________________ 620 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [5. नयपरि० [प्रमाणवा० 1 / 45] इत्यादि / यथा चैकं ज्ञानं क्षणिकं भिन्नदेशार्थान् नानादेशनीलाद्याकारान् व्यामोति तदात्मकं भवति / वाशब्दः पक्षान्तरसूचकः, सकृद् एकदा तथा एकमात्मतत्त्वं भिन्नकालार्थान् सुखादीन् व्याप्नोति चाक्रमात् / ___ कारिकां विवृण्वन्नाह-'यथा' इत्यादि / यथा येन प्रकारेण स्वलक्षणम् , कथम्भूतम् ? क्षणिकम्, करोति कार्याणि / कथम्भूतानि ? नानाविवृतिविवरण पण दिग्देशभावीनि, दिग्ग्रहणमुपलक्षणं तेन नानाकालभावीन्यपि गृह्यन्ते / कथं करोति ? स्थानसङ्करव्यतिकरव्यतिरेकेण / कुत एतदित्याह-तत्करणैकस्वभावत्वात् / तदेव समर्थयते 'नहि' इत्यादिना / हिर्यस्मात् न सामग्रीभेदात् कार्य- . भेदेऽपि कारणस्वभावभेदः, तथा एकमक्षणिकं कारणं यद् यदा उत्पित्सु कार्य तत् 10 तदैव करोति / कुत एतदित्याह-तत्करणैकस्वभावत्वात् / ननु क्रमभावीन्यनेक कार्याणि कुर्वत् कथं तदेकम् तावद्धा भेदप्रसङ्गात् ? इति चेदत्राह-'सर्वदा' इत्यादि / सर्वदा सर्वकालं कार्यकालानतिक्रमण करणसामर्थ्यात् कारणात् तदात्मकं तत्करण-. . सामर्थ्यात्मकम् एकमेवेत्यविरुद्धम् / अस्यैव समर्थनार्थमाह-'यथा' इत्यादि। यथा सौगतस्य विज्ञानं स्वनि सभेदान् आत्मनीलाद्याकारविशेषान् नैयायिकस्य गुणी 15 गुणान् , अवयवी अवयवान् व्यामोति कथश्चित्तदात्मको भवति / कदा ? सकृदपि, न केवलमसकृत् / ननु ज्ञानतन्निर्भासयोः गुणगुणिनोः अवयवावयविनोश्च अत्यन्तभेदान्न युक्तमेतदित्यत्राह-तदात्मकत्वात् , ज्ञानादेः स्वनि सभेद-गुण-अवयवात्मकत्वात् / अन्यथा घटपटवत् तज्ज्ञानवच्च गुणगुण्यादिभावः चित्रज्ञानरूपता च न स्यादित्युक्त विस्तरतः प्रागेव / तथैव द्रव्यं जीवादि स्वपर्यायभेदान् व्यामोति / स्वग्रहणात् सर्वस्योभयरूपत्वे तद्विशेषनिराकृतेः / चोदितो दधि खादेति किमुष्ट्रं नाभिधावति ? // " [ प्रमाणवा० 3 / 181 ] (2) प्रतिनियतदेशस्थमेव / (2) चित्रज्ञानम् / (3) आदिपदेन गुणी अवयवी च ग्राह्यौ। (4) घटपटज्ञानवत् / (5) व्याख्या-"सर्वस्योभयरूपत्वम्-उभयग्रहणमनेकत्वोपलक्षणार्थम तस्मिन सति, तद्विशेषस्य 'उष्ट उष्ट्र एव न दधि, दधि दध्येव नोष्ट्रः' इत्येवं लक्षणस्य निराकृतेः, 'दधि खाद' इति चोदितः पुरुषः किमुष्ट खादितुं नाभिधावति ? उष्ट्रोऽपि दध्यभिन्नात् द्रव्यत्वादव्यतिरेकात स्याधि, नापि स एवेति 'उष्ट उष्ट एव' इत्येकान्तवादः, येनान्योऽपि दध्यादिकः (तः) स्यादुष्टः / तथा दध्यपि स्यादुष्ट: उष्ट्राभिन्नेन द्रव्यत्वेन दध्नस्तादात्म्येनाभिसम्बन्धात् / नापि तदेवेति दध्येव दधि, येनान्यदपि उष्ट्रादिकं (तः) स्याद्दधि / एतेन सर्वस्योभयरूपत्वं व्याख्यातम् ।"-प्रमाणवा० स्वव० टी० 12183 / मनोरथ०१११८३ / उद्धृतोऽयम्-अनेकान्तजय० पृ० 18 / 'नोदितो..' -अनेका०प्र० पृ० 7 / अष्टसह० पृ० 92 / सन्मति० टी० पु० 242 / न्यायवि० वि०१० 92 A. I'. निराकृतः / प्रेरितो दधि...'-स्या० 20 पृ० 837 / 1 ज्ञानक्षणिकं आ० / 2-संकरव्यतिरेकेण श्र०। 3 तावद्वा आ०। 4 कार्यकार-आ० / 6-स्मकमेवेत्य-आ०, ब०।