________________ 628 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [5. नयपरि० . पर्याप्तं गुणकल्पनया प्रधानकल्पनया, तस्य तदात्मकत्वादित्यभिप्रायः / निरस्तञ्च प्रधानं / प्रपञ्चतः प्रकृतिपरीक्षाप्रघट्टके इत्युपरम्यते / अधुना प्रमाणाभावात् तदाभासतां तयोर्दर्शयितुमाह प्रामाण्यं व्यवहाराद्धि स न स्यात् तत्त्वतस्तयोः / मिथ्यैकान्ते विशेषो वा का स्वपक्षविपक्षयोः // 41 // विवृतिः-शुद्धमशुद्धं वा द्रव्यं पर्यायं समस्तं व्यस्तं वा व्यवस्थापयता तत्साधनं प्रमाणं मृग्यम् अन्यथाऽतिप्रसङ्गात् / तत्प्रामाण्यश्च व्यवहारेणैव / स च संग्रह भेदाश्रयो मिथ्यैव / ततः सप्र (सःप्र) तिपक्षं कथमतिशयीत सत्येतरस्वरूपवत् ? मिथ्यैकान्ताविशेषेऽपि तद्वयवस्थापनमयुक्तम्; तदुभयोपलब्धेरवितथात्मकत्वात् , 10 अन्यथा स्वमान्तरवत् तद्विसंवादान्न किञ्चित् प्रमाणम् / नैगमेऽपि 'चलं गुणप्रवृत्तं नित्यं चैतन्यम्' इति व्यवहारासिद्धः स्वरुचिविरचितदर्शनप्रदर्शनमात्रम् / नहि "गुणानां परमं रूपं न दृष्टिपथमृच्छति / यत्तु दृष्टिपथप्राप्तं तन्मायैव (येव) सुतुच्छकम् // " [ ] (1) पुरुषस्य / (2) सुखाद्यात्मकत्वात् / (3) पृ० 354 / (4) संग्रहाभासनै गमाभासयोः / (5) व्याख्या-"प्रमाणं स्वेष्टानिष्टसाधनदूषणनिबन्धनं प्रत्यक्षमन्यद्वा सर्वैरभ्युपगन्तव्यमन्यथाऽतिप्रसङ्गात् / तच्च व्यवहारात् / विधिपूर्वकमवहरणं विभजनं भेदकल्पनं व्यवहारस्तस्मात् तमाश्रित्येत्यर्थः / स च तत्त्वतः परमार्थतो न स्यात् / क्व ? तयोः संग्रहाभासनैगमाभासयोः / न खलु निरपेक्षे भावैकान्ते प्रमाणादिभेदव्यवहारोस्ति निराकृतत्वात् भेदैकान्ते वा प्रमाणफलव्यवहारोऽस्ति सम्बन्धाभावात् / : औपचारिकः प्रमाणफलव्यवहारस्तत्रास्तीति चेदत्राह-मिथ्येत्यादि / मिथ्र्यकान्ते प्रमाणफलव्यवहारस्यावास्तवैकान्ते अङ्गीक्रियमाणे विशेषः भेदोऽपि कः ? न कोपीत्यर्थः / कयो: ? स्वपक्षविपक्षयोः. स्वपक्षो ब्रह्मवादो भेदवादो वा, विपक्षः क्षणिकवादोऽद्वैतवादो वा तयोः संकरप्रसंगादित्यर्थः। ततः कथञ्चि यवहारोपि वास्तवोऽङ्गीकर्तव्यः ।"-लघी० ता० 1060 / तुलना-"प्रामाण्यं व्यवहारेण * / " -प्रमाणवा० 117 / (6) "उक्तार्थे शास्त्रं प्रमाणयति-तथा चेति / परमं पारमार्थिकं नित्यमिति यावत् / मायेव लौकिकमायावत् क्षणभङ्गरम्, अत: सुतुच्छकम् अत्यन्ततुच्छमल्पसारं स्थिरांशाभावादिति / अत्र सुशब्देन परिणामितया गुणानामपि तुच्छत्वं सूचितं गुणा एव परिणामितया कूटस्थनित्यापेक्षया तुच्छाः , गुणकार्य तु दृश्यमानं गुणापेक्षयापि तुच्छम्, अत: सुतुच्छमिति . .।"-योगवा० पृ० 414 / “परमं रूपं मूलरूपमव्यक्तावस्था न दृष्टिपथमृच्छति गच्छति, व्यक्तं दृष्टिपथं प्राप्तं यद् गुणरूपं तद् मायेव सुतुच्छकं मायया प्रदर्शितं प्रपञ्चं यथा तुच्छं तथेति ॥"-योगसू० भास्व० पृ० 414 / कारिकेयं निम्नग्रन्थेषु समुद्धताऽस्ति-'तथा च शास्त्रानुशासनम्गुणानां ।'-योगभा० 4 / 13 / षष्ठितन्त्रशास्त्रस्यानुशिष्टि:-गुणानां - -योगभा० तत्त्वव० 4 / 13 / योग० भास्वती, पात० रह० 413 / 'भगवान वार्षगण्यः-गणानां ।'-शां० भा० भामती 10 352 / नयचक्रव० पृ० 43 A. / तत्त्वोपप्लव० पृ० 80 / सांख्यतत्त्वा० पृ०६। 'गुणानां सुमहद्रूपम् / ' -प्रमाणवातिकालं. परि०४, पृ० 33 / सिद्धिवि० टी० पृ०७४ B. / अष्टसह० पृ० 144 / 'दृष्टिपथं प्राप्तं तन्मायावस्तु तुच्छकम्'-जयम० पृ० 63 / 1 गुणपरिक-श्र० / 2-भासयतां श्र०। 3 प्रमाणं ब०। 4-व्यं व्य-ई०वि०। -स्तं व्य-ज० वि० / 6 बलं ई०वि०॥