________________ नयप्र० का 0 38] संग्रहनयस्य लक्षणम् इत्येतन्निरस्तम् ; दध्यादेः उष्ट्रादिस्वरूपभूतपर्यायत्वासंभवात् / कुतस्तत् तान् व्याप्नोतीति चेदत्राह-'स्वयम्' इत्यादि / स्वयं स्वरूपेण अभेदकत्वात्तेषाम् / इतिशब्दः द्रव्यसिद्धिप्रघट्टकपरिसमाप्तौ / तदेवं सिद्धे परापरद्रव्ये परापरसंग्रहः प्रवर्त्तते / तत्र परसंग्रहं प्रदर्शयितुमाह संग्रहः सर्वभेदैक्यमभिप्रैति सदात्मना / ब्रह्मवादस्तदाभासः स्वार्थभेदनिराकृतेः // 38 // विवृतिः-नहि कश्चिदसदात्मा भेदोऽस्ति विरोधात् / यद् यदात्मकं तत् तदेव, यथा. स्वनिर्भासभेदात्मकं ज्ञानम् , तस्मात् सदात्मनो भेदाः सन्मात्रमेव नान्यदिति संग्रहः / तत्प्राधान्यात् न तु भेदप्रतिक्षेपात् / स्वपर्यायभेदानपेक्षया तत्प्रतिरूपकत्वं ब्रह्मवादवत् / संग्रहः संग्रहनयः सर्वेषां भेदानां जीवादिविशेषाणाम् ऐक्यमभिप्रैति केन रूपेण ? इत्याह-सदात्मना। ब्रह्मवादेऽपि सदात्मना तेषां कारिकाव्याख्यानम् पा संग्रहः संभवति इति सोऽपि संग्रहनयः स्यादित्याशकापनोदार्थमाहब्रह्मवादस्तदाभास इति / कुत एतत् ? इत्याह-'स्वार्थ' इत्यादि / स्वार्थः सन्मानं तस्य भेदो जीवादिः तस्य निराकृतेः असौ तदाभासः संग्रहाभासः, 15 तन्निराकृतौ सन्मात्रस्यापि निराकृतिसिद्धेः / न खलु निराश्रयं सामान्यं नाम अश्वविषाणादेरपि तत्त्वप्रसङ्गात् / . व्यतिरेकद्वारेण कारिकां विवृण्वन्नाह-'नहि' इत्यादि / हिर्यस्मात् न कश्चित् विवृतिविवरणम् चेतनः इतरो वा भेदो विशेषः असदात्मा अस्ति, कुत एतत् इत्याह विरोधात् / असदात्मनोऽस्तित्वविरोधश्च प्रागेव समर्थितः / ननु- 20 (1) तुलना-"सुगतोऽपि मृगो जातः मृगोऽपि सुगतः स्मृतः / तथापि सुगतो वन्द्यो मृगः खाद्यो यथेष्यते // तथा वस्तूबलादेव भेदाभेदव्यवस्थितेः / चोदितोदधि खादेति किमष्टमभिधावति // " -न्यायवि० का० 373-74 / अनेकान्तजय० पृ० 281 / “न ह्यस्माभिर्दध्युष्टयोरेकं तिर्यकसामान्य वस्तुत्वादिकं व्यक्त्यभेदेन व्यवस्थितं तथाभूतप्रतिभासाभावादभ्युपगम्यते / यादग्भूतं तु प्रतिव्यक्ति भिन्नं 'समानाः' इति प्रत्ययविषयभूतमभ्युपगम्यते तथाभूतस्य तस्य शब्देनाभिधाने किमित्यन्यत्र प्रेरितोऽन्यत्र खादनाय धावेत् यद्युन्मत्तो न स्यात् ।"-सन्मति० टी० पृ० 242 / (2) पर्यायाणाम् / (3) तुलना-"निराकृतविशेषस्तु सत्ताद्वैतपरायणः / तदाभासः समाख्यातः सद्भिर्दष्टेष्टबाधनात् ॥".तस्वार्थश्लो०१० 270 A. | नयविव० श्लो०६८। प्रमेयक० पृ०६७७ / न्यायावता०टी०५०८५ / प्रमाणनय०७.१५, 21 / जैनतर्कभा० 1024 / (4) "स्वस्य ब्रह्मवादस्य अर्थो विषयः सन्मानं तस्य भेदा जीवादिविशेषाः तेषां निराकृतेः प्रतिषेधात् / न खलु सर्वथा सत्त्वे भेदानामवकाशोऽस्ति / भेदरहितं च तत्कथं सामान्यं नाम निराश्रयत्वात् अर्थक्रियाविरहाच्च।"-लघी० ता०प०५८ / (5) सत्त्वप्राधान्यात् / (6) संग्रहाभासत्वम् / (7) सामान्यत्वप्रसङ्गात् / 1 तस्मात्तदात्मानो ई० वि०।