________________ नयप्रे० का० 41] संग्रहनयस्य लक्षणम् . 126 इति प्रमाणमस्ति समवायेन स्वावयवेषु अवयवी वर्तेत / 'शृङ्गे गौः शाखायां वृक्षः' इति लोकव्यवहारमतिवर्तेत विपर्ययात् / स्वयमज्ञस्वभावात्मा ज्ञानसमवाये कथमिव ज्ञः स्यात् ? नहि तथाऽपरिणतस्य तत्त्वम्, समवायस्यापि ज्ञत्वप्रसङ्गात् / न वै ज्ञानसमवायोऽस्ति समवायस्येति चेत् / कथं स्वस्वभावरहितः सोऽस्ति वर्तेत वा समवायान्तराभावात् तदनवस्थानुषङ्गात् / प्रामाण्यं व्यवहारात् व्यवहारमाश्रित्य, हिः अवधारणार्थः / व्यवहारादेवं न ज्ञानाद्यद्वैताद्याश्रित्येत्यर्थः / तत एव तदस्तु को दोषः इति कारिकाव्याख्यानम् चेदत्राह-'स' इत्यादि / स व्यवहारो न स्यात् तत्त्वतः परमाथतः तयोः संग्रहनैगमाभासयोः। ननु यदि तयोर्व्यवहारो वास्तवो नास्ति, मा भूत् अवास्तवस्तु भविष्यति इत्यत्राह-'मिथ्यैकान्त' इत्यादि / अयमभिप्राय:-यत्र 10 व्यवहारो मिथ्या तत्र तदाश्रितं प्रमाणमप्येकान्तेन मिथ्या, तस्मिन् मिथ्यकान्ते अङ्गीक्रियमाणे विशेषो भेदः कः न कश्चित् / कयोः ? स्वपक्षविपक्षयोः / ततः उभयोः सिद्धिरसिद्धिर्वा स्यादिति भावः / वाशब्द अपिशब्दार्थे / कारिको व्याख्यातुमाह-'शुद्धम्' इत्यादि / शुद्ध द्रव्यं पर्यायरहितं ब्रह्मादि, शुद्धं विवृतिव्याख्यानम् _ पर्यायं द्रव्यरहितं क्षणिकनिरंशपरमाणुरूपम् / अशुद्धं द्रव्यं सपर्य- 15 यम् / अशुद्धं पर्यायं सद्रव्यम् / अस्यानन्तरस्य विशेषणमाह'व्यस्तम्' इत्यादि / व्यस्तम् अन्योन्यनिरपेक्षम् , अनेन नैयायिकमतं दर्शितम् / समस्तम अन्योन्यात्मकम् , अनेनापि सांख्यदर्शनं प्रकाशितम् , विकारविकारिणोः सांख्यैस्तादात्म्याभ्युपगमता / 'व्यवस्थापयता' इत्येतत् प्रत्येकमभिसम्बध्यते। तत्साधनं तयोः शुद्धाशुद्धव्यस्तसमस्तद्रव्यपर्याययोः साधनं मृग्यम् अन्वेष्यम् / तच्च नय- 20 त्किञ्चिद् भवितुमर्हति किन्तु प्रमाणम् , प्रत्यक्षादिवस्तुव्यवस्थायामन्यस्याऽनधिकारात् / अन्यथा प्रमाणान्वेषणाभावप्रकारेण तव्यवस्थापने अतिप्रसङ्गात सर्वतः सर्वस्य सर्वार्थसिद्धिप्रसङ्गात् / ननु संग्रहनैगमाभासप्ररूपणप्रस्तावे किमर्थमप्रस्तुतं 'शुद्धं पर्यायम्' इत्येतत् प्रस्तूयते इति च न वाच्यम् ; दृष्टान्तार्थत्वात् / यथैव शुद्धं पर्याय व्यवस्थापयता सौगतेन प्रमाणं मृग्यम् तथा अन्यदपि अन्येनै व्यवस्थापयता तन्मृग्यमिति / 25 यदिवा, उत्तरत्र ऋजुसूत्राभासे इदमवश्यं वक्तव्यम्, 'तदिहैवोक्तम् / मृग्यत एव तर्हि (1) तुलना-"फ्टस्तन्तुष्विवेत्यादिशब्दाश्चेमे स्वयं कृताः / शृङ्ग गवीति लोके स्यात् शृङ्गे गौरित्यलौकिकम् / प्रमाणवा० 3 / 150 / “वृक्षे शाखाः शिलाश्चाग इत्येषा लौकिका मतिः / शिलाख्यपरिशिष्टाङ्गनरन्तर्योपलम्भनात् // तौ पुनस्तास्विति ज्ञानं लोकातिक्रान्तमुच्यते ।"-तत्वसं०१० 267 / (2) शुद्धद्रव्यादि / (3) ब्रह्माद्वैतादिवादिना / (4) प्रमाणम् / 1-तः वर्तेत ई०वि०। 2 प्रमाणं ब०, श्र०। -देवज्ञाना-आ०।. 4 ज्ञानाद्वैता-ब। 5 ततः श्र० / 6 यथा तयोः ब०। 7 अथासवस्तु आ०, अवास्तुसस्तु श्र०। 8 प्रमाणमिथैका-आ० / 9 द्रव्यपर्याय-श्र० / 10 अनेन आ० / 11 तविह चोक्तम् ब० /