________________ विवतिव्याख्यानम् नयप्र० का 0 44 ] . शब्दादिनयानां निरूपणम् ___ कालादीनां भेदात् शब्दः शब्दनयः अर्थस्य जीवादेः भेदं करोति प्रतिपा दयति इति तद्भेदकृत्। अभिरूढनयः पुनः पर्यायैः पर्यायशब्दैः कारिकार्थः अर्थभेदकृत् / इत्थम्भूतः क्रियाशब्दभेदात् अर्थभेदकृत् इति / .. कारिकां विवृण्वन्नाह 'काल' इत्यादि / तावच्छब्दः क्रमवाची, कालभेदात् _ कालविशेषाद् अर्थभेदस्तावदुदाह्रियते-अभूत् अतीतकालसम्बन्ध्यनु- 5 - भवादिपर्यायात्मना जीवौदिः, भवति वर्तमानकालसम्बन्धिस्मरणादिपर्यायरूपेण जायते / हेतुहेतुमद्भावश्चात्र द्रष्टव्यः-यस्माद् भवति तस्माद् अभूत, परिणाम्युपादानकारणमन्तरेण 'भवति' इत्यस्यायोगात् / भविष्यति अनागतपर्यायस्वभावेन उत्पत्स्यते, अत्रापि यस्माद् भवति तस्माद् भविष्यति अन्यथाभवतोऽभावः कार्याभावादिति मन्यते। इतिशब्दः कालभेदाद् भावभेदपक्षसमाप्त्यर्थः। कारकभेदादर्थ- 10 मुदाहर्तुमाह-'कारक' इत्यादि। कारकाणां कादीनां भेदात् 'शब्दोऽर्थभेदकृत्' इति सम्बन्धः / अत्रोदाहरणम् 'करोति' इत्यादि / यदा हि देवदत्तः स्वतन्त्रो विवक्षितो घटादिकार्ये तदा 'करोति घटं देवदत्तः' इति भवति / यदा तु स एव अन्योपकार्यत्वेन विवक्ष्यते तदा' क्रियते देवदत्त'इति / आदिशब्दात् 'देवदत्ते निधेहि, देवदत्तादपरः' इत्यादि षट्रारकीपरिग्रहः। तथा लिङ्गभेदात् शब्दोऽर्थभेदकृत् यथा 15 'देवदत्तो देवदत्ता' इति / यथा शब्दः कालादिभेदाद् अर्थभेदकृत् तथा अभिरूढः पर्यायभेदात् 'इन्द्रः, शक्रः,पुरन्दरः' इति / तथा प्रागुक्तप्रकारेणैव एतौ अनन्तरोक्तौ शब्दसमभिरूढौ कथितौ। ____इत्थम्भूतः कीदृशः ? इत्याह क्रियाश्रयः एवम्भूत इति / ननु च इत्थम्भूतखरूपप्ररूपणे प्रस्तुते एवम्भूताभिधाने किं केन सङ्गतम् ? इत्यसत्; यस्मात् इत्थम्भू- 20 तस्यैव इदम् ‘एवम्भूतः' इति नामान्तरम्। कस्मादसौ क्रियाश्रय इत्याह कुर्वत एव कारकत्वं यतः इति / एतदपि कुत इत्याह 'यदा' इत्यादि / यदा यस्मिन् काले न करोति कार्यम् इन्दनादि शचीपतिः तदा कर्तृत्वायोगात् न इन्द्रादिव्यपदेशः स्यात् / अत्राह सौगतः-त्रयोऽप्येते नयाः शब्दतोऽर्थं प्रतिपद्यन्ते अतः कालादिभेदादर्थभेदं प्रतिपद्यमानं तत् शब्दज्ञानम् कथं पुनर्विवक्षाव्यतिरिक्तं वस्तु खलक्षणं प्रत्येति ? तमाचार्यः 25 पृच्छति, कथश्च न 'प्रत्येति' इति सम्बन्धः। सं उत्तरमाह तदप्रतिबन्धात् तेन वस्तुनाऽप्रतिबन्धात्, तदात्म्यतदुत्पत्तिप्रतिबन्धाभावात् शब्दज्ञानस्य इति सम्बन्धः / तेदभावेऽपि तत् तत्प्रत्येति इति चेदत्राह-'नहि' इत्यादि / नहि नैव बुद्धेः शब्दज (1) सौगतः / (2) तादात्म्यतदुत्पत्तिसम्बन्धाभावेऽपि / (3) शब्दज्ञानम् / . 1 क्रमभावी का-ब०।2-सम्बन्धानुभ-आ० / 3-दि भव-आ०। 4-वतो भावः ब०, श्र० / 5 इति यथा च आदिशब्दात् आ०, ब०। 6-णवानन्तरो-श्र017-श्रय इत्येवम्भ-आ०। 8-पणप्रस्तु१०। 9-माह तेन वस्तुना आ०। 10 तच्छब्द-श्र०। 11-पि तत्प्र-आ०।