________________ नयप्र० का० 43 ] ऋजुसूत्रनयस्य लक्षणम् व्यवहारे अपेक्षा यस्यासौ तदपेक्षोऽयं लोकसिद्धो व्यवहाराख्यो नयः। ततोऽन्यथा तदपेक्षाभावप्रकारेण दुर्नयः / ननु तदंपेक्ष एव दुर्नयः अप्रमाणमूलस्य व्यवहारस्यावलम्बनात्, न ततोऽन्यो निरंशक्षणिकपरमार्थाश्रयणात् / एतदेवाह-'कथम्' इति / न कथश्चित् 'ततोऽन्यथा दुर्नयः' इति सम्बन्धः / अत्रोत्तरमाह-'बहिरपि' इत्यादि। न केवलमन्तः किन्तु बहिरपि स्वलक्षणं क्षणिकनिरंशपरमाणुलक्षणम् अर्थक्रियासमर्थं 5 यतः ततः सद् विद्यमानम् अङ्गीकृत्य पुनः तस्य स्खलक्षणस्य प्रतिक्षेपेण निरासेन 'विज्ञप्तिमात्रमन्तस्तत्त्वं नात्मादिकम्' इति एवं प्रत्यवस्थाप्य पुनरवस्थाप्य तदपि विज्ञप्तिमात्रमपि सूक्ष्मेक्षिकया निरीक्ष्यमाणं पालोच्यमानं नित्यादिवन्न परीक्षा क्षमते इति एवं खभावनैरात्म्यं निःस्वभावत्वम् , कथम्भूतम् ? असाध्यसाधनं साध्यसाधनविकलम् आकुलं यथा भवति तथा प्रलपन सौगतो न क्वचिद् अन्तर्बहिः सकलशून्यतायां वा 10 व्यवतिष्ठेत यतः 'तदपेक्ष एव दुर्नयः' इत्युक्तं शोभेत / ननु किमुच्यते स्वभावनैरात्म्यमसाध्यसाधनम् यावत्तत्र साधनं विचार एव इति चेदत्राह-'स्वपर' इत्यादि / स्वः सौगतः परो नैयायिकादिः तयोः विसंवादः तत्त्वाप्रतिपत्तिः व्यसनं संसारसरित्पातार्त्तिः ते अधिकृत्य कृतेन पुनः पश्चाद् अलं पर्याप्तं शेषप्रलापेन असम्बद्धाभिधानेन / कुत एतदित्यत्राह प्रत्यक्षादिविरोधात्, प्रत्यक्षमादिर्यस्य अनुमान-लोकप्रसिद्ध्यादेः 15 तत्तथोक्तं तेन तस्य वा विरोधात् / अथ प्रत्यक्षादेरनभ्युपगमान्न दोषोऽयमत्राह-'तद' इत्यादि / तेषां प्रत्यक्षादीनां मध्ये अन्यतमस्य अभिमतत्वाद् अङ्गीकृतत्वात् सौगतैः, कुतोऽन्यथा तेषां स्वपराभिमतसाधनदूषणमित्यभिप्रायः ? एवं व्यवहारनयं साभासं प्रतिपाद्य इदानीं ऋजुसूत्रनयं साभासं दर्शयन्नाह- 20 ऋजुसूत्रस्य पर्यायः प्रधानं चित्रसंविदः / चेतनाणुसमुहत्वात् स्याङ्गेदानुपलक्षणम् // 43. // (१)सौगतः। (2) प्रमाणाप्रसिद्धकल्पितलोकव्यवहारापेक्षी। (३)अस्मदभिमतः प्रमाणसिद्धक्षणिकार्थापेक्षी। (4) विसंवादव्यसने / (5) प्रत्यक्षाद्यस्वीकारे / (६)सौगतानाम्। (4) व्याख्या-"ऋजं वर्तमानपर्यायलक्षणं प्रगुणं सूत्रयति निरूपयतीति ऋजुसूत्रस्य प्रधानं विषयः स्याद् भवेत् / कः ? पर्यायः वर्तमानविवर्तः / अतीतस्य विनष्टत्वेन भविष्यतश्चासिद्धत्वेन व्यवहारानुपयोगात् व्यवहाराविसंवादी नय इति वचनात् / ननु चित्रज्ञानमेकमनेकाकारं व्यवहारोपयोगि स्यादिति चेदत्राह-चित्रेत्यादि, चित्रा संवित् ज्ञानं तस्याः चेतनाणुसमूहत्वात्, चेतना ज्ञानं तस्याणवः अंशाः अविभागप्रतिच्छेदास्तेषां समूहः / समुदायः तत्त्वात् , न चित्रसविद् ऋजुसूत्रनयस्य विषयः / न खलु समुदायः नीलपीतादिनानारूपः प्रतिनियतव्यवहारोपयोगीति / नन्वेवं तत्र भेदः किमिति नोपलक्ष्यत इति चेदत्राह-भेदानुपलक्षणादिति / सदृशापरापरोत्पत्तिविप्रलम्भादित्यध्याहारः / ततो भेदस्य नानात्वस्यानुपलक्षणमदर्शनं सदृशापराप 1 यस्य तदपे-श्र०। 2 तदपेक्षणं च दु-ब०, तदुपेक्ष एव दु-आ०। 3-मर्थयतः श्र० / 4 स वि-आ०।-क्षायां क्षम-ब०। 6-मसिद्धसाधनं ब०। 7 यावतातत्र ब०. श्र०। 8-तात्ति ते आ०। 9 तस्य चाविरो-ब०. तस्य विरो-आ01 10 प्रतिपाद्येदानी ऋजसूत्रस्य नयस्य तदभि-आ०.बा.