________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [5. नयपरि० इति प्रश्ने उत्तरमाह-गुणगुणिनाम् अवयवावयविनां क्रियाकारकाणां जातितद्वताश्च मिथः परस्परमर्थान्तरत्वे अङ्गीक्रियमाणे,किम् इत्याह-'सर्वथा' इत्यादि / सर्वेण वक्ष्यमाणप्रकारेण सर्वथा वृत्तेः गुणादीनां गुण्यादौ वर्तनस्य विरोधात् 'नैगमाभासः' इति सम्बन्धः / तद्विरोध दर्शयितुमाह-'एकम्' इत्यादि / एकम् अवयव्यादिकम् / 6 अनेकत्र देशकालाकारभिन्ने अवयवादौ वर्तमानं एकमेकं प्रति प्रत्येकं सर्वात्मना साकल्येन यदि स्याद् भवेत् वर्तमानं तदवयव्यादिकम् 'एकम्' इत्येवं न स्यात् , अपि तु यावन्तोऽवयवादयः तावन्त एव अवयव्यादयः स्युः। नहि एकस्य निरंशस्य क्रियातो भिन्नस्य परमाणुवद् युगपद् देशादिभिन्नेष्वाधारेषु वर्त्तनं युक्तम् / परस्य पक्षान्तरमाशङ्कय दूषयन्नाह-'यदि पुनः' इत्यादि / पुनरिति पक्षान्तरसूचकः, 10 एकमनेकत्र प्रत्येकं यद्येकदेशन वर्तेत तर्हि तस्य अनेकदेशाः कल्पनीयाः तेषु चास्य वृत्तिः कल्पनीया, अन्यथा कथं ते 'तस्य' इति व्यपदिश्यन्ते ? तत्कल्पने च दूषणमाह'तद्' इत्यादि / ते च ते एकदेशाश्च तेष्वपि तथैव सर्वात्मनैकदेशप्रकारेणैव प्रसङ्गात् .. दोषादनवस्था स्यात् इत्यभिप्रायः / तथाच क अवयवादौ किम् अवयव्यादि वर्तेत ? निराकृता च अवयवादौ अवयव्यादेवृत्तिः विषयपरिच्छेदे प्रपञ्चत ईत्यलमतिविस्तरेण / एवं गुणगुण्यादीनां भेदैकान्तं निराकृत्य सत्तातद्वतां से निराकर्तुमाह स्वतोऽर्थाः सन्तु सत्तावत् सत्तया किं सदात्मनाम् / असदात्मसु नैषा स्यात् सर्वथातिप्रसङ्गतः // 40 // विवृतिः-यथा सदर्थान्तराणि स्वतः सन्ति तथैव द्रव्यगुणकर्माण्येव सन्तु किं तत्र सत्तासमवायेन ? स्वतः सतां तद्वैयर्थ्यात् असतां चाऽतिप्रसंगात् / तदेवम् अवा (1) अवयविनिष्ठा क्रिया एका निरंशापि सती भिन्नदेशेषु अवयवेषु वर्तेतापि, न तु क्रियातो भिन्नोऽन्यः कश्चिन्निरंशोऽर्यः भिन्नदेशाधारेषु वर्तते इति भावः / (2) अनेकदेशेषु / (3) अनेकदेशाः / (4) अवयविनः / (5) पृ० 224 / (6) भेदैकान्तम् / (7) “योगमते भावानां स्वतः सदात्मनां सतासमवायः, असदात्मनां वेति विकल्पद्वयं मनसिकृत्य प्रथमपक्षे दूषणमाह-स्वतः स्वरूपेण अर्थाः पदार्थाः सन्तु / किंवत् ? सत्तावत्, यथा सत्तान्तराद्विनाऽपि सत्ता परसामान्यं स्वत एवास्ति तथा द्रव्यादीन्यपि स्वत एव सन्तु विद्यन्ताम् / तथा च स्वतः सदात्मनां सत्तया कि साध्यं न किमपीत्यर्थः / विनापि तया तेषां सत्त्वात्। द्वितीयविकल्पं दूषयति-सर्वथाऽसदात्मसु द्रव्यादिषु परा सत्ता न स्यात् न वर्तेत अतिप्रसङ्गात् खरविषाणादावपि सर्वथाऽसति सत्तासमवायप्रसङ्गात् ।"-लघी० ता० पृ० 59 / तुलना"सत्ताजोगादसओ सओ व सत्तं हवेज्ज दव्वस्स / असओ न खपुप्फस्स व सओ व किं सत्तया कज्जं // " -विशेषा० गा० 2694 / "स्वरूपेणासतः सत्त्वसमवाये च खाम्बुजे / स स्यात्किन्न विशेषस्याभावात्तस्य ततोऽञ्जसा // स्वरूपेण सतः सत्त्वसमवायेऽपि सर्वदा / सामान्यादी भवेत्सत्वसमवायोऽविशेषतः ॥"आप्तप० का०६९-७० / उद्धृतेयं कारिका-सूत्रकृतांग शो० पृ० 227 A. 1गणादीनां गुणादौ आ०, ब० / 2 'यदि पुनरित्यादि' इति पाठ: आदर्श लिखित्वापि निष्कासितः। 8 कथं तस्य श्र० / 4 ते च ते तदेकदे-श्र०, ब०।। इत्यलमिति-ब०। 6 निराकुर्वन्नाह-श्र०। 15