________________ नयप्र० का० 36] संग्रहनयस्य लक्षणम् 617 यानम् कार्यस्य उत्पत्तिः आत्मलाभः विरुद्धा चेत् यदि खयम् आत्मना, कया ? कारणसत्तया / एतदुक्तं भवति-यदि कारणसंत्तया कारिकाव्याख्यानम् या कार्योत्पत्तिर्विरुध्यते तदा युक्तमेतत् पूर्वमेव तद्भावे तद्भाव इति / तथा चेदत्र दूषणमाह-'युज्येत' इत्यादि / युज्येत उपपद्येत अर्थक्रियाऽसंभवसाधनम् / क ? अर्थे / कथम्भूते ? क्षणिके 'विनष्टे कारणे तदैसंभवात्' इति / मन्यते / यदि वा, तया तदुत्पत्तिविरुद्धा यदि तदा युज्येत अर्थे क्षणिके अर्थक्रियाऽसंभवसाधनम्, न च तयाँ सा विरुद्धति प्रतिपादयिष्यते / व्यतिरेकमुखेन कारिकां विवृण्वन्नाह-'नहि' इत्यादि / हिर्यस्मात् न कार्यस्य र उत्पत्तिः कारणस्य अभावं प्रतीक्षते यावत् कारणं निर्मूलन्न नश्यति विवृतिव्याख - तावत् स्वयं नोपपद्यते इति / यतः तदपेक्षणात् तदर्थाकया क्रमयौ- 10 गपद्यार्थक्रिया अक्षणिकत्वे अपि विरुध्येत / 'यतः' इति च आक्षेपे, नैव विरुध्यते / कुत एतदित्याह-'निष्कारणस्य' इत्यादि / इदमत्र तात्पर्यम्-विनष्टे कारणे यदा कार्य जायते तदा तन्निष्कारणं भवति, तस्य च अन्यस्य देशादेः अनपेक्षा अपेक्षाऽभावः तया देशकालस्वभावनियमायोगात् सर्वत्र सर्वदा सर्वथैव भावानुषङ्गात् कारणात् 'नहि तदभावं सा प्रतीक्षते' इति सम्बन्धः / तथा तस्यास्तदंपेक्षणे दूषणान्तर- 15 माह-'तदयम्' इत्यादि / तत् तस्मात् तदपेक्षणात् अयं सौगतः कार्यस्य यो भावः आत्मलाभः यश्च कारणस्य अभावः तयोः यथासंख्येन कार्यकारणतां लक्षयेत / 'यद्धि कार्यम् आत्मलाभे अपेक्षते तत् कारणम्, अपेक्ष्यते च तेने तल्लाभे तदभावः इति मन्यते / इदमपरं व्याख्यानम्-यदा कारणान्न कार्य किन्तु कारणात् तदभावः ततश्च 20 कार्य तत्राह-'तत्' इत्यादि / तत् तस्मान्यायात् अयं भावाभावयोः कारणतन्निवृत्त्योः कार्यकारणतां भावस्य कारणताम् अभावस्य कार्यतां लक्षयेत् / कार्यशब्दस्य परप्रयोगप्रसङ्गेऽपि अल्पान्तरत्वात् पूर्वनिपातः। अथ मतम्-न अभावः प्रख्योपाख्याविहीनत्वात् कस्यचित् कारणं कार्यश्च, इत्यत्राह-सर्वथा भावस्यैव वा सत एव वा (1) कारणसद्भावे / (2) कार्यसद्भावः / (3) अर्थक्रियाऽभावात् / (4) कार्योत्पत्तिकाले उपादानकारणसत्तया। (5) कार्योत्पत्तेः / (6) कारणाभावापेक्षणे / (7) कर्म। (8) कर्तृ / (9) कार्येण। (10) आत्मलाभे। (11) कारणाभावः। (12) कार्येण आत्मलाभे अपेक्ष्यमाणत्वात् कारणाभाव एव कारणं स्यादिति भावः / (13) कारणाभावः (14) "अल्पान्तरम्"-जैनेन्द्र. व्या० १।३।१००।-'द्वन्द्वे से (समासे) अल्पान्तरमेकं पूर्व प्रयुज्यते।"-शब्दार्णव०१२३३११४। (15) 'प्रख्यायते इति प्रख्या विकल्पः, उपाख्यायते इति उपाख्या श्रुतिः ताभ्यां विकल्पशब्दाभ्यां रहित्वात् / 1-सत्ताया श्र० 12-यिष्यति आ० / -कत्वे विरुद्धचते आ०। 4 अन्यदेशादेः ब०, श्र० / यदि का-श्र० / 6 अल्पान्तरत्वात आ०, अल्पस्वरत्वात ब०। 7एव वार्य-आ० / 28