________________ 630 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [5. नयपरि० प्रमाणमिति चेदत्राह-'तद्' इत्यादि / तस्य तद्व्यवस्थापकस्य प्रामाण्यश्च व्यवहा- . रेणैव न परपरिकल्पितपरमार्थप्रकारेण तत्र तदसिद्धेः / स च व्यवहारः संग्रहे मिथ्यैव लेशतोऽपि सत्यो न भवति इति एवकारार्थः / कुत एतदित्याह-भेदाश्रयो यतः। भवत्वेवम्, को दोषः ? इति चेदत्राह-'ततः' इत्यादि / तस्मात् मिथ्यारूपात् प्रमाणादि5 व्यवहारात् संग्रहः प्रतिपक्षं भेदैकान्तं कथमतिशयीत ? न कथञ्चित् / तत्रापिमिथ्याप्रमाणादिव्यवहारभावात् “प्रामाण्यं व्यवहारेण" [ प्रमाणवा० 17 ] इत्यादिवचनात् / ननु अभेदात्मकः संग्रहः भेदात्मकचा प्रतिपक्षः, तत्कथं स तं नातिशेते ? इत्यत्राह-'सत्य' इत्यादि / सत्यम् अवितथम् इतरंद् वितथम् ते च ते स्वरूपे च ते यस्य स्तः तत् तद्वत् / क्रियाविशेषणमेतत्-सत्यरूपवद् यथा भवति तथा संग्रहोऽ10 तिशयीत, इतरस्वरूपवत् यथा भवति तथा प्रतिपक्षमिति, प्रतिपक्षवत् संग्रहोऽपि मिथ्यैव स्यात् इत्यर्थः / ततः को दोषः इत्यत्राह-'मिथ्या' इत्यादि / मिथ्यैकान्तस्य संग्रहप्रतिपक्षयोः यो विशेषः तस्मिन्नपि न केवलं विशेषे तस्य संग्रहस्य व्यवस्थापनमयुक्तम् / उपसंहारमाह-'तद्' इत्यादि / यत एवं तत् तस्मात् उभयोपलब्धेः संग्रहेतरयोः उपलब्धेः अवितथात्मकत्वात् सत्यस्वभावत्वात् ‘स कथं प्रतिपक्षमति15 शयीत' इति सम्बन्धः / तस्यावितथात्मकत्वे दूषणमाह-'अन्यथा' इत्यादि / अन्यथा अवितथात्मकत्वाभावप्रकारेण स्वमान्तरवत् स्वप्नभेदवत् तस्याः विसंवादान किश्चित् प्रमाणम् / ___एवं संग्रहाभासे प्रमाणाभाव प्रदर्य इदानीं नैगमाभासे तं दर्शयन्नाह-'नैगमेऽपि' इत्यादि / न केवलं संग्रहे अपि तु नैगमेऽपि न किञ्चित् प्रमाणम् / एतदेवाह20 'चलम्' इत्यादि / चलम् आविर्भावतिरोभाववत् / किं तदित्याह-'गुण' इत्यादि / गुणानां सत्त्वादीनां वृत्तं महदादिरूपेण परिणमनं नित्यं चैतन्यम् इति एवं स्वरुचिविरचितदर्शनप्रदर्शनमात्रम् / कुतः ? व्यवहारासिद्धेः / एतदेव दर्शयन्नाह-'नहि' इत्यादि / हिर्यस्मात् न गुणानां सत्त्वरजस्तमसां परमं प्रधानलक्षणं रूपं न दृष्टिप थमृच्छति, यत्तु रूपं महदादि दृष्टिपथप्राप्तं तन्मायेव सुतुच्छकम् इति एवं प्रमाणमस्ति 25 प्रत्यक्षादेरत्राऽनवतारादिति / सांख्यनैगमाभासे प्रमाणाभावं प्रदर्य अधुना नैयायिकतैदाभासे तं दर्शयन्नाह (1) व्यवहारो हि भेदमाश्रित्य प्रवर्तते अतः अभेदग्राहिसंग्रहनयदृष्टया मिथ्यैव / (2) उद्धृतोऽयम्-तत्त्वार्यश्लो० पृ० 173 / सिद्धिवि० टी० पृ० 18 A., 232 B., 294 B.'305 B., 324 520 B. / प्रमेयक०५० 217, 383 / सन्मति० टी० पृ०१११, 497 / न्वायवि०वि० पृ० 38 B. / शास्त्रवा० यशो० पृ० 158 B. / (3) नैगमाभासे / (4) प्रमाणाभावम् / 1-माण्यं व्यव-आ० / 2-रद तद्विथ-श्र०। यो वि-ब०, आ० / 4 तस्य व्यव-आ०। 5 संग्रहेतरोपल-ब०, श्र०। 6 सत्वस्व-श्र०। 7 नित्यचैतन्यं श्र०, नित्यचेतना-ब० / 8 तन्मायैव ब०। 9 इत्यलं प्र-ब०।