________________ 648 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [5. नयपरि० सम्बन्धनीयम् / दूषणान्तरमाह-'शक्ति' इत्यादि / शक्तिशक्तिमतोः व्यतिरेकैकान्ते अङ्गीक्रियमाणे सम्बन्धीसिद्धिः सह्यविन्ध्यवत् / अथ तदेकान्तेऽपि राजपुरुषवद् उपकार्योपकारकभावात् सम्बन्धसिद्धिरिष्यते, अत्राह-अनवस्थानुषङ्गात् इति / अत्रा यमभिप्रायः यथा राजपुरुषयोरन्योन्यमुपकार्योपकारकभावः तथा चेत् शक्तितद्वतो। स्तद्भावः तदा तत्र प्रत्येकम् अपरा शक्तिः कल्पनीया तत्राप्येवं चोद्यमित्यनवस्था / एतेन अनयोः समवायः विशेषणीभावः अन्यो वा भिन्नः सम्बन्धः चिन्तितः / तयोरभेदैकान्तं दूषयन्नाह-'तदव्यतिरेकैकान्ते' इत्यादि / तयोः शक्तिशक्तिमतोः अव्यतिरेकैकान्ते अभेदैकान्ते अङ्गीक्रियमाणे 'शक्तिः शक्तिमत्' इति एवं या परस्य वाचोयुक्तिः / वचनोपपत्तिः सा रिता निरर्थिका / तस्मिन् सति शक्तिरेव स्यात्, न च सौ परस्य निराधारा युक्ता द्रव्यादिकल्पनावैफल्यप्रसङ्गात् / शक्तिमदेव वा स्यात्, तेदपि शक्त्यभावेऽनुपपन्नम् / न च द्रव्यादिकमेव शक्तिरित्यभिधातव्यम्; शक्तिपरीक्षायां तस्याः ततो व्यतिरिक्तायाः प्रसाधितत्वात् / प्रकृतमुपसंहरन्नाह-'तद्' इत्यादि। यतो भेदाभेदैकान्ते शक्तिशक्तिमद्भावो नोपपद्यते 'तत् तस्मात् नैकान्ते द्वार की कादीनां षण्णां कारकाणां समाहारो व्यवतिष्ठत, 15 कारकाभावे तत्समाहाराभावात् इत्यभिप्रायः / तथा अन्यच्च यत्प्राप्तं तदाह-'कुतः' इत्या दिना। कुतः ? न कुतश्चित् / पुनः इति दूषणान्तरसूचनार्थः / लिङ्गव्यवस्था लिङ्गानां स्त्रीत्वादीनां स्थितिः। कस्य सा न ? इत्यत्राह-अन्यतमस्यापि / केषामन्यतमस्य ? इत्याह-शब्दार्थप्रत्ययानाम् / वैयाकरणैर्यथासंभवं तेषामेव त्रयाणां लिङ्गव्यवस्थोपगमात / ननु यदि कारकव्यवस्था नास्ति किमायातं लिङ्गाव्यवस्थाया येन सापि न स्यात् ? इत्याह-'स्त्यायति' इत्यादि / स्त्यायति सङ्घातीभवति अस्यां गर्भ इति स्त्री। प्रतूते जनयति स्वान् आत्मीयान् पर्यायान् इति पुमान् / तदुभयात्यये स्त्यानप्रसवनोभयाभावे नपुंसकमिति / एवं या व्यवस्था, सा कुतः ? लिङ्गव्यवस्थायाः कारकनिबन्धनत्वेन तदभावेऽभावादिति मन्यते / अत्रैव एकान्ते (1) उपकार्योपकारकभावः / (2) शक्तितद्वतोः / (3) शक्तिः / (4) मीमांसकादेः / (5) शक्तिमदपि / (6) पृ० 160 / (7) शक्तेः / (8) द्रव्यादेः / (9) "नित्याः षट्शक्तयोऽन्येषां भेदाभेदसमन्विताः / क्रियासंसिद्धयेऽर्थेषु जातिवत्समवस्थिताः ॥"-वाक्यप० साधनसमु० श्लो०३५ / (10) तुलना-"संस्त्यानप्रसवौ लिङ्गमास्थयौ इति परिभाषितं भाष्ये लिङ्गमुक्तं तथा चाह-संस्त्याने स्त्यायतेर्डट् स्त्री, सूतेस्सप्रसवे पुमानिति / स्त्यानं संहननं प्रसव उपचयो रूपादीनां सत्त्वादिगुणानाम् / स्त्यायति संहननमापद्यतेऽस्यां गर्भ इत्यधिकरणं स्त्री। सूतेर्धातो वे प्रसव उपचये डुम्सुन् प्रत्यये परतस्सकारस्य पकारादेशे कृते पुमानिति / यदाह-सबिति सकारस्य पकारादेश इत्यर्थः / अनेन च प्रकारेण विषये सूत्यर्थे वृत्ति सूचयति / " उभयधर्मसाम्यरूपा स्थितिर्नपुंसकमर्थादुक्तं भवति।"-वाक्यप० लिङ्गसमु०१० 436 / 1-सिद्धेः आ012-सिद्धिरिति इष्य-ब। एतदन्तर्गतः पाठो नास्ति आ०। 3 कारणानां श्र०।