________________ नयप्र० का 047] शब्दादिनयानां निरूपणम् 146 दूषणान्तरमाह-'तथा' इत्यादिना / तथा तेन कारकाभावप्रकारेण एकस्य अभिन्नस्य अर्थस्य सुरपतिलक्षणस्य 'इन्दनाद् इन्द्रः' 'शकनात् शक्रः' 'पुरन्दारयति इति पुरन्दरः' इत्येवं पर्यायभेदात इन्दनादिपरिणामभेदात् / अथवा, इन्द्रादिशब्दपर्यायभेदात् सकाशात् तद्भेदञ्चाश्रित्य यासौ परेणाभ्युपगता। का ? इत्याह-भिन्नार्थता नानार्थता / केषाम् ? इत्याह-तद्वाचिनाम् एकार्थवाचिनां शब्दानाम् इन्द्राद्यभिधानानाम् / सा / किम् ? इत्याह-न संभवत्येव, मनागपि तत्संभवो नास्ति इत्येवकारार्थः / कुत एतदित्यत्राह-'व्यतिरेक' इत्यादि / यः सुरपतिलक्षण एकार्थः यश्च शकनादिः तयोः परस्परं व्यतिरेकैकान्तः भेदैकान्तः यश्च इतरैकान्तः अभेदैकान्तः तयोः तत्रैकान्ते विरोधात् / व्यतिरेकैकान्ते हि सम्बन्धासिद्धेरनवस्थानुषङ्गाच्च विरोधः सिद्धः / इतरैकान्ते च इन्दनादेः एकत्वर्सिद्धेः से सिद्ध इति / ननु न द्रव्यं नापि शक्तिस्तदुभयं वा 10 कारकलक्षणम् , किन्तु क्रियाविष्टं द्रव्यं कारकम् ; इति चेदत्राह-'तत एवं' इत्यादि / 'तत एवं' अनन्तरोक्तविरोधादेव क्रियाकारकयोः क्रिया अधिश्रयणादिलक्षणा, कारक कादि, तयोः तत्र मिथ्र्यकान्ते असंभवो विज्ञेयः / ___ उपसंहारमाह-'तद्' इत्यादि / यस्माद् एकान्ते कालकारकलक्षणं नोपपद्यते तत् तस्माद् अनेकान्तसिद्धिः तत्रैव अस्योपपत्तेः / काभ्यां तत्सिद्धिः ? इत्याह-विधि- 15 प्रतिषेधाभ्याम् , स्वपररूपादिचतुष्टयापेक्षसदसत्त्वाभ्याम् / समर्थितञ्चैतद् अनेकान्तसिद्ध्यवसरे इत्यलमतिप्रसङ्गेन / ननु एकान्तव्यतिरिक्तस्य शब्दार्थस्यासंभवात् सर्वत्र लिङ्गाद्यसंभवो भवतः स्यादिति चेदत्राह-'तद्' इत्यादि / तस्य अनेकान्तरूपस्य अर्थस्य अभिधानात् प्रतिपादनात् / अत्रापि "विधिप्रतिषेधाभ्याम्' इति सम्बन्धनीयम् / कुतः ? न कुतश्चित् तदभिधानलिङ्गाद्यसंभवोपालम्भः, तस्य अनेकान्तार्थस्य अभि- 20 धानं प्रतिपादकं वचनं तस्य लिङ्गादिः, आदिशब्दात् वचनादिपरिग्रहः तस्याऽसंभवः, स एव उपालम्भः कुतः न कुतश्चित् स्याद्वादम् अनेकान्तवादम् अनुवर्तेत यायात् / ननु सर्वथा भावानामभावात् तदर्थाभिधानमसिद्धम् इत्यत्राह-नाभावैकान्तः शून्यतैकान्तः / यथा चासौ नास्ति तथा विषयपरिच्छेदे व्यासतश्चिन्तितम् / यता अनेकौन्ते तदुपालम्भाभावः अंत: (1) अभेदैकान्ते / (2) विरोधः / (3) 'क्रियाविष्टं द्रव्यं कारकमिति प्रसिद्धः।"-युक्त्यनु० टो० पृ० 28 / (4) पृ० 366 / (5) पृ० 119 / 1 तदभेदं वाश्रित्य श्र०, ब० / 2-गता केषाम् आ०,-गता केत्याह भिन्नार्थता केषाम् ब० / 3 संभव मनाग-आ०। 4-दित्याह श्र०।-स्पर व्यति-श्र०। 6 विरोधसिद्धः आ०, विरोधसिद्धिः श्र०। 7-द्धः सि-श्र०। 8 कियाविशिष्टं श्र। 9-श्रवणा-ब०। 10 एकान्ते कारक-आ० / 11-रिक्तशब्दा-आ। 12 तस्याकान्त-आ०। 13 तत्रापि आ०। 14 विधिनिषेधा-आ० / 15-लम्भस्यानेका-श्र० / 16-कान्ते न तद्-आ० / 17 'अतः' नास्ति श्र०।। 32