________________ लघीयत्र्यालङ्कारे न्यायकुमुदचन्द्रे / 5. नयपरि० विवृतिः-यथा बहिः परमाणवः सन्निविष्टाः स्थवीयांसमेवैकमाकारमभूतं दर्शयन्ति तथैव संवित्परमाणवोऽपि / तन्नैकमनेकरूपं तत्त्वमक्रमम् , यत् सक्रम साधयेत् भेदस्य अभेदविरोधात् / क्वचिन्नानात्वमेव अन्यथा न स्यात् / सापेक्षो नयः / निरपेक्षो दुर्नयः / प्रतिभासभेदात् स्वभावभेदं व्यवस्थापयन् तदभेदादभेदं / प्रतित्तुमर्हत्येव विशेषाभावात् / तदन्यतराभावे अर्थस्यानुपलब्धेः। . ऋजुसूत्रस्य नयस्य तदभिप्रायवतो वा पर्यायः प्रभेदः प्रधानम् , प्रधान शब्दस्य सम्बन्धिशब्दत्वात् द्रव्यं तस्य अप्रधानम् / ननु तस्यापि कारिकार्थः-- चित्रका संविदस्ति तत्कथं पर्यायः प्रधानमित्याह-चित्रसंविदः चेतनाणुसमूहत्वात् 'नैका चित्रा संविदस्ति' इति भावः। अथ मतम्-पर्यायत्वेऽस्यास्तथैवोपलक्षणं स्यादतः प्रतिसमयं भेदानुमानमनर्थकमित्यत्राह-स्यात्' इत्यादि / स्याद् भवेद् भेदस्य नानात्वस्य अनुपलक्षणम् अनिश्चयनं सदृशापरापरोत्पत्तिविप्रलम्भात् मायागोलकवदिति / कारिकां विवृण्वन्नाह-'यथा' इत्यादि। यथा येन दूरस्थितविरलकेशनिदर्शनप्रद . र्शनप्रकारेण बहिः परमाणवः जडपरमाणवः सन्निविष्टाः रचनाविशेषण विवृतिव्याख्यानम्- - - व्यववस्थिताः स्थवीयांसमेव न सूक्ष्मम् , एकमेव नानेकम् आकारम् रोत्पत्त्या विप्रलब्धबुद्धिः स्यादिति व्याख्यायते / अयमर्थ:-यथाऽयोगोलकादौ पर्यायभेदो विद्यमानोऽपि विप्रलब्धबुद्धिना न निश्चीयते तथा चित्रसंविद्यपि तदंशभेदो वसन्नपि नोपलक्ष्यत इति / अथवा स्यात् कथञ्चिद् द्रव्याविनाभाविपर्यायः ऋजुसूत्रस्य प्रधानम् , सर्वथा द्रव्यनिरपेक्षस्य पर्यायस्यावस्तुत्वात् / निरन्वयश्च क्षणिकैकान्त ऋजुसूत्राभास इति व्याख्येयम् ।"-लघी० ता० पृ० 62 / लुलना-"पच्चुप्पन्नग्गाही उज्जुसुओ णयविही मुणेअव्वो।"-अनुयोगद्वार० 4 द्वा० / आव० नि० गा० 757 / विशेषा० गा० 2718 / 'सतां साम्प्रतानामर्थानामभिधानपरिज्ञानमृजुसूत्रः।-आहच-साम्प्रतविषयग्राहकमजुसूत्रनयं समासतो विद्यात् ।"-तत्त्वार्थाधि० भा० 1135 / तत्त्वार्थहरि०, तत्त्वार्थसिद्ध० 1135 / "ऋजुं प्रगुणं सूत्रयति तन्त्रयत इति ऋजुसूत्रः ।"-सर्वार्थसि० 1133 / धवला टी० पृ० 86 / "सूत्रपातवद् ऋजुसूत्रः।"-राजवा० 1133 / ऋजुं प्रगुणं सूत्रयति नयत इति ऋजुसूत्रः / सूत्रपातवद् ऋजुसूत्र इति ।"-नयचक्रव० पृ० 354 B. | "ऋजसूत्रं क्षणध्वंसि वस्तुसत्सूत्रयेदृजु / प्राधान्येन गुणीभावाद् द्रव्यस्यानर्पणात् सतः ।"-तत्त्वार्थश्लो० पृ० 271 / नयवि० 77 / प्रमेयक० पृ० 678 / सन्मति० टी० पृ० 311 / नयचक्रगा०८ / तत्त्वार्थसार पृ० 107 / प्रमाणनय० 7 / 28 / स्या०म० पृ० 312 / जैनतर्कभा० पृ० 22 / (1) परि भेदमेति गच्छतीति पर्यायः ।"-धवलाटी० पृ० 84 / (2) चित्रसंविदः / (3) भेदरूपेणैव / (4) तुलना-"समानज्वालासंभतेर्यथा दीपेन विभ्रमः / नैरन्तर्यस्थितानेकसूक्ष्मवित्तौ तथैकधा // यथा हि दीपादौ नैरन्तर्येण सदृशापरापरज्वालापदार्थसंभवात् सत्यपि भेदे एकत्वविभ्रमो भवति तथा नैरन्तर्येणानेकसूक्ष्मतरपदार्थसंवेदनतोऽयमेकत्वविभ्रमः ।"-तत्वसं०, पं० पृ० 197 / यत्पुनरत्रोक्तं प्रज्ञाकरगुप्तेन-अतथाविधयोस्तथाविधविषयसिद्धिः दूरस्थितविरलकेशेषु अतदात्मसु तथाविधायास्तस्या दर्शनात् ।"-सिद्धिवि० टी० पृ० 100 B. / 1-मित्यत्राह ब०, श्र० / 2 संवेदनः श्र० / 3-गोलव-आ०,-गोलक्षणव-श्र०। 4-निदर्शनप्रकारे दर्शनपरमाणव: आ० / / स्वकीयांशमेव ब०, श्र० /