________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [5. नयपरि० कालादिलक्षणं न्यक्षेणान्यत्रेक्ष्यं परीक्षितम् / द्रव्यपर्यायसामान्यविशेषात्मार्थनिष्ठितम् // 47 // विवृतिः-नोकान्ते वर्तनालक्षणं कालस्य संभवति, भूतभविष्यद्वर्त्तमानप्रभेदो यतः स्यात्, तदर्थक्रियानुपपत्तेः। न च द्रव्यं शक्तिः तदुभयं वेति 5 कॉरकलक्षणं शक्तिशक्तिमतोर्व्यतिरेकैकान्ते सम्बन्धासिद्धिः अनवस्थानुषङ्गात् / तदव्यीतरेकैकान्ते 'शक्तिःशक्तिमत्' इति रिक्ता वाचोयुक्तिः। तन्नैकान्ते षट्रारकी व्यवतिष्ठते / कुतः पुनः स्त्यायत्यस्यां गर्भ इति स्त्री, प्रसूते खान् पर्यायान् इति पुमान् तदुभयात्यये नपुंसकम्' इति शब्दार्थप्रत्ययानामन्यतमस्यापि लिङ्ग व्यवस्था ? तथा एकस्यार्थस्य 'इन्दनादिन्द्रः, शकनात् शक्रः, पुरंदारयतीति 10 पुरन्दरः' इति पर्यायभेदाद् भिन्नार्थता तद्वाचिनां शब्दानां न संभवत्येव व्यति रेकेतरैकान्तयोः तत्र विरोधात् / तत एव क्रियाकारकयोः तत्रासंभवो विज्ञेयः / तदनेकान्तसिद्धिः विधिप्रतिषेधाम्यां तदर्थाभिधानात् / नाभावैकान्तः, कुतः .. तदभिधानलिङ्गाद्यसंभवोपालम्भः स्याद्वादमनुवर्तेत ? ___ काल आदिर्यस्य कारकादेः स तथोक्तः तस्य लक्षणं स्वरूपं प्रमाणं वा कारिकाविवरणम्___ अन्यत्र तत्त्वार्थभाष्यादौ परीक्षितं विचारितम् ईक्ष्यम् अन्वे प्यम् न्यक्षेण आत्मना, 'निश्चितः पूर्वं प्रमाणेन व्यवस्थापितोऽक्षो (1) "ईक्ष्यमवलोकनीयम् / किम् ? कालादिदक्षणम्, काल आदियंषां कारकलिङ्गसंख्यासाधनोपग्रहादीनां ते कालादयः तेषां लक्षणमसाधारणं स्वरूपम् / किं विशिष्टम् ? परीक्षितं विचारित स्वामिसमन्तभद्राद्यैः सूरिभिः / कथम् ? न्यक्षेण विस्तरेण / क्व ? अन्यत्र तत्त्वार्थमहाभाष्यादौ / किविशिष्टम् ? द्रव्येत्यादि / द्रव्यं पूर्वापरपरिणामव्यापकमूर्ध्वतासामान्यम्, पर्यायाः एकस्मिन् द्रव्ये क्रमभाविन: परिणामाः, सामान्यं सदृशपरिणामलक्षणं तिर्यक् सामान्यम्, विशेषोऽर्थान्तरगतो व्यतिरेकः, द्रव्यं च पर्यायाश्च सामान्यञ्च विशेषश्च द्रव्यपर्यायसामान्यविशेषाः ते आत्मा स्वभावो यस्यासौ तथोक्तः। स चासावर्थश्च तस्मिन्निष्ठितं नियतं तदात्मकमिति यावत् / एवंविधस्यैव अर्थक्रियासंभवात् निरपेक्षकान्ते तद्विरोधात् ।"-लघी० ता० पृ०६७। (2) "वत्तनालक्खणो कालो ."-उत्तरा० 28 / 10 / 'कालस्य वट्टणा से""-प्रवचनसा० 2 / 42 / "ववगदपणवण्णरसो ववगददोगंधअट्टफासो य / अगुरुलहुगो अमुत्तो वट्टणलक्खो य कालोत्ति।"-पञ्चा० गा० 24 / द्रव्यसं० गा० 21 / "वर्तनापरिणामक्रियापरत्वापरत्वे च कालस्य।"-तत्त्वार्थसू० 5 / 22 / (3) शक्तिकारकवादिनः भर्तृहरिप्रभृतयः; तथाहि"स्वाश्रये समवेतानां तद्वदेवाश्रयान्तरे / क्रियाणामभिनिष्पत्तौ सामर्थ्य साधनं विदुः // क्रियानिवृत्ती द्रव्यस्य शक्तिः साधनं साध्यतेऽनेन क्रियेति भाष्यकारप्रभृतयो विदुः ।"-वाक्यप० तृ० का० पृ० 173 / (4) तुलना-"न च द्रव्यमानं कारकं न च क्रियामात्रम्, कारकशब्दो हि क्रियासाधने क्रियाविशेषयुक्ते प्रवर्तते ।"-ज्यायवा० 106 / “धात्वर्थांशे प्रकारो यः सुबर्थः सोऽत्र कारकम्"-शब्दशका०६७ / (5) "संस्त्यानप्रसवौ लिंगमास्थेयौ स्वकृतान्ततः / ' अधिकरणसाधना लोके स्त्री स्त्यायत्यस्यां गर्भ इति / कर्तृसाधनश्च पुमान् सूते पुमानिति / " संस्त्यानविवक्षायां स्त्री, प्रसवविवक्षायां पुमान, उभयविवक्षायां नपुंसकमिति ।"-पात० महा० 4 / 23 / 1-निश्चितम् ज० वि०। 2 चेति ई०वि०। 8 शक्तिशक्ति-ई०वि०। 4 तदुभयाभावे नपुं-ई० वि०। 5-कान्तरयोः ज० वि० / 6 अन्वेक्ष्यम् आ० /