्वात् पटादिवदित्यादिरिति ।"-प्रमाणनय०७४४२,४३। जैनतर्कभा०प० 24 / / 1 प्रकल्प्येत श्र०, ब०। 2 यथैकस्व-ज० वि०। 8-थें ज्ञानं ज० वि०। 4 प्रकल्प्येत श्र०, ब०। 5 प्रकल्प्येत ब०, श्र०। 6 प्रतिक्षणं क्षणं प्रति आ०, ब०। 7 'प्रतिक्षणं' नास्ति आ० / 8 प्रकल्प्येत श्र० ब०॥