________________ 142 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [5. नयपरि० कारणात्, किं प्रत्यक्षमन्यद्वा कस्य प्रत्यक्षाभिमतस्य अन्यस्य वा विषयस्य ज्ञानं 'ग्राहकम्' इत्यध्याहारः, 'सम्बन्धि वा' / कुत एतदित्यत्राह-'प्राग्' इत्यादि। उत्पत्तेः पूर्वमभावः प्रागभावः, लब्धात्मलाभस्य स्वरूपप्रच्युतिः प्रध्वंसाभावः, तयोरभावाविशे षात् अभावत्वाऽभेदात् / अयमभिप्रायः-यदा सति कारणे कार्य न भवति असति च 5 भवति तदा तेंद् औत्मनः कारणाभिमतस्याऽभावं कारमं सूचयति / तथा चाऽनादि भूततत्प्रागभावकालेऽपि तदभावस्याविशेषात् कार्योत्पत्तिः स्यात् / अथ कारणप्रध्वंसाभाव एव कार्योत्पादको न तत्प्रागभावः, अत्राह-समनन्तर' इत्यादि / कार्योत्पत्तेः प्रागनन्तरं जातः कारणप्रध्वंसः समनन्तरः, इतरः अनाद्यतीतकाले चिरजातः तयोः विनाशयोश्चाविशेषात् / अयमभिप्रायः-यदि अभावत्वाविशेषेऽपि प्रध्वंसाभाव एव 10 कार्योत्पादको न प्रागभावः तर्हि अनाद्यनन्तातीतानागताः प्रध्वंसाभावाः कार्योत्पादकाः स्युः तथा च कार्यस्य अनाद्यनन्तताप्रसंक्तिः / अथ कारणप्रध्वंस एव कार्योत्पादको नेतरः; न प्रध्वंसस्यैव कारणत्वाभ्युपगमे अस्य परिहारस्याऽनुपपत्तेः / न च प्रागनन्तर. . एव प्रध्वंसः तजनको नान्य इत्यभिधातव्यम्; देशकालयोरनभ्युपैगमे अस्यापि परिहा रस्य दुर्घटत्वात् / आनन्तर्यं हि देशकालकृता प्रत्यासत्तिरिति / इतश्च किं कस्य ज्ञान15 मिति दर्शयन्नाह–'व्यभिचाराच्च कारणात् किं कस्य ज्ञानमिति ? एतच्च ज्ञानस्य निराकारत्वसिद्धौ प्रपञ्चितमिति नेहोच्यते / ननु नैव प्रत्यक्षस्य अन्यस्य वा अतीतोऽन्यो वा भावतो विषयोऽस्ति भिन्नो यस्तूच्यते स व्यवहारेण इत्याशङ्क्याह-'यदि पुनः' इत्यादि / यदि पुनः अतीतमर्थ - प्रत्यक्षं कथञ्चिद् व्यवहारेण अन्येन वा प्रकारेण वेत्ति विषयीकरोति तदा स्मृतिः 20 कथं न संविद्यात् 'अतीतमर्थम्' इति सम्बन्धः / परैः प्राह-'साक्षात्' इत्यादि / साक्षात् अव्यवधानेन अतदुत्पत्तेः अतीतार्थादुत्पत्तरेभावात् स्मृतेः अतादूप्यत्वाच अतीतार्थन सारूप्यासंभवाच्च नासौ त संविद्यात्' इति सम्बन्धः / अत्रोत्तरम् 'इति' आदि / इति एवं वैयात्यं वियातस्य दुर्विदग्धस्य भावो वैयात्यं परस्य / कुत (1) इत्यध्याहारः इति योज्यम् / (2) कार्यम् / (3) स्वस्य / (4) कारणरूपेण / (5) कारणप्रागभावकाले, कारणासन्निधानावस्थायामित्यर्थः / (6) कारणाभावस्य / (7) कारणप्रागभावः / (8) अव्यवहितपूर्वक्षणे जातः / (9) अभावरूपेण भेदाभावात् / (10) अनाद्यनन्तातीतानागतप्रध्वंसः / (11) कार्योत्पादकः / (12) बौद्धमते हि कारणकार्याभिमतक्षणयोः एकदेशाभावात् एककालाभावाच्च न देशकालकृतमानन्तर्य संभवति / तन्मते हि कारणाभिमतस्य अन्यो देशः कालश्च कार्याभिमतस्य चान्यः, देशकालयोरपि क्षणिकत्वात् / न च तैः आकाशः कालो वा वस्तुभत: स्वीक्रियते; छिद्रस्य आकाशत्वात्, पूर्वापरादिबुद्धेरेव च कालव्यपदेशार्हत्वात् / (13) पृ० 169 / (14) परमार्थतः। (15) बौद्धः / (16) स्मृतिः / (17) अतीतार्थम् / (18) बौद्धस्य / / 1-प्रत्यक्षस्याभि-श्र०। 2 ससम्बन्धि श्र०। -भावलब्धा-आ० / 4 अभावत्वाविशेषात आ० / / तथावानादिभूत-आ० / 6 चिराज्जातः श्र० / 7 अनाद्यनन्तानामसा-आ० / 8 -सक्तेः / 9 भवतो आ० / 10 तत्संवि-ब०।