________________ 33 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [5. नयपरि० भवत्वेवम् ; तथापि भेदेभ्यो भिन्नं सत्त्वम् इत्यत्राह-यद् यदेत्यादि / यद् द्रव्यादि यदात्मकं यत् सत्त्वमात्मा यस्य तद् यदात्मकम् तद् द्रव्यादि तैदेव भवति सद्रूपमेव भवति, यथा स्वनिर्भासभेदात्मकं संशयेतरविपर्यासेतरविशेषात्मकं ज्ञानं संशयादि रूपमेव भवति / यत एवं तस्मात् सदात्मनो भेदाः सन्मात्रमेव नान्यत् भावाद्भिन्नं 5 प्रागभावादि इति एवं संग्रहः / कुतः स इत्याह-तत्प्राधान्यात् , सन्मात्रप्राधान्यात् नतु न पुनः भेदप्रतिक्षेपात् / कुत एतदित्याह-स्वपर्यायभेदानपेक्षया, यतः तत्प्रतिरूपकत्वं संग्रहाभासत्वम् / किंवदित्याह-ब्रह्मवादवत् इति / अधुना नैगमतदाभासप्ररूपणार्थमाह अन्योन्यगुणभूतैकभेदाभेदप्ररूपणात् / 10 नैगमोऽर्थान्तर्रत्वोक्तो नैर्गमाभास इष्यते // 39 // विवृतिः-स्खलक्षणभेदाभेदयोः अन्यतरस्य प्ररूपणायाम् इतरो गुणः स्यात् इति नैगमः। यथा जीवस्वरूपनिरूपणायां गुणाः सुखदुःखादयः, तत्प्ररूपणायां (1) "इष्यते मन्यते स्याद्वादिभिः / क: ? नैगमः, निगमो मुख्यगौणकल्पना, तत्र भवो नैगम इति / कूतः ? अन्योन्येत्यादि / गुणभावः अप्रधानभूतः एकश्च प्रधानभूतः, अन्योन्यं परस्परं गुणभूतको तौ च तौ भेदाभेदौ च तयोः प्ररूपणात् ग्रहणात् / तथाहि गुणगुणिनामवयवावयविनां क्रियाकारकाणां जातितद्वताञ्च कथञ्चिद् भेदं गुणीकृत्य अभेदं प्ररूपयति, अभेदं वा गुणीकृत्य भेदं प्ररूपयति / नैगमनयस्यैवंविधत्वात् ,प्रमाणे भेदाभेदयोरनेकान्तग्रहणात् / ननु गुणगुण्यादीनामत्यन्तभेद एवेति चेदत्राह-अर्थत्यादि। अर्थान्तरत्वं गुणगुण्यादीनामत्यन्तभेदः / तस्योक्तौ प्ररूपणायां नैगमाभास इष्यते तस्य प्रमाणबाधितत्वात् ।"-लघी० ता० पृ० 57 / तुलना-"णेगेहि माणेहिं मिणइत्ति णेगमस्स य निरुत्ती / सेसाणंपि नयाणं लक्खणमिणमो सुणह वोच्छं।"-अनुयोगद्वार० 4 द्वा० / आव०नि० गा० 775 / विशेषा० गा० 2682 / “निगमेषु येऽभिहिताः शब्दास्तेषामर्थः शब्दार्थपरिज्ञानं च देशसमग्राही नैगमः / 'आह च -नगमशब्दार्थानामेकानेकार्थनयगमापेक्षः / देशसमग्रमाही व्यवहारी नगमो ज्ञेयः ।"-तत्त्वार्थाधि० भा० 1135 / तत्वार्थहरि०, तत्त्वार्थसिद्ध०१।३५ / "अभिनिर्वृत्तार्थसंकल्पमात्रग्राही नैगमः।"-सर्वार्थसि० 1133 / राजवा० 1133 / “यदस्ति न तद् द्वयमतिलङध्य वर्तते इति नैकं गमो नयः संग्रहासंग्रहस्वरूपद्रव्याथिको नैगम इति यावत् ।"-पवलाटी० पृ० 84 / जयध० अ०१० 27 / "तंत्र संकल्पमात्रस्य ग्राहको नैगमो नयः / यद्वा नैकं गमो योऽत्र स सतां नैगमो मतः। धर्मयोः धर्मिणोः वापि विवक्षा धर्मधमिणोः / पर्यायनंगमादिभेदेन नवविधो नैगमः ।"-तत्त्वार्थश्लो०.१०२६९। नयविव०३३,३७। प्रमेयक० पृ०६७६। सन्मति० टी० पू० 310 / नयचक्र गा० 33 / तत्त्वार्थसार पृ० 107 / "नैकर्मानः महासतासामान्यविशेषविशेषविज्ञानः मिमीते मिनोति वा नैकमः / निगमेषु वा अर्थबोधेषु कुशलो भवो वा नैगमः / अथवा नके गमाः पन्थानो यस्य स नैकगमः ।"-स्थानाङ्गसू० टी० पृ० 371 / "धर्मयोः धर्मिणोः धर्मधर्मिणोश्च प्रधानोपसर्जनभावेन यद्विवक्षणं स नैकगमो नैगमः"-प्रमाणनय० 77 / स्या० मं पु० 311 / जनतर्कभा०५० 21 / (2) तुलना-"जं सामन्नविसेसे परोप्परं वत्थुओ य सो भिन्नो। मन्नइ अच्चन्तमओ मिच्छद्दिट्ठी कणादोव्व ॥"-विशेषा० गा० 2690 / “तयोरत्यन्तभेदोक्तिरन्योन्यं वाश्रयादपि / ज्ञेयो व्यंजनपर्यायनगमाभो विशेषतः ॥"-तत्त्वार्थश्लो०१० 270 / नयविव०६३ / प्रमेयक० पृ०६७७। न्यायावता० 1082 // प्रमाणनय०७.११॥ जैनतर्कभा०प० 24 / 1-कं द्रव्या-आ० / 2 तदेवमेव श्र०। 3 एव आ० / 4 सवात्मानो आ०, ब० / 5-स्तरतोक्तो ज० वि०,-न्तरत्वोक्तो आ० /