________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [5. नयपरि० प्रकारेण द्रव्यगुणकर्माण्येव न खरविषाणादीनि स्वतः सन्तु किं तत्र तेषु द्रव्यादिषु सत्तासमवायेन ? कुत एतदित्याह-'स्वतः' इत्यादि / स्वतो हि सतां द्रव्यादीनां सत्तासमवायात् सत्त्वं स्यात्, असतां वा ? तत्राद्यः पक्षोऽनुपपन्नः; स्वतः सतां तदै यात् सत्तासमवायवैयर्थ्यात् / स्वतोऽसताञ्च अतिप्रसङ्गात् खपुष्पादौ तत्समवा5 यात्सत्त्वप्रसङ्गात् / एतदेव दूषणमन्यत्राप्यतिदिशन्नाह-'तदेवम्' इत्यादि / तद् अनन्तरोक्तं दूषणम् एवम् उक्तविधिना योज्यम् / क ? अवान्तरजातिष्वपि द्रव्यत्वादिसामान्येष्वपि / तथाहि-यथा सद्रव्यं सन् गुणः सत् कर्म स्वतः तथा स्वतो द्रव्यं द्रव्यं गुणो गुणः कर्म कर्म खण्डादिौः कर्कादिरश्वः, किं तत्र द्रव्यत्वादिसमवाये न ? स्वतो द्रव्यगुणकर्मणां तेद्वैयर्थ्यात् , अद्रव्यगुणकर्मणाश्चातिप्रसङ्गात् / नहि तैथाऽ10 परिणतमन्यसम्बन्धात् तथा भवति आकाशकुशेशयस्यापि तथात्वप्रसङ्गात् / अत्र दूषणान्तरं दर्शयन्नाह-'गोत्वादेः' इत्यादि / अत्र आदिशब्देन अश्वत्वादिपरिग्रहः, सर्वगतत्वे अङ्गीक्रियमाणे तत्प्रत्ययसाङ्कर्यम् गोत्वादिप्रत्ययसाङ्कर्यम् खण्डादिवत् कर्कादावपि गोप्रत्ययः स्यात् / उपलक्षणमेतत् तेन अभिधानव्यवहारसाङ्कयं गृह्यते / तत्साकर्ये च अवान्तरजातित्वं तस्य अतिदुंरन्वयम् / निराकृता च विशेषतो नित्या 15 सर्वगता जातिः सामान्यपरीक्षावसरे इत्यलमिह विस्तरेणं / अथ असर्वगतत्वपक्षे जातेर्दूषणमुपदर्शयन्नाह-'अन्यथा' इत्यादि / अन्यथा अन्येन असर्वगतत्वप्रकारेण 'निष्क्रियस्य गोत्वादेः, अर्थः उत्पित्सुः यस्मिन् देशे तमव्यामुवतः 'इच्छातो विशेषणविशेष्यभावः' इति अर्थस्य विशेषणत्वमिति न उत्पित्सुशब्दस्य पूर्वनिपातः / अनंशस्य निरवयवस्य अनेकत्र स्वाधारे कादाचित्कं वर्त्तनमयुक्तम् / स्वमते दोषाभावं 20 दर्शयितुमाह-गुणगुण्यादीनामन्योन्यात्मकत्वे न किञ्चिद्विरुद्धमिति / एतच्च अनेकान्तसिद्धिप्रघट्टके सप्रपञ्चं प्रपश्चितम् इत्यलमतिप्रसङ्गेन / . प्रसङ्गात् / विशेषेष्वपि सामान्यसद्भावे संशयस्यापि सम्भवात् निर्णयार्थ विशेषानुसरणेऽप्यनवस्थैव / समवायेऽपि सत्ताभ्युपगमे तद्वृत्त्यर्थं समवायाभ्युपगमादनिष्टापत्तिरेव दूषणम् .."-प्रश० भा०, कन्द. 1019 / "मुख्ये हि अनवस्थादिवाधकोषपत्तेः"-प्रश० व्यो० पृ० 142 / व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथानवस्थितिः। रूपहानिरसम्बन्धो जातिबाधकसङग्रहः।।"-प्रश० किर० पृ० 33 / (1) सत्तासमवायात् / (2) द्रव्यत्वगुणत्वकर्मत्वसमवायवैयर्थ्यात् / (3) "न हि स्वतोऽतथाभूतस्तथात्वसमवायभाक् ।"-आप्तप० का०७२। (4) सत्तासमवायात्सत्त्वप्रसङ्गात् / (5) कर्कादावपि गौौरिति शब्दप्रयोगः गौरिति ज्ञानं वा स्यात् / (6) गोत्वस्य / (7) दुर्जेयम्, यतो हि गोत्वं गोवत् सर्वत्र अश्वादौ स्यात् तथा च तत् महासामान्यमेव स्यान्न त्ववान्तरसामान्यमिति भावः / (8) 10 258-1 (9) तुलना-'तत्र देशान्तरे वस्तुप्रादुर्भावे कथन्नु ते / दृश्यन्ते वृत्तिभाजो वा तस्मिन्निति न गम्यते // न हि तेन सहोत्पन्ना नित्यत्वान्नाप्यवस्थिताः / तत्र प्रागविभुत्वेन नचायान्त्यन्यतोऽक्रियाः॥" -तत्त्वसं का०८०६-७।। ____ 1-ह स्वतो हि आ० / 2-त्रातिदि-आ०, श्र०। 8 द्रव्यादि-ब०। 4-णाञ्चातिप्र-श्र० / 5 गोत्वप्रत्ययः श्र०। 6-ण असर्व-ब०, श्र०। 7 निःक्रियस्य ब०, आ० / 8-ज्यस्यभावः श्र० / 9-चित्कवतन-ब०