________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [5. नयपरि० रापरपर्यायात्मकत्वमेष्टव्यम् / नो चेत् ; तत्सामायित्वन्न स्यात् / ततो यत एव गुणपर्यायवद्रव्यं तत एव उत्पादविगमध्रौव्यलक्षणं सदिति / कस्तत्प्रतिपद्यते ? इति चेदत्राह-'जीव' इति / जीव आत्मा उत्पादादिरूपं सत् घटादिप्रमेयं 'प्रतिपद्यते' इत्यध्याहारः। तस्य अनादिनिधनस्वभावतया तत्प्रतिपत्तौ सामर्थ्यसंभवात् / प्रसा5 धिश्चात्मा तत्त्वान्तरम् अनादिनिधनस्वभावश्च चार्वाकमतपरीक्षायां सन्ताननिषेधाव सरे च / ननु यदि सत्तामात्रेण असौ तत्प्रतिपद्यते तदाऽतिप्रसङ्गः। अथ प्रत्यक्षादिना; तँदा[s]शक्तिरिति चेदत्राह-'चैतन्यस्वभाव' इति / चैतन्यस्वभावः स्वपरग्रहणस्वरूपः इति हेतोः प्रत्यक्षादिपर्यायपरिणतः सन तत्प्रतिपद्यते / तथा च उत्पा दाद्यात्मकार्थलक्षणोऽर्थात्मको व्यवहारः सिद्धः, तत्प्रतिपत्तिलक्षणः प्रत्ययात्मकः, तत्प्र10 रूपकशब्दलक्षणः शब्दात्मक इति / ____ अथ शब्दात्मके व्यवहारे को विसंवादः ? इत्याह-'श्रुतेः' इत्यादि / श्रुतेः अभिधानस्य प्रमाणान्तरेण प्रत्यक्षादिनाऽबाधनम् अविसंवादः / कथमत्यन्तपरोक्षेऽर्थे तंदविसंवादः प्रमाणान्तराबाधनस्य अन्यस्य वा ग्रहीतुमशक्यत्वादित्यत्राह-'पूर्व' इत्यादि / पूर्व यद्वाक्यं यच्च अपरं तयोरतिरोधश्च अविसंवादः, न केवलं प्रमाणान्त16 राबाधनमेव, अस्ति चायं स्याद्वादलाञ्छितागमस्य / अतो "न हिंस्यात् सर्व (सर्वा) भूतानि" ___] "यज्ञार्थ पशवः सृष्टाः स्वयमेव स्वयम्भुवा" [ मनुस्मृ० 5 / 39 ] इत्यागमस्य 'गंगाद्वारे कुशावत्तें बिल्वके नीलपर्वते / स्नात्वा कनखले तीर्थे सम्भवेन्न पुनर्भवे // " [ ] "दुष्टमन्तर्गतं “चित्तं तीर्थस्नानान्न शुद्धयति / शतशोऽपि जलैधौंतं सुराभाण्डमिवाशुचि // ' [ जाबाल० 4 / 54 / ] इत्याद्यागमस्य च नाविसंवादः पूर्वापरविरोधेसद्भावात् इत्युक्तं भवति / __ एवं व्यवहार प्रदर्य तदाश्रयं नयं प्रदर्शयन्नाह-'तदपेक्ष' इत्यादि। तस्मिन् (1) पृ० 343 / (2) पृ० 9 / (3) आत्मा। (4) उत्पादादिस्वरूपं प्रमेयम् / (5) सुषुप्ताद्यवस्थास्वपि प्रमेयबोधप्रसङ्गः। (6) यदि प्रत्यक्षादिद्वारेण जानाति तदा स्वयमात्मनः प्रमेयबोधेऽशक्तिः प्राप्ता अत आह चैतन्यस्वभाव इति / त्रटितायां पू० प्रतावपि तदाऽशक्तिः' इत्येव पाठः / (7) आत्मा। (8) प्रमेयम् / (9) श्रुतेरविसंवादः / (10) अर्थक्रियास्थितिरूपस्य वाऽविसंवादस्य / (11) 'यज्ञस्य (श्च) भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः / ' इत्युत्तरार्धम् / उद्धृतोऽयम्यश० उ०पृ० 91, 357 / (12) उद्धृताविमौ-प्रमाणवातिकालं. परि०४ 10 140 / 'चित्तमन्तर्गतं दुष्टं तीर्थस्नानैर्न'-जाबाल। (13) 'न हिंस्यात्' इत्यहिंसाविधानं यज्ञे पशुवधेन विरुध्यते गंगाद्वारादितीर्थस्नानविधानञ्च तीर्थस्नानान्न शुद्धयति' इति तीर्थस्नानस्य निरर्थकत्वप्रतिपादनेन विरुध्यते। 1-वायित्वं स्यात् श्र०, वायित्वं तत्स्यात् ब०। 2-पर्ययव-ब०। 3 अत एव श्र०, ब०। 4 कस्तत्र प्र-आ०। 5 स घटा-आ016-पद्यन्ते आ० / 7-भावश्चार्वा-आ018 ननु च यदि श्र०। 9 सन्तानमात्रेण श्र०1 10 'चैतन्य स्वभाव इति' नास्ति आ०।11-ति चैतन्यस्य स्वभावः इति चैतन्यस्वभावः स्वपर -श्र०। 12 सस्तत्प्र-आ०, श्र० / 13 यद्वाच्यं आ० / 14 वित्तं श्र० / 16 प्रदर्शयितुमाह ब०, श्र०।