________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [5. नयपरि० नितायाः यदकारणं स्खलक्षणरूपं वस्तु तत्तस्या विषयः 'नाननुकृतान्वयव्यतिरेकं कारणम्, नाकारणं विषयः” [ ] इत्यभिधानात् / इति शब्दः पूर्वपक्षपरिसमाप्तौ। अत्र दूषणमाह- 'एतद्' इत्यादि / एतत् परेणोक्तं प्रतिव्यूढम् निरस्तम् / केन इत्याह-विज्ञानस्य अनागतविषयत्वनिर्णयेन, प्रतिपादितश्चास्य अनागतविषयत्वनिर्णयः 'भविष्यत् प्रतिपद्यत' [लघी० का० 14 ] इत्यादिना / . ननु शब्दाः सङ्केतितमेवार्थं प्राहुः नान्यम् अतिप्रसङ्गात् / सङ्केतश्च न अविषयीकृतानां शब्दार्थानां युक्तः; तन्निर्विषयताप्राप्तेः / तद्विषयीकरणञ्च नाध्यक्षेण; शब्दाध्यक्षस्य अभिधेये तैदध्यक्षस्य वाऽभिधाने अप्रवृत्तेः। नापि स्मृत्या; तस्याः निर्विषयत्वात् इत्याशङ्क्याह अक्षबुद्धिरतीतार्थं वेत्ति चेन्न कुतः स्मृतिः। प्रतिभासभिदैकार्थे दूरासन्नाक्षबुद्धिवत् // 45 // विवृतिः-क्षणिकाक्षज्ञानज्ञेययोः कार्यकारणत्वनियमे निर्विषयं प्रत्यक्षम् तत्का- .. रणस्य अतीतस्य तदनात्मकत्वात् / प्रागभावप्रध्वंसाभावयोः समनन्तरेतरविनाश योश्च अभावाऽविशेषात् , तदुत्पत्तिसारूप्ययोः असंभवात् व्यभिचाराच्च किं कस्य 15 ज्ञानमित्युक्तम् / यदि पुनः अतीतमथं प्रत्यक्षं कथंचिद्वेत्ति; स्मृतिः कथं न संविद्यात् ? साक्षादतदुत्पत्तेरताद्रूप्याच इति वैयात्यम् व्यवहितोत्पत्तावपि तद्रूपानुकृतेर्दर्शनात् दृष्टार्थस्वप्नवत् / प्रत्यक्षस्मृत्योः प्रतिभासभेदात नैकार्थत्वमनैकान्तिकम्। दूरासन्नैकार्थप्रत्यक्षयोः भिन्नप्रतिभासयोरपि तदेकार्थविषयत्वात् / (1) बुद्धेः / (2) उद्धृतमिदम्-आप्तप० पृ० 42 / सिद्धिवि० टी० पृ० 306 A. / सन्मति० टी० पृ० 510 / स्था० र० पृ० 1088 / षड्द० बृह० पृ० 37 / प्रमाणमी० पु० 34 / शास्त्रवा० यशो० पृ० 151 A. / 'नाकारणं विषयः'-अनेकान्तजय०१० 207 / धर्मसं०१० 176 B. / बोधिचर्या० पृ० 398 / तस्वार्थश्लो० पृ० 219 / प्रमेयक० पृ० 355, 502 / स्या० र० पृ० 769 / न्यायवि० वि० पृ० 19 B. / स्या० मं० पृ०२०६। (3) श्रावणप्रत्यक्षस्य / (4) अभिधेयार्थग्राहिचाक्षुषादिप्रत्यक्षस्य / (5) "अक्षर्जनिता बुद्धिर्ज्ञानमतीतार्थं स्वकारणभूतं शब्द वाच्यञ्च, चेद्यदि, वेत्ति जानाति / सौगते मते हि विषयस्य ज्ञानकारणत्वात, कारणञ्च कार्यक्षणात् पूर्वक्षणवर्तीत्युच्यते / तदा कुतः कारणात् स्मृतिरपि अतीतार्थं न वेत्ति अपि तु वेत्त्येवेत्यर्थः / नन्वेवं स्मृतेः कथं प्रामाण्यं गृहीतग्राहित्वादित्याशंक्याह-प्रतीत्यादि। एकोऽभिन्नोऽतीतत्वाविशेषात् साधारणोऽर्थो विषयः शब्दार्थलक्षणस्तस्मिन्नपि स्मृतिः प्रमाणमिति शेषः / कुतः ? प्रतिभासभिदा प्रतिभासस्य अतीताकारपरामर्शस्य भिद् भेदस्तया / प्रत्यक्षेण हि इदमिति यदनुभूयते तदेव कालान्तरे पुनस्तदित्यतीताकारतया स्मृत्या विषयीक्रियत इति / अस्मिन्नर्थे दृष्टान्तमाह-दूरेत्यादि / दूरश्चासावासन्नश्च दूरासन्नस्तस्मिन्नर्थे पादपादौ अक्षबुद्धिवत् / यथा प्रत्यक्षज्ञानानां स्पष्टास्पष्टप्रतिभासभेदात् प्रामाण्यं तथा स्मृतेरपीत्यर्थः ।"-लघी० ता० पृ०६५। (6) तुलना-वागक्षसंविदामेकार्थगोचरत्वेऽपि युज्यते / प्रतिभासभिदा दूरासन्नैकार्थोपलम्भवत्"-सिद्धिवि०, टी० पृ० 470 A. / 1 कारणमित्यभि-श्र० / 2-नस्यागत-श्र० / चाभि-ब०, श्र० /