________________ 10 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [5. नयपरि० साम्प्रतं तेषां तत्साधनं तद्भावमभ्युपगम्य तत्र दूषणमाह-'यस्मिन्' इत्यादि / यस्मिन् वस्तुनि सत्येव विद्यमान एव यद्भावो यस्य वस्तुनः भाव आत्मलाभः तद्वस्तु तस्य पूर्वस्य कार्यम् / 'यस्मिन् सत्येव' इत्यनेन यन्निर्दिष्टम् तद्, इतरत् कारणम् इति एवं लक्षणं कार्यकारणयोः क्षणभङ्गे न संभवत्येव / कुत एतत् ? इत्यत्राह। 'कार्य' इत्यादि। अत्रायमभिप्राय:-कारणसत्ताकाल एव कार्यस्य भावे 'यस्मिन् सत्येव' इति घटते, परन्तु कार्यकारणयोः सहभावापत्तेः सन्तानोच्छेदः स्यादिति / ननु स्यादयं दोषः यदि यदैव कारणमुत्पद्यते तदैव स्वकार्य कुर्यात, यावता पूर्वमुत्पद्य पुनः कार्यकाले सत् कार्यमुत्पादयति; इत्यत्राह- 'अन्यथा' इत्यादि / उक्तप्रकारादन्येन प्रकारेण क्षणभङ्गभङ्गप्रसङ्गात् / क्षणभङ्गे कार्यकारणयोः 'लक्षणं न संभवत्येवं' इति सम्बन्धः। ननु 'यस्मिन्' इति सप्तमी कारणभावे कार्यभावं सूचयति, स च पूर्वमेव स्वसत्ताक्षणे कारणे सति उत्तरक्षणे कार्यभावो न विरुध्यते, यथा गोषु दुह्यमानासु गतः दुग्धासु आगतः इति / समसमयभावित्वे चानयोः कार्यकारणभावविरोधात् सव्येतर- . गोविषाणवत् इत्यारेकापनोदार्थमाह कार्योत्पत्तिविरुद्धा चेत् स्वयं कारणसत्तया। युज्येत क्षणिकेऽर्थेऽर्थक्रियाऽसंभवसाधनम् // 36 // विवृतिः-नहि कार्योत्पत्तिः कारणस्याभावं प्रतीक्षते यतः तदर्थक्रिया अक्षणिके विरुद्ध्येत / निष्कारणस्य अन्यानपेक्षया देशकालस्वभावनियमायोगात् सर्वत्र सर्वदा सर्वथैव भावानुषङ्गात् / तदयं भावाऽभावयोः कार्यकारणतां लक्षयेत् सर्वथा भावस्यैव वा / स्वलक्षणस्य क्वचित् प्रत्यक्षानुपलम्भासिद्धेः कुतः कार्यव्य20 तिरेकोपलक्षणं कारणशक्तेः ? (1) क्षणिकानाम् / (2) प्रत्यक्षानुपलम्भसाधनम्। (3) कार्यकारणभावम्। (4) तुलना"क्षणस्थायि कारणं स्वसत्तायां कार्यं कुर्वदभ्युपगच्छन् क्रमोत्पत्तिमुपरुणद्धि सकलजगदेकक्षणवृत्तित्वप्रसजात"-अष्टश०अष्टसह०पू०९१। 'सत्येव कारणे यदि कार्यं त्रैलोक्यमेकक्षणवति स्यात्, कारणक्षणकाल एव सर्वस्य उत्तरोत्तरक्षणसन्तानस्य भावात् ततः सन्तानाभावात्"-अष्टश०अष्टसह०प०१८७। (5) न हि गोदोहनकाल: गमनकालश्चैकः संभवति। (6) कारणकार्ययोः / (7) चेद् यदि विरुद्धा विप्रतिषिद्धा स्यात, का? कार्योत्पत्तिः, कार्यस्योत्तरपरिणामस्योत्पत्तिः स्वरूपलाभः / कया ? स्वयं कारणसत्तया. स्वयं कारणं विवक्षितकार्यजनक द्रव्यस्वरूपमुपादानं तस्य सत्तया भावेन / तर्हि युज्येत. यक्तं स्यात / किम् ? अर्थक्रियासंभवसाधनम्, अर्थस्य अभिमतप्रयोजनस्य क्रिया निष्पत्तिः तत्संभवसाधनम् नित्ये क्रमयोगपद्यविरहादित्यनुमानम् / क्व? अर्थे / किविशिष्टे ? क्षणिके निरन्वयक्षणनश्वरे। इदमतिपत्तिवचनम / न च सा विरुद्धा कार्यकाले सत एव कारणत्वात. अन्यथा कार्यस्य आकस्मिकत्वप्रसङ्गात्""-लघी० ता० पृ० 56 / तुलना-"कार्योत्पत्तिविरुध्येत न वै कारणसत्तया / यस्मिन सत्येव यद्भावः तत्तस्य कार्यमितरत्कारणमिति क्षणिकत्वे न संभवत्येव सहोत्पत्तिप्रसङ्गात् कुतः सन्तानवृत्तिः ।"-सिद्धिवि०पृ० 160,326 / 1 सदभावो आ012 इत्येवलक्षणं आ01 3 संभावनोच्छेद: ब014-णलक्षण-श्र०1-5-त्येनेति आ०। 6 स्वतो सत्ता-श्र०। 7-क्षणकार्य-आ018 कार्यस्योत्प-ई०वि०। कारणसिद्धेः ई०वि०।