________________ नयप्र० का० 42] व्यवहारनयस्य लक्षणम् म् वादिरस्ति इत्यादिः सर्वो नयः संगृहीतः / 'विज्ञप्तिमात्रं तत्त्वम् , शून्यं तत्त्वम्' इतीहशो दुर्नयः स्यात् / कारिकां विवृण्वन्नाह-'प्रत्यक्षस्थापि' इत्यादि / न केवलमनुमानादेः अपि तु _____ प्रत्यक्षस्यापि प्रामाण्यं व्यवहारापेक्षम् / अतः "प्रेमाणमविवृतिव्याख्या - विसंवादिज्ञानम् इत्यादि व्यवहारेण, आज्ञातार्थप्रकाशो वा इत्येतत्तु / परमार्थेन प्रमाणम्" [ ] इत्ययुक्तम् ; व्यवहारव्यतिरिक्तस्य परमार्थस्याऽसंभवात् / कुत एतदित्याह-'सं' इत्यादि / योऽसौ प्रामाण्येन अपेक्ष्यते स पुनः व्यवहारः अर्थाभिधानप्रत्ययात्मकः, तद्व्यतिरिक्तस्तु अन्यो न कश्चित्संभवति यः परमार्थः स्यादित्यभिप्रायः / अर्थाभिधानयोरर्थत्वेऽपि अत्र अर्थशब्देन विवक्षातः तद्विषयो गृह्यते तदन्यतमापाये व्यवहारानुपपत्तेः। स्वप्ननाऽवि- 10 शेषचोदनायां कुतो नानाविज्ञानसन्तानव्यवस्था विभ्रमव्यवस्था अन्या वा स्यात् इत्युक्तं बाद्यार्थसिद्धिप्रस्तावे। 'कथम्' इति परप्रश्नः / कथं केन प्रकारेण अर्थात्मनो व्यवहारस्य स्वरूपं स्थितमिति ? उत्तरमाह-'उत्पाद' इत्यादि / उत्पादविगमध्रौव्याणि लक्षणं स्वरूपं यस्य तत्तथोक्तम् / किं तदित्याह-'सद्' विद्यमानं घटादि प्रमेयम् / प्रसाधितञ्च उत्पादविनाशात्मकत्वमर्थानां सांख्यं प्रति प्रकृतिपरीक्षा- 1 याम् / कथं बौद्धं प्रति ध्रौव्यं सिद्धमित्याह-'गुण' इत्यादि। संह वो गुणाः सुखज्ञानवीर्यादयः, क्रमभुवः पर्यायाः सुखदुःखादयः, तद्वद्रव्यम् / इदश्च प्रसङ्गसाधनं सौगतं प्रत्येवं व्याख्येयम्-सहभाविनानाधर्मात्मकं चित्तमन्यद्वा चेदङ्गीक्रियते, क्रमभाव्यनेकधर्मात्मकमप्यङ्गीकर्तव्यम् / नो चेत् ; युगपदपि तत्तथा नाङ्गीकर्तव्यमविशेषात् / नैयायिक प्रति पुनरेवम्-इच्छादिगुणसमवायित्वं चेत् कस्यचिदिय॑तेऽप- 20 (1) तुलना-"ततो यदुक्तं प्रमाणमविसंवादिज्ञानमित्यादि व्यवहारेण प्रमाणलक्षणमुक्तम्, अज्ञातार्थप्रकाशो वा इति परमार्थेन, प्रमाणान्तरेणाज्ञातस्य अद्वयप्रतिभासार्थस्य आत्मवेदनस्य एवमभिधानात् ।"-सिद्धिवि० टी० पृ० 9 B. / “सांव्यवहारिकस्येदं प्रमाणस्य लक्षणं प्रमाणमविसंवादिज्ञानमिति ।"-तत्वसं० पं० 10 774 / (2) प्रमाणविषयः, अभिधानप्रत्ययविषयो वा / (3) अर्थाभिधानप्रत्ययेषु एकस्याप्यभावे। (4) योगाचाराः माध्यमिकाश्च अर्थ स्वप्नवत् मिथ्यारूपं वासनाकल्पितं मन्यन्ते तथा चोक्तम्-“फेनपिण्डोपमं रूपं वेदना बुबुदोपमा। मरीचिसदृशी संज्ञा संस्काराः कदलीनिभाः / मायोपमञ्च विज्ञानमुक्तमादित्यबन्धुना।"-मा० 70 पृ०४१ / "मायास्वप्नेन्द्रजालसदृशा द्रष्टव्याः"-नैरात्म्यप० पृ० 18 / न्यायकुम० पृ० 132 टि० 4 / तान् प्रत्याह-स्वप्नेनाविशेषेत्यादि / (5) पृ० 119 / 6) पृ० 354 / (7) तुलना-"अन्वयिनो गुणाः, व्यतिरेकिणः पर्यायाः"सर्वार्थसि० 5 / 38 / गुणपर्ययवद्रव्यं ते सहक्रमवृत्तयः ।"-न्यायवि० श्लो० 111, टि० पृ० 161 / * "सहभुवो हि गुणाः"-धवलाटी० पृ० 174 / (8) चित्तं नानाधर्मात्मकम् / (9) आत्मनः / 1-दि सर्वो आ०, श्र० / 2 स हि इ-श्र० / 3-हारार्थाभि-आ० / 4 तद्विशेषयोःग-श्र० / 5 स्वप्नेऽविशेषचोद-श्र०, स्वप्नेनाविशेषनोद-आ० / 6 कुतो ज्ञानाविज्ञा-आ०। 7-वस्थामव्यवस्था अन्या श्र०। 8 सहमुखो गु-ब० // 9 प्रसाधनं श्र०। 10-ज्यते परा-बं० / 30