________________ नयप्र० का० 45 ] शब्दादिनयानां निरूपणम् दूराक्षार्थज्ञानं भ्रान्तेरप्रत्यक्षम् प्रमाणान्तरं स्यात् / नहि ततोऽर्थ परिच्छिद्य प्रवृत्तौ विसंवादैकान्तः तदप्रमाणं यतः स्यात् / तदयं शब्दार्थौ स्मृत्या सङ्कलय्य सङ्केते पुनः शब्दप्रतिपत्तौ तदर्थं प्रत्येति स्मृतिप्रत्यभिज्ञानादेरपि परमार्थविषयत्वात् / तदर्थाभावेऽपि प्रत्यक्षवत् शब्दार्थज्ञानं वस्तुन्यपि सङ्केतसंभवात्। अक्षाणां चक्षुरादीनां कार्यभूता बुद्धिः अतीतार्थ वेत्ति विषयीकरोति / __ चेद् यदि न कुतः कारणात् स्मृतिः अतीतार्थं वेत्ति ? किन्तु कारिकाव्याख्यानम्- - वेत्ति एव / अथैवं सति अक्षबुद्धिस्मृत्योरभिन्नः प्रतिभासः स्यात् र अभिन्नविषयत्वात् नीलाक्षबुद्धिद्वयवद् इत्युच्यते; तत्राह-'प्रतिभास' इत्यादि / अक्षबुद्धिस्मृत्योः एकार्थे एकार्थत्वे सत्यपि भावप्रधानोऽयं निर्देशः / स्मृतिः प्रतिभासभिदा अस्पष्टप्रतिभासात् इतरप्रतिभासविशेष (पे) णार्थ 'वेत्ति' इति सम्बन्धः। अत्र 10 दृष्टान्तमाह-'दूरासन्न' इत्यादि। सुप्रसिद्धो हि दूरासन्नाक्षबुद्धीनां विषयाभेदेऽपि स्पष्टेतररूपः प्रतिभासभेदः पादपस्यैकस्यैव तथाप्रतिभासनात् / _ कारिकां व्याख्यातुमाह-'क्षणिक' इत्यादि / क्षणिकौ च तौ अक्षज्ञानज्ञेयो च तयोर्यथाक्रम कार्यकारणत्वनियमे अभ्युपगम्यमाने निर्विषयं विवृतिव्याख्यानम् निरालम्बनं प्रत्यक्षं स्यात् / कुत एतदित्याह-'तद्' इत्यादि / तस्य 15 प्रत्यक्षस्य कारणं यद्वस्तु तस्य / कथम्भूतस्य ? अतीतस्य, तदनात्मकत्वात् / स प्रत्यक्षविर्षयोऽनात्मा स्व (त्माऽस्व) भावो यस्य तत्तथोक्तं तस्य भावात् / प्रत्यक्षकाले हि सर्वात्मना अस्य विनष्टस्य स्वरूपाभावतो न तेंद्विषयत्वं घटते। स्वकाले सत्त्वात् तद्विषयत्वम् ; कुतः स्मृतेर्निर्विषयत्वम् ? तदर्थस्यापि स्वकाले सत्त्वाविशेषात् / एतत्तु अक्षज्ञानं प्रति अतीतस्य कारणत्वमभ्युपगम्य दूषणमुक्तम् / इदानीं तदनभ्युपगम्य तद्दर्शयन्नाह- 20 'प्रागभाव' इत्यादि / तस्माद् विषयाभिमताद् उत्पत्तिसारूप्ये तदुत्पत्तिसारूप्ये, "का भीति : ( भीभिः )" [जैनेन्द्रव्या० 1 / 3 / 32 ] इत्यत्र 'का' इति योगविभागात् सविधिः / अथवा, तदिति निपातः 'तस्माद्' इत्यस्यार्थे वर्त्तते / तयोरसंभवात (1) प्रत्यक्षबुद्धितो भिन्नरूपेण / (2) पादपलक्षणविषयस्य एकत्वेऽपि / (3) स्पष्टाऽस्पष्टरूपेण / (4) अर्थस्य / (5) प्रत्यक्षविषयत्वम् / (6) प्रत्यक्षबुद्धिविषयत्वं / (7) स्मृतिविषयभूतस्य अतीतार्थस्यापि / (8) त्रुटितायां पू० प्रतौ 'भीभिः' इति पाठः प्रतिभाति / "का भीभिः // 113 / 32 / / कान्तस्य (पञ्चम्यन्तस्य) सुबन्तस्य भीवाचिभिः सुबन्तै: सह षसः (तत्पुरुषसमासः ) भवति / वृकेभ्यो भीः वृकभीः, वृकभयम, वृकभीतः / केति विभागेन परेभ्यस्त्रायन्ते परत्रा इत्यपि।"-जैनेन्द्रप्र० / (9) योगविभागे सति 'का भीभिः' इति सूत्रस्य अयमर्थः स्यात्-यथा कान्तस्य भयवाचिभिः शब्दः समासो भवति, तथा कान्तस्य अन्यैरपि शब्दैः समासः स्यात् / (10) तत्पुरुषसमासः / सः' इति समासस्य संज्ञा जैनेन्द्रव्याकरणे / ___ 1 विसंवाद्यते सवप्र-ज० वि० / 2 संकल्पय्य ई० वि०।-प्रवृत्तौ ई० वि०। 4 नीलाख्यबुआ० / 5-स्योरेकार्थत्वे श्र०। 6-पस्यैव श्र० / '7-यो नात्मा श्र०, ब०। 8 एतच्चाक्ष-श्र० / 9 प्रतीतस्य श्र०।