________________ नयप्र० का० 35 ] संग्रहनयस्य लक्षणम् कार्योत्पत्तिकालेऽपि सति कारणे कार्यभावश्चेत् कार्यकारणयोः यल्लक्षणं स्वरूपं ग्रहणं वा अत्र प्रमाणभावात् 'घटते' इत्यध्याहारः, किन्तु क्षणभङ्गाय दत्तो जलाञ्जलिः' स्यात् / यस्त्वाह-'नार्थकिया अर्थलक्षणं विचारतस्तदयोगात् / सा हि सती, असती वा तल्लक्षणम् ? न तावदसती; खरविषाणवत् तथाविधायास्तस्याः तल्लक्षणत्वायोगात् / अथ सती; किं स्वतः, परतो वा ? यदि स्वतः; अर्थेन किमपराद्धं येनास्यं 5 स्वतः सत्त्वं नेष्येते ? अथ परत:; तदा अनवस्था' इति / / तं 'सह' इत्यादिना नित्यवादिना समानं व्यववस्थाप्य 'यस्मिन्' इत्यादिना . कारिकार्थं प्रकटयति-सह युगपत् क्रमेण वा परिपाट्या वा अर्थविवृतिविवरणम् क्रिया अक्षणिकस्य नित्यस्य सम्बन्धिनी या तां निराचिकीर्षुः सौगतः कथञ्चित् योगपद्यप्रकारेण क्रमप्रकारेण वा प्रत्यक्षानुमानप्रकारेण वा क्षणि- 10 केऽर्थे अर्थक्रियां साधयेत् , अन्यथा तदसाधनप्रकारेण तल्लक्षणम् अर्थक्रियालक्षणं सत्त्वं ततः क्षणिकात् नित्यादिव व्यावर्तेत / साध्यत एव तत्रं सा इति चेत् ; अत्राह'नच' इत्यादि / नच नैव भावानां कार्यकारणभावः सिद्ध्येत् / कथम्भूतानाम् ? क्षणिकानाम् / पुनरपि कथम्भूतानाम् ? अनिश्चयात्मनाम् न विद्यते निश्चयो निर्णयो यस्य स तथाविध आत्मा स्वभावो येषाम् / तद्भावः कथम्भूतः इत्याह-'प्रत्यक्ष' 15 इत्यादि / प्रत्यक्षानुपलम्भौ साधनं यस्य, प्रत्यक्षानुपलम्भसाधनत्वादेव च अनिश्चयात्मनां "तेषां तद्भावोन युक्तः / अत्र परप्रसिद्धं निदर्शनमाह-'विप्रकृष्ट' इत्यादि / पूर्वोत्तरकोटिविच्छिन्नादर्थाद् अन्यः त्रिकालानुयायी अर्थः तदन्तरम् तस्य च ग्रहणोपायाभावाद् विप्रकृष्टत्वम् , विप्रकृष्टश्च तद् अर्थान्तरञ्च तस्येव तद्वत् / एतदुक्तं भवतियथैकस्य कालत्रयानुयायिनः कुतश्चित्प्रतिपत्तुमशक्तेः न तंत्र प्रत्यक्षानुपलम्भसाधन: 20 कार्यकारणभावः सिद्धयति तथा प्रतिपरमाणुनियतेन ज्ञानेन क्षणिकभावानामप्रतिपत्तेः न तत्साधनस्तद्भावः सिद्ध्येत् / (1) कार्योत्पत्तिकालेऽपि कारणसद्भावे तस्य द्विक्षणावस्थायित्वं स्यादिति भावः। (2) योगः / तुलना-"अर्थक्रियाकारित्वेन सत्ताभ्युपगमे समानञ्चैतद् दूषणम्-किं सतामर्थकियाकारित्वमथासतामिति ? सतामर्थक्रियाकारित्वे सत्ताभ्युपगमे तथा दुरुत्तरमितरेतराश्रयत्वम् / तथा हि अर्थक्रियाजनकत्वे सत्त्वम्, सतश्चार्थक्रियाजनकत्वमित्येकाप्रसिद्धावितराप्रसिद्धिः / अथ अर्थक्रियामन्तरेण सतोऽर्थक्रियाजनकत्वम् ; तत्राप्ययं विकल्प इत्यनवस्था / असत एवार्थक्रियाजनकत्वे खरविषाणादिष तथाभावः स्यात् / अर्थक्रियायाश्चार्थक्रियान्तरेण सत्त्वेऽनवस्था / अथ स्वरूपेणेति चेत; पदार्थेष तथाभावप्रसङ्गः ।"-प्रश० व्यो० पृ० 127 / प्रश० कन्द० पृ० 12 / (3) असद्भूतायाः। (4) अर्थक्रियायाः। (5) अर्थलक्षणत्वविरोधात् / (6) अर्थस्य / (7) प्रकृतार्थक्रियायाः सत्त्वव्यवस्थापिका अपराऽर्थकिया तस्या अप्यपरा इत्यनवस्था। (८)क्षणिकेऽर्थे / (9) अर्थक्रिया / (10) कार्यकारणभावः। (11) क्षणिकार्थानाम् / (12) कार्यकारणभावः / (13) त्रिकालानुयायिनोऽर्थस्य / (14) नित्यऽर्थे / (15) प्रत्यक्षानुपलम्भसाधनः। (16) कार्यकारणभावः / 1-योर्लक्ष-ब०, श्र० / 2 अनवस्थितिरिति श्र०। 3 व्यावर्तते श्र। 4 इत्यादि आ० / -धनसदभावः श्र०।