________________ नयप्र० का० 40] संग्रहनयस्य लक्षणम् न्तरजातिष्वपि योज्यम् / गोत्वादेः सर्वगतत्वे तत्प्रत्ययसाङ्कर्यम्, अन्यथा निष्क्रियस्य अर्थोत्पित्सुदेशमव्यामुवतः अनंशस्य अनेकत्र कादाचित्कवर्तनमयुक्तम् / गुणगुण्यादीनाम् अन्योन्यात्मकत्वे न किञ्चिद्विरुद्धमित्यलं प्रसङ्गेन / 'गुणानां वृत्तं चलं सत्त्वरजस्तमसां सुखदुःख (खा) ज्ञानादिकं चैतन्यं पुरुषस्य स्वरूपमचलम्' इत्येतदपि ताडगेव, तदर्थान्तरताऽसिद्धेः। अतिप्रसङ्गश्चैवं तदभेदे विरोधाभावात् / 5 गुणानां दृश्यादृश्यात्मकत्वे पुंसामेव तदात्मकत्वं युक्तं कृतं गुणकल्पनया / खतः आत्मनैवं अर्था द्रव्यादयः सन्तु विद्यमाना भवन्तु सत्तावत् सत्ता कारिकाविवरणम्- - _ . परं सामान्यं सेव तद्वत् / सत्ताग्रहणमुपलक्षणं तेन अवान्तरसामान्य - समवाय-विशेषवत् इति च द्रष्टव्यम् / कुत एतदित्याह-सत्तया इत्यादि / इदमत्र तात्पर्यम्-स्वतः सन्तोऽर्थाः सत्तासमवायात् तद्वन्तः, अन्यथाभूता 10 वा स्युः ? प्रथमपक्षे सत् सत्त्वम् आत्मा 'येषां तेषां संदात्मनामर्थानी किम् ? न किश्चित् सत्तया 'क्रियते' इत्यध्याहारः / नहि तेषां तया स्वरूपसत्त्वं क्रियते; स्वत एवास्यं संभवात्, सतश्च करणायोगात्, अन्यथा अनवस्था स्यात् / नापि सदभिधानादि; स्वरूपसत्त्वादेव अस्यापि संभवात् / अथ स्वतोऽसन्तः तत्समवायात् तद्वन्तः अत्रौह-'असद्' इत्यादि / असन् अविद्यमान आत्मा येषां तेषु नैषा 15 परपरिकल्पिता सत्ता स्यात् / कुतः ? अंतिप्रसङ्गतः खरविषाणादावपि अस्याः प्रसङ्गात् / प्रतिव्यूढञ्च प्रपञ्चतः सत्तातः सत्त्वमर्थानां षट्पदाथपरीक्षावसरे इति . . कृतमतिविस्तरेण / कारिकां व्याख्यातुमाह-'यथा' इत्यादि / यथा येन अनवस्थादिदोषभय ____ प्रकारेण सन्ति च तानि अर्थान्तराणि च सामान्यादीनि स्वतः 20 विवृतिव्याख्यानम् आत्मनैवै न सत्तासमवायात् सन्ति सत्तावन्ति तथैव तेनैव (1) "चलञ्च गुणवृत्तमिति क्षिप्रपरिणामि चित्तमुक्तम्-प्रदीपावयवानामिव बुद्धयवयवानां गुणानां वृत्तं क्रिया चञ्चला प्रतिक्षणमन्याऽन्या च भवति, न तु निर्व्यापारा गणास्तिष्ठन्ति.."-योगभा०, योगवा० 2 / 15 / “सांख्यपक्षे पुनर्वस्तु त्रिगुणं चलञ्च गुणवृत्तमिति"-योगभा० 4115 / "गुणवृत्तं चलं नित्यम् . ."-योगका० 3 / 9 / (2) "चैतन्यं पुरुषस्य स्वरूपम्"-योगभा० पृ० 37 / (3) अवान्तरसामान्यं द्रव्यत्वपृथिवीत्वादिकम् / (4) सदात्मनाम् / (5) सत्तया। (6) स्वरूपसत्वस्य / (7) सतोऽपि करणे कारणव्यापारानुपरमरूपाऽनवस्था। (8) स्वतः सतामपि पदार्थानां सत्तया सदिति शब्दप्रयोगः सदिति ज्ञानं वा क्रियेत; अत आह नापीत्यादि। (9) सदिति शब्दप्रयोगस्य सदिति प्रत्ययस्य वा। (10) सत्तासमवायात् / (11) सत्तायाः / (12) पृ० 285- / (13) "सामान्यादीनां त्रयाणां स्वात्मसत्त्वं-सम्प्रति सामान्यादीनां साधर्म्यमाह सामान्यादीनामिति / स्वात्मैव सत्त्वं स्वरूपं यत्सामान्यादीनां तदेव तेषां सत्त्वं न सत्तायोगः सत्त्वम् / एतेन सामान्यादीनां त्रयाणां सामान्यरहितत्वं साधर्म्यमुक्तमित्यर्थः / कथमेतद? बाधकसभावात् / सामान्ये सत्ता नास्ति अनिष्ट 1 येषां सदा-आ०, श्र। तदात्मना-श्रः। 3-नां न श्र० / 4-त्राहासदि असन् आ० / 5 अतिप्रसंगः श्र०। 6-व सत्ता-श्र० / 29