________________ नयप्रका० 42 ] व्यवहारनयस्य लक्षणम् 'समवायेन' इत्यादि / समवायेन सम्बन्धेन स्वावयवेषु अवयवी वर्त्तते [ ति ] 'नहि प्रमाणमस्ति' इति सम्बन्धः / ननु 'शृङ्गे गौः शाखायां वृक्षः' इति प्रतीतिः तत्र प्रमाणमस्तीति चेदत्राह-'शृङ्गे इत्यादि। शृङ्गे गौः शाखायां वृक्ष इति एवं यत् प्रमाणं तत् लोकव्यवहारमतिवर्तेत तत्र तथाप्रतीतेरभावात् / कुत एतदित्याह-विपर्ययात् , 'गवि शृङ्ग वृक्षे शाखा' इति लोकव्यवहारे प्रतीतिसद्भावात् / अत्रैव दूषणान्तरमाह- 5 'स्वयम्' इत्यादि / स्वयम् आत्मना अज्ञस्वभावः अचेतनः सन् आत्मा ज्ञानसमवाये सति कथमिव ज्ञः स्यात् चेतनो भवेत् ? नहि तथा ज्ञत्वप्रकारेण अपरिणतस्य तत्वं ज्ञत्वं युक्तम् / कुत एतत् ? समवायस्यापि ज्ञत्वप्रसङ्गात् / 'न' इत्यादिना परमतमाशङ्कते-नैवै नैव ज्ञानेन समवायस्य समवायोऽस्ति तत्कथमस्ये ज्ञत्वप्रसङ्गः इति चेत् तत्राह-'कथम्' इत्यादि / कथं केन प्रकारेण समवायोऽस्ति ? 10 न केनचिद्, व्यवस्थापकप्रमाणानां समवायपरीक्षायां प्रपञ्चतः प्रतिषिद्धत्वात् / इतश्च नास्त्यसौ स्वस्वभावरहितो यतः / तस्य हि स्वभावोऽयुतसिद्धसम्बन्धंत्वम् , तच्च तत्रैवे विस्तरतो निषिद्धम् / कथं च समवायिष्ववर्त्तमानस्य अश्वविषाणस्येव अस्य अयुतसिद्धसम्बन्धत्वं युक्तम् ? अथ वर्तत एवासौ तत्रं; अत्राह-'वर्तेत वा' इत्यादि / अत्रास्य ज्ञत्वलक्षणं दूषणमुक्तमिति मत्त्वा दूषणान्तरमाह-वर्तेत वा कथं समवायान्तराभावात् 15 ऐकत्वात्तस्य / विशेषणीभावाद् वर्त्तते इति चेदत्राह 'तद्' इत्यादि / समवायस्य तदन्तरकल्पने या अनवस्था तस्य अनुषङ्गात् कथमसौ कापि वर्तेत ? अयमभिप्रायःअनवस्थाभयात् समवायस्य समवायान्तरं परेण न कल्प्यते, सा च विशेषणीभावकल्पनेऽप्यविशिष्टा सम्बन्धान्तरकल्पनस्य अत्राप्यविशेषात् / नहि अंसम्बद्धो विशेषणीभावः समवायस्य समवायिषु वृत्तिहेतुः इत्युक्तं समवायनिषेधप्रघट्टके। 20 इदानी व्यवहारनयं दर्शयितुमाह व्यवहाराविसंवादी नयः स्याद् दुर्नयोऽन्यथा / बहिरर्थोस्ति विज्ञप्तिमात्रं शून्यमितीदृशः // 42 // (1) लोकव्यवहारे / (2) समवायस्य / (3) पृ० 297 / (4) "अयुतसिद्धानामाधार्याधारभूतानां यः सम्बन्ध इहप्रत्ययहेतुः स समवायः / " (प्रश० भा पृ० 14) इत्यभिधानात् / (5) समवायपरीक्षायाम् (पृ० 297) / (6) समवायस्य / (7) समवायिषु / (8) समवायस्य / (9) "तत्त्वं भावेन"-वैशे० सू०७।२।२८ / “तस्माद् भाववत्सर्वत्रैक: समवायः"-प्रश० भा० पृ० 326 / (10) पृ० 303 / (11) व्याख्या-'स्याद् भवेत् / कः ? नयः संग्रहादिः / किंविशिष्टः ; बहिरर्थोस्तीतीदशः / इतिशब्दात् प्रमाणमस्ति साध्यसाधनभावोऽस्तीत्यादि / कथम्भूतः सन् ? व्यवहाराविसंवादी, हेतुफलभावादिव्यवस्था व्यवहारः तस्याविसंवादोऽव्यभिचारः सोऽस्यास्तीति तथोक्तः / 1 वर्तेत नहि ब०, वर्तति नहि श्र०।-हारप्रतीति-ब०, श्र०। न चैतावतैव ज्ञानेन ब०। 4 चेदत्राह श्र०। 5-धवत्वं तत्रैव आ०। 6-वासौ युक्तं तत्र ब० / 7 दूषणमाह ब०। 8 वा समवायान्तरात् एकत्वाभावात् एकत्वात्तस्य श्र०। 9 असम्बन्धो आ० / 10-हारोऽविसं-मु० लघी० / 11-मात्रशन्य-मु० लघी० /