________________ 644 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [5. नयपरि० . ननु यदि अर्थाभावेऽपि तज्ज्ञानं स्यात् तर्हि सर्वमेव शाब्दज्ञानमप्रमाणं स्यात् / / प्रयोगः-विवादास्पदीभूतं शब्दार्थज्ञानमप्रमाणं तत्त्वात् प्रकृतज्ञानवत् इत्याशङ्क्याह -- अक्षशब्दार्थविज्ञानमविसंवादतः समम् / अस्पष्टं शब्दविज्ञानं प्रमाणमनुमानवत् // 46 // विवृतिः-तदुत्पत्तिसारूप्यदिलक्षणव्यभिचारेपि आत्मना यदर्थपरिच्छेदलक्षणं ज्ञानं तत्तस्येति सम्बन्धात् / वागर्थज्ञानस्यापिखयमविसंवादात् प्रमाणत्वं समक्षवत् / विवक्षाव्यतिरेकेण वाग् अर्थज्ञानं वस्तुतत्त्वं प्रत्याययति अनुमानवत् सम्बन्धनियमाभावात् / वाच्यवाचकलक्षणस्यापि सम्बन्धस्य बहिरर्थप्रतिपत्तिहेतुतोपलब्धेः। अक्षाणि च शब्दाश्च तेषाम् अर्थज्ञानं समम् / केन इत्याह अविसं10 वादतः, अविसंवादेन यथा अक्षज्ञानमविसंवादकं तथा शब्दार्थज्ञान मपि। अयमभिप्रायः-यथा अक्षज्ञानस्य कस्यचिद्विसंवादिनो दर्शनेऽपि न 'सर्वमक्षज्ञानमप्रमाणं तत्त्वात् द्विचन्द्रादिज्ञानवत्' इत्यभिधातुं शक्यम् , तथा शब्दार्थज्ञानमपि / तर्हि प्रत्यक्षात् कोऽस्य विशेषः ? इति चेदत्राह-अस्पष्टमवि शदं शब्दविज्ञानम्, अक्षज्ञानं तु स्पष्टम् इत्यनयोर्विशेषः / तर्हि तत्प्रमाणं किमि15 वेति चेदत्राह-प्रमाणं शब्दज्ञानम् अनुमानवत्। अत्रापि 'अविसंवादतः' इति सम्बन्धनीयम् / ननु चाक्षज्ञानस्य अर्थोत्पत्तिसारूप्यसंभवात् युक्तमविसंवादकत्वं न शब्दज्ञा ___ नस्य तद्विपर्ययात् अतः 'अक्ष' इत्याद्ययुक्तम् ; इत्यारेकादूषणपुरःविवृतिव्याख्यानम्- सरं कारिकां विवृण्वन्नाह-'तदत्पत्ति' इत्यादि / तस्माद् अथोद् 20 उत्पत्तिश्च सारूप्यश्च आदिर्यस्य तदध्यवसायस्य स तथोक्तः, स एव लक्षणं प्रामाण्यस्य अविसंवादस्य वा तस्य व्यभिचारेऽपि तदुत्पत्तेः चक्षुरादिना, सारूप्यस्य (1) शब्दज्ञानम् / (2) शब्दज्ञानत्वात् / (3) खरविषाणादिशब्दजज्ञानवत् / (4) "समं समानं प्रमाणं भवति / किम् ? अक्षशब्दार्थविज्ञानम्, अक्षमिन्द्रियं शब्दो वर्णपदवाक्यात्मको ध्वनिः ताभ्यां जनितमर्थस्य सामान्यविशेषात्मकवस्तुनो विशिष्टं संशयादिविकलं ज्ञानमवबोधनम् / कूतः ? अविसंवादत: अर्थक्रियायामव्यभिचारात् / यथाऽक्षजनितमर्थज्ञानमविसंवादात् प्रमाणं तथा शब्दजनितमपि / 'नन्वक्षज्ञानं प्रमाणं स्पष्टत्वात् न शाब्दमस्पष्टत्वादित्याशंक्याह-अस्पष्टमिति / अस्पष्टमविशदमपि शब्दजनितं ज्ञानं प्रमाणमभ्युपगन्तव्यमविसंवादादेव / न हि स्पाष्टयमस्पाष्ट्यं वा प्रामाण्येतरनिबन्धनं तयोः संवादेतरनिबन्धनत्वात् / किंवत् ? अनुमानवत्"-लधी० ता० पृ० 66 / (5) तुलना-'तत्सारूप्यतदुत्पत्ती यदि संवेद्यलक्षणम् / संवेद्यं स्यात्समानार्थं विज्ञानं समनन्तरम् ॥"प्रमाणवा० 3 / 323 / अष्टसह पृ० 240 / प्रमाणनय० 4 / 47 / (6) चक्षुरादिम्यः घटज्ञानमुत्पद्यते न च तत् चक्षुरादिग्राहकं भवति / __ 1-ज्ञानं न प्र-आ० / 2 प्रकृततज्ज्ञानवत ब० / 8 अक्षात् शब्दा-ई०, वि० / 4-णं व्यई०, वि०,। 5 तत्तथेति ज०, वि० / 6-पुरस्सरां का-ब०,-पुरस्सर का-आ० / $ एतदन्तर्गतः पाठो नास्ति आ० /