________________ नयप्रका० 45 ] शब्दादिनयानां निरूपणम् एतदित्याह-'व्यवहित' इत्यादि / व्यवहितोऽन्तरितो योऽर्थोऽनुभवेन तस्मात् परम्परयोत्पत्तिः स्मृतेः तस्यामपि तस्य व्यवहितस्य यद्रूपं तस्य अनुकृतेर्दर्शनात् / अत्र दृष्टान्तमाह-'दृष्टार्थ' इत्यादि। जाग्रहशायां यो दृष्टोऽर्थः स दृष्टः, तस्य स्वमः तत्रेव तद्वदिति / ... स्यान्मतम्-प्रत्यक्षस्मरणे नैकार्थे भिन्नप्रतिभासत्वात् रूपादिज्ञानवदित्यत्राह'प्रत्यक्ष' इत्यादि / प्रत्यक्षशब्दस्य अभ्यर्हितत्वात् पूर्वनिपातः / प्रत्यक्षस्मृत्योः प्रति- 5 भासभेदात् हेतोः एकार्थत्वन्न इति यत् परस्याभिमतं तदनैकान्तिकम्-अनैकान्तिकहेतुविषयत्वादुपचारेण अनैकान्तिकम् / एतदेव 'दूरासन्न' इत्यादिना समर्थयतेदूरासनेच ते एकार्थप्रत्यक्षे च तयोः / कथम्भूतयोः ? भिन्नप्रतिभासयोरपि तदेकार्थविषयत्वात् दूरासन्नैकार्थविषयत्वात् / ननु दुराणामक्षाणाम् अर्थज्ञानमप्रत्यक्षं प्रत्यक्षन्न भवति / कुतः ? भ्रान्तः अस्पष्टस्य दर्शने स्पष्टस्य प्राप्तः इति परः / अत्रोत्त- 10 रमाह 'प्रमाण' इत्यादि / प्रत्यक्षानुमानाभ्याम् अन्यत् प्रमाणं तज्ज्ञानं स्यात् अस्पष्टत्वाऽलिङ्गजत्वाभ्यां प्रमाणद्वयानन्तर्भूतत्वात् / ननु विसंवादात्तत् प्रमाणमेव न भवति तत्कथं तदन्तरम् ? इति चेदत्राह 'नहि' इत्यादि / नहि नैव तेन दूराक्षार्थज्ञानेन अर्थ वृक्षादि परिच्छिद्य प्रवृत्तौ क्रियमाणायां विसंवादैकान्तः, अस्पष्टाकारतया विसंवादेऽपि वृक्षाद्याकारतया तदभावात् तदप्रमाणं तदूरार्थज्ञानम् एकान्तेनाप्रमाणं यतः स्यात् / 15 ___प्रकृतार्थोपसंहारमाह-'तद्' इत्यादि / यस्माद् उक्तप्रकारेण प्रत्यक्षवत् स्मृतेर्वस्तुविषयत्वं सिद्धम् तत् तस्माद् अयं सौगतो व्यवहारी वा शब्दार्थों पूर्वदर्शनेन विषयीकृतौ स्मृत्या करणभूतया सङ्कलय्य प्रत्यभिज्ञाय सङ्केते ‘एवंविधोऽर्थः एवविधशब्दवाच्यः' इति समये सति पुनः पश्चाद् व्यवहारकाले शब्दप्रतिपत्तौ सत्याम् अर्थं सम्प्रत्येति विषयीकरोति / 'स्मृत्या सङ्कलय्य' इत्येतदत्रापि सम्बन्धनीयम् / ननु स्मृत्या- 20 देरवस्तुविषयत्वाद् अवस्तुनि सङ्केतः तत्प्रतिपत्तिश्च; इत्यत्राह-'स्मृति' इत्यादि / आदिशब्देन तर्कादिपरिग्रहः, तस्यापि न केवलं प्रत्यक्षस्य परमार्थविषयत्वात् / ननु परमार्थविषयत्वे शब्दानां न कचित् तदभावे तज्ज्ञानं स्यादित्यत्राह-'तद्' इत्यादि / तस्य शब्दस्य अर्थः तदर्थः तस्य अभावेऽपि न केवलं भाव एव शब्दार्थज्ञानं शब्दस्य कार्यभूतमर्थज्ञानं 'जगत्प्रपश्चस्य प्रकृतिः कारणम् , ईश्वरः कारणं, ब्रह्म कारणम्' इत्यादि। 25 अत्र दृष्टान्तमाह-'प्रत्यक्षवत्' इति / यथा प्रत्यक्षं द्विचन्द्राद्यर्थाभावेऽपि भवति तथा तैदपीति / कुत एतदिति चेदत्राह-'वस्तुन्यपि' इत्यादि / अपि शब्दाद् अवस्तुन्यपि सङ्केतसम्भवात् / (1) बौद्धस्य / (2) बौद्धः / (3) दूराक्षार्थज्ञानम् / (4) प्रत्यक्षानुमानलक्षण / (5) प्रमाणान्तरम् / (6) विसंवादाभावात् / (7) अर्थाभावे, अतीतानागतादिकालवर्तिन्यर्थे / (8) शब्दज्ञानम् / (9) शब्दज्ञानमपि / 1 प्राप्तिरिति श्र० चब। 3 अर्थ प्रत्येति श्र०। 4-वित्याह ब०। 5 तदपि कृत श्र०।