________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [5. नयपरि० विवृतिः-कालभेदात्तावद् अभूत भवति भविष्यति इति / कारकभेदात् करोति क्रियते इत्यादि / लिङ्गभेदात् देवदत्तो देवदत्ता इति / तथा पर्यायभेदात इन्द्र शक्रः पुरन्दर इति / तथैतौ शब्दसमभिरूढौ / क्रियाश्रयः एवम्भूतः / कुर्वत एव कारकत्वम् / यदा न करोति तदा कर्तृत्वस्यायोगात् / तत्कथं पुनः शब्दज्ञानं 6 विवक्षाव्यतिरिक्तं वस्तु प्रत्येति ? कथं च न ? तदप्रतिबन्धात् ; 'नहि बुद्धेरकारणं विषयः' इत्येतत् प्रतिव्यूढं विज्ञानस्य अनागतविषयत्वनिर्णयेन / सर्वार्थसि० 1133 // "शपत्यर्थमायति प्रत्यायतीति शब्दः ।"-राजवा० // 33 // "शब्दपष्ठतोऽर्थग्रहणप्रवणः शब्दनयः, लिङ्गसंख्याकारकपुरुषोपग्रहव्यभिचारनिवृत्तिपरत्वात् ।"-धवलाटी० पृ०८६। “कालादिभेदतोऽर्थस्य भेदं यः प्रतिपादयेत् / सोऽत्र शब्दनयः शब्दप्रधानत्वादुदाहृतः ।"-तत्त्वार्थश्लो०पू०२७२। नयविव० 84 / प्रमेयक० पृ०६७८ / सन्मति० टी० पृ० 312 / नयचक्र गा० 40 / तत्वार्थसार पृ० 107 / “कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः / यथा बभूव भवति भविष्यति सुमेरुरित्यादिः ।"-प्रमाणनय० 7 / 32,33 / स्या० मं० पृ० 313 / जैनतर्कभा० पृ० 22 / (1) तुलना-“वथूत्ओ संकमणं होइ अवत्थूनए समभिरूढे ।"-अनुयोगद्वार०४ द्वा० / आव० . ' नि० गा० 758 / “सत्स्वर्थेष्वसङक्रम: समभिरूढः ।"-तत्त्वार्थाधि० भा० 1135 / तत्त्वार्थहरि०, तत्वार्थसिद्ध० 1135 / "जं जं सणं भासइ तं तं चिय समभिरोहए जम्हा। सण्णंतरत्थविमुहो तओ तओ समभिरूढोत्ति ॥"-विशेषा० गा० 2727 / “नानार्थसमभिरोहणात् समभिरूढः / अथवा यो यत्राभिरूढः स तत्र समेत्याभिमुख्येनारोहणात् समभिरूतः ।"-राजवा० 1133 / धवलाटी० पृ० 89 / 'समभिरूढः एवं मत्त्वकीभावेन आभिमुख्ये एक एव रूपादिरर्थ एवेति या ज्ञानानां (?) समभिरूढः / " नयचक्रव० पृ० 483 / B. "पर्यायशब्दभेदेन भिन्नार्थस्याधिरोहणात् / नयः समभिरूढः स्यात् पूर्ववच्चास्य निश्चयः।"-तत्त्वार्थश्लो० पृ० 273 / नयविव० 92 / प्रमेयक० पृ०६८० / सन्मति० टी० 10 313 / नयचक्रगा०४१ / तत्त्वार्थसार पृ० 107 / प्रमाणनय० 7 / 36 / स्या०म० पृ० 314 / जैनतर्कभा० पृ० 22 / (2) तुलना-“वंजण अत्थतदुभयं एवंभूओ विसेसेइ। "-अनुयोगद्वा० 4 द्वा० / आव०नि० गा० 758 / "व्यञ्जनार्थयोरेवम्भूतः ।"-तत्त्वार्थाधि० भा० 1235 / तत्त्वार्थहरि०, तत्त्वार्थसिद्ध० 1135 / "येनात्मनो भूतस्तेनैवाध्यवसाययति इत्येवम्भूतः / अथवा येनात्मना येन ज्ञानेन भूतः परिणत: तेनैवाध्यवसाययति ।"-सर्वार्थसि० 1133 / राजवा० 1133 / “वंजणमत्थेणत्थं च वंजणेणोभयं विसेसेइ / जह घटसई चेट्ठावया तहा तं पि तेणेवं ।"-विशेषा० गा० 2743 / “एवं भेदे भवनादेवम्भूतः / न पदानां समासोऽस्ति भिन्नकालवतिनां भिन्नार्थवर्तिनाञ्चैकत्वविरोधात् / न परस्परव्यपेक्षाप्यस्ति वर्णार्थसंख्याकालादिभिभिन्नानां पदानां भिन्नपदापेक्षायोगात् ततो न नाक्यमप्यस्तीति सिद्धम् / ततः पदमेकमेकार्थस्य वाचकमित्यध्यवसाय एवम्भूतनयः ।"-धवलाटी० पृ० 90 / "एवं भवनादेवम्भूतः अस्मिन्नये न पदानां समासोऽस्ति स्वरूपतः कालभेदेन च भिन्नानामेकत्वविरोधात् / न पदानामेककालवृत्तिः समासः क्रमोत्पन्नानां क्षणक्षयिणां तदनुपपत्तेः / नैकार्थे वृत्तिः समासः भिन्नपदानामेकार्थे वृत्त्यनुपपत्तेः / न वर्णसमासोप्यस्ति तत्रापि पदसमासोक्तदोषप्रसङ्गात् / तत एक एव वर्णः एकार्थवाचक इति पदगतवर्णमात्रार्थः एकार्थ इत्येवंभूताभिप्रायवान् एवम्भूतनयः ।"-जयध० पृ० 29 / “तक्रियापरिणामोऽर्थस्तथैवेति विनिश्चयात् / एवम्भूतेन नीयत क्रियान्तरपराङ्मुखः / " -तत्त्वार्थश्लो० पृ० 274 / नयविव० 14 / प्रमेयक० पृ०६८० / सन्मति० टी० पृ० 314 / नयचक्र गा०४३ / तत्त्वार्थसार पृ० 107 / प्रमाणनय० 740 / स्या० मं० पृ० 315 / जैनतर्कभा० पृ० 23 / 1 कर्तत्वायोगात्-न्यायकु० /