________________ विवृतिविद नयप्र० का 0 36] नैगमनयस्य लक्षणम् 623 च आत्मा / तदर्थान्तरताभिसन्धिः नैगमाभासः / कथम् ? गुणगुणिनाम् अवयवावयविनाम् क्रियाकारकाणां जातितद्वतां च मिथोऽर्थान्तरत्वे सर्वथा वृत्तिविरोधात् / एकमनेकत्र वर्तमानं प्रत्येकं सर्वात्मना यदि स्यात् तद् एकमित्येवं न स्यात् / यदि पुनः एकदेशेन वर्तत तदेकदेशेष्वपि तथैव प्रसंगात् क्व किं वर्तेत ? नैगमः नैगमनयः इष्यते / कुतः इत्याह-'अन्योन्य' इत्यादि / प्रमाण- 5 ___ तो हि द्रव्यपर्यायाणां कथञ्चिद्भेदे अभेदे च व्यवस्थिते सति अन्योन्यं कारिकाव्याख्यानम् - परस्परं गुणभूत अप्रधानभूतः भेदस्य अभेदः, तस्य च भेदः एकः प्रधानभूतो भेदस्य अभेदः तस्य च भेदः तयोः प्ररूपणात् / अर्थान्तरत्वोक्तौ भेदाभेदयोः एकान्तेन नानात्वोक्तौ सत्यां नैगमाभास इष्यते / कारिकां विवृण्वन्नाह-'स्वलक्षण' इत्यादि। स्वलक्षणं पर्यायात्मकं द्रव्यं 10 __ तदात्मकाः पर्यायाश्च, तस्य यौ भेदाभेदौ तयोर्मध्ये अन्यतरस्य - भेदस्य अभेदस्य वा प्ररूपणीयां क्रियमाणायाम् इतरः भेदप्ररूपणायाम् अभेदः तत्प्ररूपणायां वा भेदः गुणः स्यात् इति एवंविधो नैगमो नयः। अत्रार्थे सुस्पष्टप्रतीत्यर्थं 'यथा' इत्यायुदाहरणमाह-यथा येन अनादिनिधनचैतन्यप्रकारेण जीवस्य यत् स्वरूपं गुणपर्यायव्यापकत्वं तस्य निरूपणायां क्रियमाणायां 15 गुणा अप्रधानभूताः, के ? सुखदुःखादयः / ननु 'सुखादयः' इत्येवास्तु किं दुःखग्रहणेन ? इति चेत्, न; अन्योन्यं जीवाच्च भेदप्रतिपत्त्यर्थत्वात् तदुभयग्रहणस्य / तत्प्ररूपणायाश्च सुखदुःखादिप्ररूपणायाञ्च आत्मा जीवस्वभावो 'गुणः' इति सम्बन्धः / नन्वेवं व्याख्यानं कस्मान्न भवति-जीवस्वरूपस्य जीवसत्ताया निरूपणायां गुणाः सुखदुःखादयः, तेषां सत्तैव गुण इति, तत्प्ररूपणायाश्च सुखादिसत्ताप्ररूपणायाश्च 20 आत्मा जीवो गुणः इति चेत् ? संग्रहऋजुसूत्राभ्यामस्य भेदाभांवप्रसङ्गादिति ब्रूमः / जीवसुखादीनामन्योन्यमत्यन्तभेदप्ररूपणायां तु तदाभास इत्याह-'तत्' इत्यादि। तेषां जीवसुखादीनां प्रक्रमाद् एकान्तेन अर्थान्तरताभिसन्धिः नैगमाभासः / 'कथम्' . (1) तुलना-"वृत्तिश्च कृत्स्नाशविकल्पतो न ।"-युक्त्यनुशा० श्लो०५५। “एकस्यानेकवृत्तिर्न भागाभावाद्वहनि वा। भागित्वाद्वास्य नैकत्वं दोषो वृत्तेरनार्हते ॥"-आप्तमी० का०६२। अष्टश०, अष्टसह० पृ० 214 / तस्य तेषु सर्वात्मनाऽन्यथा वा वृत्त्ययोगो बाधकं प्रमाणम् . ।"-वादन्यायटी० 10 30 / "यद्वा सर्वात्मना वृत्तावनेकत्वं प्रसज्यते। एकदेशेन चानिष्टा नैको वा न क्वचिच्च सः // " -तत्त्वम० पृ० 203 / “यदि सर्वेषु कायोऽयमेकदेशेन वर्तते / अंशा अंशेषु वर्त्तन्ते स च कुत्र स्वयं स्थितः // सर्वात्मना चेत् सर्वत्र स्थितः कायः करादिषु / कायास्तावन्त एव स्थर्यावन्तस्ते करादयः // " बोषिचर्याव० पृ० 495 / (2) अभेदस्य। (3) अभेदस्य (4) अभेदनिरूपणे। (5) अप्रधानभूतः / (6) सुखदुःखोभय। (7) नैगमस्य / (8) सत्ताप्राधान्यपक्षे संग्रहेऽन्तर्भावप्रसङ्गः, सुखादिपर्यायप्राधान्ये तु ऋजुसूत्रेऽन्तर्भावप्रसङ्ग इति / 1-यव्यवयवक्रि-ई० वि०। 2-भूतो भेदस्य आ० / 3-णायामितरः आ०। 4 जीवस्य स्वभावो ब०, श्र०।। जीवतो गुण श्र०। 6-रूपणात्तदा-श्र०, ब०।7-षां जीवानां प्र-आ० /