________________ 118 ___ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [5. नयपरि० 'कार्यकारणतां लक्षयेत्' इति सम्बन्धः / कारणवत् कार्यस्याप्यसत्त्वाऽसंभवात् अतः सांख्यमतप्रसङ्गः सौगतस्य इत्यभिप्रायः / ननु मा भूत् क्षणिके प्रत्यक्षानुपलम्भसाधनः कार्यकारणभाषः, कार्यव्यतिरेकसाधनस्तु इन्द्रियशक्तिवत्स्यात् , इत्यत्राह-'स्वलक्षणस्य' इत्यादि / स्खलक्षणस्य परपरिकल्पितपरमाणुलक्षणस्य क्वचिद् अन्तर्बहिर्वा प्रत्यक्षा6 नुपलम्भासिद्धेः, प्रत्यक्षपूर्वकोऽनुपलम्भः प्रत्यक्षानुपलम्भः तस्य असिद्धेः कारणात् कुतः कार्यस्य व्यतिरे केणोपलक्षणं कारणशक्तेः ? न कुतश्चित् / एतदुक्तं भवति–यदा तस्य तद्रूपं कार्य कुतश्चित् प्रत्यक्षं सत् पुनः इतरकारणसद्भावेऽपि नोपलभ्यते तदा युक्तं तेनोपैलक्षणं तेच्छक्तेः, न चैवमस्तीति / नर्नु यदुक्तम्-'बहिरिव ज्ञानपरमाणुसञ्चय' इत्यादि, 'नहि कार्योत्पत्तिः' इत्यादि च; तैदयुक्तम्; यथाप्रतिभासं चित्रैकज्ञानोपगमात् / “चित्रप्रतिभासाप्येकैव बुद्धिः" [प्रमाणवातिकालं० लि. पृ० 395 / ] इत्यादिवचनात् / तथा कार्यस्य देशवत् कालेऽपि असत एव कारणादेव उदयोपगमात् कथमन्यथा जाग्रद्विज्ञानात् प्रबोधः भाविमरणादेर्वा. अरिष्टादिकम् इत्याशक्य आह यथैकं भिन्नदेशार्थान् कुर्याद् व्यामोति वा सकृत् / तथैकं भिन्नकालार्थान् कुर्याद् व्यामोति वा क्रमात् // 37 // (1) कार्यव्यतिरेकेण कारणव्यतिरेको ज्ञायते, क्षणिके च न कार्यव्यतिरेकः अत: क्षणिकेऽर्थे कार्यकारणभाव: साधनीयः, यथा हि-रूपज्ञानोत्पत्त्यभावेन रूपज्ञानजननशक्त्यभावः व्याप्तः, चक्षुषि , अविकले सति न रूपज्ञानोत्पत्त्यभावः अतस्तत्र रूपज्ञानजननशक्तिः व्यवस्थाप्यते / नहि चक्षषि रूपज्ञानजननशक्तिव्यवस्थापने प्रत्यक्षानुपलम्भौ प्रभवतः, शक्तेरतीन्द्रियत्वात् प्रत्यक्षानुपलम्भाऽगोचरत्वात् / तथैव क्षणिकेऽर्थे प्रत्यक्षानुपलम्भसाधनः कार्यकारणभावो मासेत्स्यत् कार्यव्यतिरेकेणानमीयमानस्तु सिद्धयत्येव इत्यभिप्रायः / (2) क्षणिकस्य / (3) कार्यव्यतिरेकेण / (4) अनुमानम् / (5) कार्योत्पादनशक्तेः / (६)प्रज्ञाकरगुप्तः / (7) प० 613, 616 / (८):"चित्रप्रतिभासापि बुद्धिरेकैव बाह्यचित्रविलक्षणत्वात् / शक्यविवेचनं चित्रमनेकम्, अशक्यविवेचनाश्च बुद्धेर्नीलादयः ।"-प्रमाणवातिकालं० पृ० 395 / उद्धृतमिदम्-प्रमेयक० पृ०९५ / न्यायकुमु० पृ० 130 / सन्मति० टी० पृ० 241 // न्यायवि० वि० 10101 A. / 'प्रज्ञाकरगुप्तेनाप्युक्तम्-चित्रप्रतिभासा'-सिद्धवि० टी० पृ०५५ A. / (9) यथाहि कार्यस्य देशेऽविद्यमानमपि कारणं कार्योत्पादकम्, तथा कार्यकालेऽविद्यमानमपि कार्योत्पादकं भवतु / (१०)यदि कार्यकाले विद्यमानादपि कारणात् कार्योत्पत्तिः न स्वीक्रियते तदा / (11) प्रज्ञा करगुप्तो हि प्रमाणवार्तिकालङ्कारकारः, स च भाविनं भूतञ्चार्थ कारणमाचक्षते; तथाहि"अविद्यमानस्य करणमिति कोऽर्थः ? तदनन्तरभाविनी तस्य सत्ता, तदेतदानन्तर्यमुभयापेक्षयापि समानम् / यथैव भूतापेक्षया तथा भाव्यपेक्षयापि। न चानन्तर्यमेव निबन्धनम् ; व्यवहितस्यापि कारणत्वात् / गाढसुप्तस्य विज्ञान प्रबोधे पूर्ववेदनात् / जायते व्यवधानेन कालेनेति विनिश्चितम् / / तस्मादन्वयतिरेकानुविधायित्वं निबन्धनम् / कार्यकारणभावस्य तद् भाविन्यपि विद्यते // मृत्यन भविष्यन्न भवेदेवम्भूतमरिष्टमिति ।"-प्रमाणवातिकालं० 10 176 / (12) "यथा येनाविरोध 1-धनवस्तु श्र०।-त्राह स्वलक्षणस्य पर-आ०। -रेकोणोप-आ०1 4 तदुक्तम् आ०। 5 प्रबोधोदयो भा-ब०। 6 तथैवं आ० /