________________ नयंप्र० का 0 44] शब्दादिनयानां निरूपणम् अभृतम् असन्तं दर्शयन्ति, तथैव तेनैव प्रकारेण संवित्परमाणवोऽपि, बहिःपरमाणुवत् संवित्परमाणूनामपि स्वरूपेणाप्रतिभासनादिति भावः / उपसंहारमाह--'तद्' इत्यादि। यत एवं तत् तस्मात् नैकम् अभिन्नं तत्त्वम् अनेकरूपम् / पुनरपि कथम्भूतम् ? अक्रमम् अक्षणिकम् ‘युक्तम्' इत्यध्याहारः / यत् तथाविधं तत्त्वं सक्रमं साधयेत् जैनः / कुत एतदित्याह-'भेदस्य' इत्यादि / भेदस्य अनेकत्वस्य अभेदविरोधात एकत्वविरोधात् / / कचिद् अन्तर्बहिर्वा नानात्वमेव अनेकत्वमेव, अन्यथा भेदस्य अभेदविरोधाभावप्रकारेण न स्यात् / एवं ऋजुसूत्रस्य सामान्येन स्वरूपं प्रदर्श्य अधुना तद्भेदं प्रदर्शयन्नाह-'सापेक्ष' इत्यादि / स्वविषयादन्यत्र या अपेक्षा तया सह वर्तमानः ऋजुसूत्रनयः, निरपेक्षो दुर्नयः / कुत एतदित्यत्राह-'प्रतिभासभेद' इत्यादि / प्रतिभासभेदात् स्वभावभेदं वस्तुस्वरूपनानात्वं व्यवस्थापयन् नयो वादी वा तदभेदाद् तस्य 10 प्रतिभासस्य अभेदात् अभेदं भावकत्वं प्रतिपत्तुमर्हत्येव / ननु तत्प्रतिभासयोः सत्येतरत्वकृतो विशेषोऽस्ति ततो न भेदप्रतिभासादिव अभेदप्रतिभासादपि तत्त्वसिद्धिरित्यत्राह-'विशेषाभावात्' इति / द्वयोरपि प्रतिभासयोः सत्येतरलक्षणविशेषस्य भेदस्य अभावात, 'उभयोरपि सत्यत्वात्' इत्यर्थः / तदन्यतरप्रतिभासप्रतीत्यपह्नवे दूषणमाह'तद' इत्यादि / तयोः भेदाभेदप्रतिभासयोर्मध्ये अन्यतरस्य अपाये अङ्गीक्रियमाणे 16 अर्थस्य वस्तुनोऽन्यतरप्रतिभासविकलस्य अनुपलब्धेः उपलम्भाभावात् सर्वदा उभयात्मकस्य वोपलब्धेः तं प्रतिपत्तुमर्हत्येव / / ... अधुना शब्दसमभिरूढेत्थम्भूतान्नयान् कथयन्नाह कालकारकलिङ्गानां भेदाच्छब्दोऽर्थभेदकृत् / अभिरूढस्तु पर्यायैः इत्थम्भूतः क्रियाश्रयः // 44 // (1) भेदाभेदप्रतिभासयोः। (2) "शब्दो नाम नयः स्यात् / किं विशिष्ट: ? अर्थभेदकृत् अर्थस्य प्रमेयस्य भेदं नानात्वं करोत्यभिप्रेतीत्यर्थभेदकृत् / कस्माद् ? भेदाद् विशेषात् / केषाम् ? कालकारकलिनानाम्,' उपलक्षणमेतत् ; तेन संख्यासाधनोपग्रहादपीत्यर्थः / " तु पुनः अभिरूढो नाम नयः पर्यायः पर्यायशब्दैः / अर्थभेदकृत् यथा इन्दनादिन्द्रः शकनात् शक्रः पूर्दारणात् पुरन्दर इति / न हि इन्दनादिधर्मभेदाभावे इन्द्रादिशब्दः प्रयोक्तुं शक्य अन्यथाऽतिप्रसङ्गात् / अभि स्वार्थाभिमुख्येन रूढः प्रसिद्धोऽभिरूढ इति निरुक्तेः / पुनरित्थम्भूतो नाम नयः क्रियाश्रयः विवक्षितक्रियाप्रधानः सन्नर्थभेदकृत यथा यदैवेन्दति तदैवेन्द्रः नाभिषेचको न पूजक इति, अन्यथापि तद्भावे क्रियाशब्दप्रयोगनियमो न स्यात् / ." . -लघी० ता० पृ० 63 / तुलना-"शब्दो लिङ्गादिभेदेन वस्तुभेदं समुद्दिशन् / अभिरूढस्तु पर्यायरित्थम्भूतः क्रियाश्रयः ॥"-प्रमाणसं० पृ० 126 / (3) तुलना-"इच्छइ विसेसियतरं पच्चुप्पणं णओ सहो ।"--अनुयोगद्वार० 4 द्वा० / आव० वि० गा० 757 / विशेषा० गा० 2718 / “यथार्थाभिधानं शब्द: / आहच-विद्याद्यथार्थशब्दं विशेषितपदं तु शब्दनयम् ।"-तत्वार्थाधि० भा०१।३५ / तत्त्वार्थहरि०, तत्त्वार्थसिद्ध० 1 / 35 / "लिङ्गसंख्यासाधनादिव्यभिचारनिवृत्तिपरः शब्दः / "___ 1 'एकत्वविरोधात्' नास्ति आ० / 2 नानात्वमेव अन्यथा श्र० / 8-यन् यो वादी वा ब० / 4-णे अन्यतरस्य अर्थस्य श्र०। 5-नोनन्तरप्रतिभासविकल्पस्य आ० / 6-रूढः स्वप-मु० लघी०।