________________ नयप्र० का 0 40] संग्रहनयस्य लक्षणम् 627 - अपरमपि नैगमाभासं दर्शयितुमाह-'गुणानाम्' इत्यादि / गुणानां सत्त्वरजस्तमसां वृत्तं वर्त्तनं चलम् अविर्भावतिरोभाववत् / एतदेव 'सुख' इत्यादिना व्याचष्टेसंत्त्वस्य हि सुखादिलक्षणं वृत्तम्, रजसो दुःखादिलक्षणम् , तमसोऽज्ञानादिकमिति / पुरुषस्य किं स्वरूपमित्याह-'चैतन्यम्' इत्यादि / चैतन्यं दर्शनं पुरुषस्य स्वम् आत्मीयमसाधारणं रूपम् / " न प्रकृतिर्न विकृतिः पुरुषः” [सांख्यका० 3] इत्यभिधानात् / / कथम्भूतम् ? अचलम् , आविर्भावतिरोभावविकलम् / इतिशब्दः परपक्षसमाप्त्यर्थः / अत्र दूषणमाह-'एतदपि' इत्यादि / एतदपि सांख्यमतमपि न केवलं वैशेषिकमत तादृगेव नैगमाभास एव / कुत एतदित्याह-'तद्' इत्यादि / तयोः सुखादिवृत्तपुरुषयोः अर्थान्तरताम् व ( ताव ) स्त्वन्तरत्वं तस्य असिद्धेः अनिश्चयात् / अत्रैव दोषान्तरमाह-अतिप्रसङ्गश्चैवमिति / सुखादिवृत्तपुरुषयोः परमार्थतोऽभेदेऽपि प्रतीय- 10 माने एवं पैरैः स्वमतदुराग्रहाभिनिवेशप्रकारेण भेदे अभ्युपगभ्यमाने अतिप्रसङ्गः स्यात् 'एकमेव न किञ्चित् स्यात्' इति भावः / च शब्दः पूर्वदोषसमुच्चये, / ननु तैदैभेदविरोधात् सिद्धैव तदर्थान्तरता इत्याह-'तदभेद' इत्यादि / तयोः पुरुषवृत्तयोरभेदे एकत्वे सति विरोधाभावात् सहानवस्थानलक्षणस्य परस्परपरिहारस्थितिस्वरूपस्य प्रमाणबाधारूपस्य वा विरोधस्याभावात् इति भावः / अथ मतम् अचलपुरुषस्वरूपे 15 चलवृत्तानुप्रवेशे द्वयोश्चलत्वमचलत्वं वा रूपं स्यात् अतो विरोधः इत्यत्रांह-गुणानाम् इत्यादि / गुणानां सत्त्वरजस्तमोलक्षणानां दृश्यादृश्यात्मकत्वे व्यक्तापेक्षया दृश्यात्मकत्वे प्रधानापेक्षया अदृश्यात्मकत्वे अङ्गीक्रियमाणे पुंसामेव तदात्मकत्वं दृश्यादृश्यात्मकत्वं युक्तम् उपपन्नम् / प्रसाधितञ्च सुखादिविवर्त्तात्मकत्वमात्मनः प्रागेव प्रबन्धेन इत्यलमतिप्रसङ्गेन / ततः किं जातम् ? इत्याह- कृतम्' इत्यादि / कृतं 20 (1) "प्रीत्यप्रीतिविषादात्मकाः, अत्रायं समासः प्रीतिश्चाप्रीतिश्च विषादश्च ते आत्मा स्वरूपं येषां गुणाना ते भवन्ति प्रीत्यप्रीतिविषादात्मकाः / तेषां लक्षणमुच्यते तत्र प्रीत्यात्मकं सत्त्वम् / आत्मशब्द: स्वभावे वर्तते। कस्मात् ? सुखलक्षणत्वात् / यो हि कश्चित क्वचित प्रीतिं लभते तत्र आर्जवमार्दवसत्यशौचहीबुद्धिक्षमानुकम्पाज्ञानादि च, तत्सत्वं प्रत्येतव्यम् / अप्रीत्वात्मकं रजः। कस्मात् ? दुःखलक्षणत्वात् / यो हि कश्चित् कदाचित् क्वचिदप्रीतिमुपलभते तत्र द्वेषद्रोहमत्सरनिन्दास्तम्भोत्कण्ठानिकृतिवञ्चनाबन्धच्छेदनानि च, तद्रजः प्रत्येतव्यम् / विषादात्मकं तमः / कस्मात् ? मोहलक्षणत्वात् / यो हि कश्चित् कदाचित्क्वचिन्मोहमुपलभते तत्र अज्ञानमदालस्यभयदैन्याकर्मण्यतानास्तिक्यविषादस्वनादि च, तत्तमः प्रत्येतव्यम्।"-सांख्यका० माठर०, जयमं०,का०१२॥ सांख्यसूत्रवि० पृ० 106 / (2) कापिलः / (3) सुखादि-पुरुषयोः / (4) सुखादि / (5) "द्विविधो हि पदार्थानां विरोधः, अविकलकारणस्य भवतोऽन्यभावेऽभावाद्विरोधगतिः शीतोष्णस्पर्शवत्। परस्परपरिहारस्थितलक्षणतया वा भाववत् / " -न्यायबि० पृ० 97-98 / (6) पृ० 191 / 1-चष्ट सत्त्वस्य दर्शनं पुरुषस्य आ० / 2-दि वृत्तपुरुषयोः पर-आ० / -तामवलस्त्वन्त-ब०। 4 तदभेदेविरो-श्र०, ब०। 5-प्रवेशद्वयो-आ०। 6-त्राह वश्याद-श्रः। 7-कत्वव्यक्ता-आ० / 8-स्मकं युक्तं आ०।