________________ नयप्र० की०४६] शब्दादिनयानां निरूपणम् समानार्थसमनन्तरज्ञानेन, तदध्यवसायस्य मरीचिकाचक्रे जलदर्शनेन तत्र जलाध्यवसायहेतुना, तस्त्रितयस्य शुक्ले शङ्ख पीतज्ञानप्रभवोत्तरपीतज्ञानेन, न केवलमव्यभिचारे। किं जातमित्याह-'यदर्थ' इत्यादि / उत्तरत्र तच्छब्दद्वयप्रयोगाद् अत्रापि द्वितीयो यच्छब्दो द्रष्टव्यः / ततोऽयमर्थो जातः--यज्ज्ञानं यदर्थपरिच्छेदलक्षणं यदर्थग्रहणस्वरूपं तत् ज्ञानं तस्य अर्थस्य / एतदुक्तं भवति-तत्र यया प्रत्यासत्त्या सत्त्वाविशेषेऽपि 1 किश्चित् / कस्यचित् कारणं न सर्वं सर्वस्य, कारणत्वाविशेषेऽपि च कस्यचित् किश्चिदाकारमात्मसात्करोति, तदविशेषेऽपि च 1 किञ्चिद्व्यवस्यति तया तदुत्पत्त्यादिरहितमपि तत्परिच्छेदवत् इति। एवं तव्यभिचारेऽपि ज्ञानार्थयोः सम्बन्धात् वागर्थज्ञानस्यापि न केवलमन्यस्य स्ययम् आत्मना अविसंवादात् प्रमाणत्वं समक्षवत् प्रत्यक्षवत् / ननु भवतु तत्प्रमाणं किन्तु विवक्षायामेव, इत्यत्राह-विवक्षा' इत्यादि। विवक्षाव्यतिरेकेण 10 यद्बाह्यं वस्तुतत्त्वम् अर्थस्वरूपं तत् प्रत्याययति गमयति। किं तदित्याह-वागर्थज्ञानम् , वचः कार्यभूतमर्थज्ञानम् / किमिव ? इत्याह-अनुमानवत् / यथा अनुमानं विवक्षाव्यतिरिक्तमर्थं गमयति तथा वागर्थज्ञानमपि / कुत एतत् ? इत्याह-सम्बन्धनियमाभावात् / विवक्षायामेव न बहिरर्थे तस्य सम्बन्धः इति यो नियमः तस्याऽसंभवात् / अथवा, तादात्म्यतदुत्पत्तिरूप एव सम्बन्धः नापरः इति यः सम्बन्धनियमः तस्या- 15 ऽभावात् / कुत एतदित्यत्राह-'वाच्य' इत्यादि / न केवलमन्यस्य अपि तु वाच्यवाचकलक्षणस्यापि सम्बन्धस्य बहिरर्थप्रतिपत्तिहेतुतोपलब्धेः। अयमभिप्रायः-अन्योऽपि सम्बन्धस्तत्प्रतीतिं कुर्वन् उपलभ्यमान एव 'अस्ति' इत्युच्यते नान्यथाऽतिप्रसङ्गात् , तथा प्रकृतस्याप्युपलभ्यमानत्वे अस्तित्वम॑स्तु इति / समर्थितञ्चास्याँस्तित्वं 'प्रमाणं श्रुतमर्थेष' [लघी० का० 26 ] इत्यत्र प्रपञ्चतः इत्यलं पुनः प्रसङ्गेन। ननु कालादीनां ग्राहकप्रमाणाभावतोऽभावात्, सतामप्यभेदात्। अन्यतः कालभेदात्तद्भेदे अनवस्था स्यात् / अर्थभेदात्तद्भेदे अन्योन्याश्रयः / ततोऽयुक्तमुक्तम्-'कालकारक' इत्यादि; इत्याशङ्कयाह (1) समानार्थे एकस्मिन्नर्थे तिलादौ यत्प्रथमं ज्ञानं जातं तस्माज्जातं यदनन्तरं द्वितीयं तिलज्ञानं तस्य प्रथमतिलज्ञानेन सह सारूप्यमस्ति, न च द्वितीयज्ञानं प्रथमं गृह्णाति, ज्ञानं ज्ञानस्य न नियामकमिति तत्सिद्धान्तात् / (2) अनुकूलविकल्पोत्पत्तिरध्यवसायः / मरीचिचक्रे जायमानं जलदर्शनमनुकलं जलमिदमित्याकारकं विकल्पमुत्पादयति न च तत्प्रमाणम् / (3) तदुत्पत्तिसारूप्यतदध्यवसायत्रयम् / शुक्ले शंखे जायमानपीतज्ञानात् उत्पन्नस्य अनन्तरपीतज्ञानस्य शंखज्ञानादुत्पन्नस्य तदाकारानकारिणः तदुनुकूलशंखोऽयमित्याकारकविकल्पोत्पादकस्य पूर्वज्ञाने प्रामाण्यप्रसङ्गात् / न चैतदस्ति ज्ञानं ज्ञानस्य न नियामकमिति नियमभङ्गप्रसङ्गात् / (4) अकारानुकारणाऽविशेषेऽपि / (5) तदुत्पत्त्यादिः / (6) वाच्यवाचकसम्बन्धस्य / (7) वाच्यवाचकभावस्य / (8) भेदाभावात् / (9) सिद्धे हि अर्थेष्वतीतादिभेदे तस्मात् कालस्य अतीतादित्वम्, तस्माच्चार्थानामतीतादितेति / 1 यत्र आ० / 2 सत्ताविशे-श्र०। / एतदन्तर्गतः पाठो नास्ति आ०। इत्यात्राह ब०, श्र०। 4 तस्यासंभवात् ब०, श्र०। 5-स्याप्रति-आ०। 6-हेतुत्वोप-ब०, श्र०। 7-मस्तीति श्र०।