________________ नयप्र० का० 47] शब्दादिनयानां निरूपणम् / न्यक्षः' इति व्युत्पत्तेः। न्यक्षेण विस्तरेण इति वा। कथम्भूतं तत् तेनेक्ष्यम् इत्याह'द्रव्य' इत्यादि / द्रव्यम् ऊर्ध्वतासामान्यं तस्य सहक्रमभुवो विवर्ताः पर्यायाः, सदृशपरिणामः सामान्यम्, विसदृशपरिणामो विशेषः ते एव आत्मा यस्यार्थस्य तत्र निष्ठितम् तदात्मकमिति यावत् / ततो निराकृतमेतत्- 'कालादेः स्वयमभेदात् कथं तद्भेदात् कश्चिदर्थभदेकृत्"[ ] इति। सहकार्युपादानसन्तानवद् अन्योन्यं / कालादीनाम् अन्यथाभावविवर्त्ताविरोधात् / यदि चा (वा), अन्यार्थपरिणतिः कालापेक्षा कालपरिणतिस्तु स्वरूपापेक्षा, यथा घटादिप्रकाशः प्रदीपनिबन्धनः प्रदीपप्रकाशस्तु खनिबन्धन इति, अतः अनवस्थाऽन्योन्याश्रयासंभवः / अथवा, तदर्थेन लिङ्गभूतेन निष्ठा स्वरूपव्यवस्थितिख़ता अस्येति तन्निष्ठितं तल्लक्षणम् तत्प्रमाणकम् इत्यर्थः। तथाहि-अयं तदर्थः अस्मात् पूर्व पश्चात् अनेन सह वा भवतीति प्रतीतिः तदर्थव्यतिरिक्तार्थपूर्विका, 10 पूर्वापरादिप्रतीतित्वात्, अयं तदर्थोऽस्मात्पूर्वदेशः अयमपरो देश इत्यादिप्रतीतिवत् / यश्वासौ तत्कारण स काल इति। एवं कारकादावपि योज्यम् / तथाहि-'करोति क्रियते' -- इत्यादिप्रतीतिः विभिन्नशक्तिकार्थनिबन्धना, विलक्षणप्रतीतित्वात् , जलानलप्रतीतिवत् / तथा, 'देवदत्तो देवदत्ता' इत्यादिप्रतीतिः विभिन्नस्वरूपार्थनिबन्धना, विशिष्टप्रतीतित्वात् , घटपटप्रतीतिवत् / कारिकां व्यतिरेकमुखेन व्याचष्टे-'नोकान्त' इत्यादिना / हिर्यस्मात् न __ क्षणिकायेकान्ते वर्तनों स्वयं त्रिकालगोचरैः पर्यायैः वर्तमानान् विवृतिव्याख्यानम् - भावान् प्रति प्रयोजकत्वं लक्षणं कालस्य संभवति यतो लक्षणात् भूतभविष्यद्वर्त्तमानप्रभेदः कालादेः स्यात् / 'यतः' इति आक्षेपे वा, यतः तत्प्रभेदः स्यात् , नैव स्यात् / कुत एतदित्याह-'तदर्थ' इत्यादि / या भूताद्यर्थस्य क्रिया 20 निष्पत्तिः तस्या अनुपपत्तेः 'एकान्ते' इति सम्बन्धः / यथा च एकान्ते कालस्य अतीताद्यर्थक्रियानुपपत्तिः तथा कालपरीक्षावसरे विशेषतश्चिन्तितम् / ___एवं कालस्य एकान्ते लक्षणं वर्तमानान् भावान् प्रति प्रयोजकत्वं निराकृत्य कारकस्य तन्निराकुर्वन्नाह-'नच' इत्यादि / नच नापि कारकलक्षणम् / किंतदित्याह'द्रव्यं शक्तिः तदुभयं वा' इत्येतत् , 'एकान्ते तदर्थक्रियानुपपत्तेः' इत्येतदत्रापि 25 (१)पूर्वापरादिप्रतीतिकारणम् / (2) “सर्वभावानां वर्तना कालाश्रया वृत्तिः / वर्तना उत्पत्तिः स्थितिरथ गतिः प्रथमसमयाश्रयेत्यर्थः ।"-तत्त्वार्थभा० 5 / 22 / "वृतेणिजन्तात्कर्मणि भावे वा युटि 'स्त्रीलिङ्गे वर्तनेति / वय॑ते वर्तनमात्रं वा वर्तनेति / / धर्मादीनां द्रव्याणां स्वपर्यायनिवृत्ति प्रति स्वात्मनैव वर्तमानानां बाह्योपग्रहाद्विना तद्वत्त्यभावात् तत्प्रवर्तनोपलक्षितः काल इति कृत्वा वर्तना कालस्योपकारः ।"-सर्वार्थसि० 5 / 22 / "प्रतिद्रव्यपर्यायमन्तीतकसमया स्वसत्तानुभूतिर्वर्तना।"-राजवा० 5 / 22 / (3) पृ० 225 / 1-न्य इति आ० / 2-तिर्जाता आ०,व०। 3 भवतीति विभिन्नस्वरूपार्थव्यतिरिक्तार्थपूविका F-कार्यनि-आ०। 5 इत्यादि न हि आ० / 6 लक्षणं निराकृत्य ब०, श्र०। 7 च श्र०।