________________ 10 632 लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [5. नयपरि० विवृतिः-प्रत्यक्षस्यापि प्रामाण्यं व्यवहारापेक्षम् / स पुनः अर्थाभिधानप्रत्ययात्मकः / कथम् ? उत्पादविगमध्रौव्यलक्षणं सत्, गुणपर्ययवद्रव्यम् जीवश्चैतन्यस्वभावः इति / श्रुतेः प्रमाणान्तराबाधनं पूर्वापराविरोधश्च अविसंवादः। तदपेक्षोऽयं नयः, ततोऽन्यथा दुर्नयः / कथम् ? बहिरपि स्वलक्षणमर्थक्रिया5 समर्थ सद् अंगीकृत्य तत्प्रतिक्षेपेण विज्ञप्तिमात्रमन्तस्तत्वम् इति प्रत्यवस्थाप्य तदपि सूक्ष्मेक्षिकया निरीक्ष्यमाणं न परीक्षाक्षममिति स्वभावनैरात्म्यमसाध्यसाधनमाकुलं प्रलँपन्न क्वचिद् व्यवतिष्ठेत स्वपरविंसवादव्यसनीयेन प्रत्यक्षादिविरोधात् / तदन्यतमस्याभिमतत्वात् पुनरलं शेषप्रलापेन / हेतुफलभावादिव्यवस्था व्यवहारः तदविसंवादी नयः स्यात् / ___ अन्यथा तद्विसंवादप्रकारेण दुर्नयः नयाभासः स्यात् / अत्रोकारिकाव्याख्यानम् दाहरणमाह-'बहिः' इत्यादि / 'बहिरर्थोऽस्ति' इति नयस्य उदाहरणम् , शेषं दुर्नयस्य / बहिरर्थग्रहणमुपलक्षणं तेन प्रमाणमस्ति कार्यकारणभाव्यवहारस्य हि सुनयत्वे तदाश्रया हेतुफलभावादिसिद्धिः स्यात् अन्यथा व्यवहारविसंवादी दुनयः स्यात् / कीदशः ? विज्ञप्तिमात्रम्, विज्ञप्तिविज्ञानमेव तत्त्वं नान्यत् / शन्यम्, समस्तज्ञानज्ञेयोपप्लव एव तत्त्वमितीदृशः / इतिशब्दः प्रकारवाची, सन्मात्रमेव तत्त्वं विभ्रम एव तत्त्वमित्यादिप्रकारान् सूचयति / .." -लघी० ता०प०६१। तुलना-"बच्चइ विणिच्छिअत्थं व्यवहारो सव्वदव्वेसु।"-अनुयोगद्वार० ४.द्वा० / आव०नि० गा० 756 / विशेषा० गा० 2708 / “लौकिकसम उपचारप्रायो विस्तृतार्थो व्यवहारः / ""आह च-लोकोपचारनियतं व्यवहारं विस्तृतं विद्यात्।"-तत्त्वार्थाधि० भा० 1135 / तत्त्वार्थ० हरि०, तत्त्वार्थसिद्ध० 135 / “संग्रहनयाक्षिप्तानामर्थानां विधिपूर्वकमवहरणं व्यवहारः।"-सर्वार्थसि० 1133 / राजवा० 1133 / "व्यवहारपरतन्त्रो व्यवहारनय इत्यर्थः।"-धवलाटी०। तत्त्वार्थश्लो० पृ० 271 / नयविव०७४। प्रमेयक० पृ०६७७। सन्मति० टी० पृ० 310 नयचक्र गा० 35 / तत्त्वार्थसार पृ०२०७। प्रमाणनय० 7 / 23 / स्या० मं० पृ० 311 / जैनतर्कभा० पृ० 22 / (12) "कल्पनारोपितद्रव्यपर्यायप्रविभागभाक् / प्रमाणबाधितोऽन्यस्तु तदाभासोऽवसीयताम् ॥"-तत्त्वार्थश्लो० पृ०२७१ / नयविव० 76 / प्रमेयक० पृ०६७८ / न्यायावता० टी०पू०८६। प्रमाणनय० 725, 26 // जैनतर्कभा०प० 24 / (1) तुलना-"त्रयः पदार्थाः अर्थाभिधानप्रत्ययभेदात्"-राजवा० पृ० 17 / (2) द्रष्टव्यम्पृ०६०५ टि०७। (3) तुलना-"गुणाणमासओ दव्वं एकदव्वस्सिया गुणा। लक्खणं पज्जवाणं तु उभओ अस्सिया भवे ॥"-उत्तरा० 2806 / “दव्वं सल्लक्खणियं उप्पादव्वयधुवत्तसंजुत्तं / गुणपज्जयासयं वा जं तं भण्णंति सव्वण्हू ।।"-पञ्चास्ति० गा०१०। "गुणपर्ययवद् द्रव्यम्"-तत्त्वार्थसू० 5 / 38 / “तं परियाणहु दब्बु तुहुँ जं गुणपज्जयजुत्तु / सहभुव जाणहि ताँह गुण कमभुव पज्जउ वुत्तु ॥"-परमात्मप्र० गा० 57 / न्यायवि० श्लो० 111 / (4) तुलना-"उवओगलक्खणे जीवे ।"-भगवतीसू० 2 / 10 / उत्तरा० 28 / 10 / "उपयोगो लक्षणम्"-तत्त्वार्थसू० 2 / 8 / (5) "अर्थक्रियासमर्थ यत्तदत्र परमार्थसत् / ' -प्रमाणवा० 2 / 3 / (6) "विज्ञाप्तिमात्रमेवेदमसदर्थावभासनम् / यथा तैमिरिकस्यासत्केशचन्द्रादिदर्शनम् ॥"-विशतिकाविज्ञप्ति० श्लो० 1 / (7) तुलना-"अपि च बाह्यार्थविज्ञानशून्यवादत्रयमितरेतरविरुद्धमुपदिशता सुगतेन स्पष्टीकृतमात्मनोऽसम्बद्धप्रलापित्वं प्रद्वेषो वा प्रजासु विरुद्धार्थप्रतिपत्त्या विमोयरिमा: प्रजा.इति।"-शां० भा० 2 / 2 / 32 / 1 पूर्वापरविरोधश्च विसंवादः ई० वि०। 2 तदतिसू-ज०वि०। -रलं प्र-ई०वि०।