________________ 114 लघीयत्रयालङ्कारे न्यायकुमुदचन्दे [ 5. नयपरि० अन्योन्यं परस्परम् अनात्मकत्वम् अस्वरूपत्वं तस्मिन् सति, सर्वथा सर्वेण साक्षा- . करणप्रकारेण स्वरूपमिश्रणप्रकारेण वा असङ्क्रमेण असङ्करेण या व्यवस्था अवस्थितिः तस्यां सत्याम् एकस्थूलनिर्भासविरोधात् कारणात् एकं द्रव्यमभ्युपगन्तव्यम् / एतदुक्तं भवति-स्थूलैकप्रतिभासविरुद्धा ज्ञानेतरपरमाणवः, तत्प्रतिभासोपगमे तद्विरोध: नीले पीतविरोधवत् / तथाभ्युपगच्छतश्च अध्यक्षविरोधः निरंशादिरूपतया शैतधा तत्त्वं विचारयतोऽपि स्थूलादिप्रतिभासानिवृत्तेः। ____ एवं प्रतिभासबलेन स्वपरमतविधिप्रतिषेधौ अभिधाय साम्प्रतम् अर्थक्रियाकारित्वबलेन तौ प्रतिपादयितुकामः प्रथमं क्षणिकैकान्ते अर्थक्रियां निराकुर्वन्नाह लक्षणं क्षणिकैकान्ते नार्थस्याऽर्थक्रिया सति / 10 कारणे कार्यभावश्चेत् कार्यकारणलक्षणम् // 35 // विवृतिः-सह क्रमेण वा अर्थक्रियाम् अक्षणिकस्य निराचिकीर्षुः कथञ्चित् क्षणिके अर्थक्रियां साधयेत् अन्यथा तल्लक्षणं सत्त्वं ततो व्यावर्त्तत / न च क्षणिका- .. नामनिश्चयात्मनां भावानां प्रत्यक्षानुपलम्भसाधनः कार्यकारणभावः सिद्धयेत् विप्रकृष्टाऽर्थान्तरवत् / 'यस्मिन् सत्येव यद्भावः तत् तस्य कार्यम्' इति लक्षणं 15 क्षणभङ्गे न संभवत्येव कार्यकारणयोः सहभावापत्तेः, अन्यथा क्षणभङ्गभङ्गप्रसङ्गात् / .. लक्षणम् अर्थस्य परमार्थसतो वस्तुनः नार्थक्रिया अर्थस्य कार्यस्य क्रिया ___ करणम् / क ? क्षणिकैकान्ते / कुत इत्याह-'सति' इत्यादि / कारिकाव्याख्यानम्- - सति विद्यमाने कारणे हेतौ कार्यभावः कार्योत्पत्तिः चेद यदि - 20 न कार्यकारणलक्षणं कार्यस्य कारणान्वयव्यतिरेकानुविधायित्वं यल्लक्षणम् कारण स्यं च तज्जनकत्वं यल्लक्षणं तन्न / पूर्वार्द्धगतेन 'न' इत्यनेन सम्बन्धः / क्षणिकैकान्तवादिना कारणाभाव एव कार्योत्पत्त्यभ्युपगमात् / इदमपरं व्याख्यानम् - स्वोत्पत्तिकालवत् इति समुदिता अपि तथैव स्युः / तथा नीलाद्याकारेषु प्रत्येकं चित्रस्य स्थौल्यस्याभावात् समुदायेऽप्यभावः"-प्रमाणवा० मनोरथ० 2 / 211 / (1) स्थूलैकप्रतिभासविरोधः / (2) स्थूलकप्रतिभासस्य असत्त्वं भ्रान्तत्वं वा स्वीकुर्वतः / (3) स्वमतविधिपरमतप्रतिषेधौ / (4) तुलना-“कार्यकारणता नास्ति बहिरन्तः सन्ततिः कुतः / निरन्वयात् कुतस्तेषां सारूप्यमितरार्थवत् // सति क्षणिके कारणे यदि कार्य स्यात् क्षणिकमक्रमं जगन्निःसन्तानि स्यात् / तस्मिन्नसति भवतः कुतः पुनः कारणान्तरोत्पत्तिनियमः ? सदेव कारणं स्वसत्ताकालमेव कार्य प्रसह्य जनयेत् / स्वरसत एव कार्योत्पत्तिकालनियमे स्वतन्त्रस्य कुत एव कार्यत्वम् ? नैरन्तर्यमात्रात्प्रभवनियमे सर्वत्र सर्वेषामविशेषे कुतः प्रभवनियमः ? द्रव्यस्य प्रभवनियमे न किञ्चिदतिप्रसज्यते।" -सिद्धिवि० पृ० 363-64 / (5) "किं पुनरसौ कार्यकारणभाव: अनुपलम्भसहायप्रत्यक्षनिबन्धनः ? इत्याह-तद्भावे भावः तदभावेऽभावश्चेति ?"-हेतुबि० टी०पू०६९। (6) कार्यजनकत्वम् / 1 व्यवस्थितिः श्र० / 2 तदुक्तं श्र०, ब० // 3 शतधात्वं आ०। 4 कारिकेयं मुद्रितलघीयस्त्रये नास्ति / / लक्षणभंगे न ज० वि० / 6 कारणम् आ० / 7 स्य तज्ज-आ० / 8 कारणभाव आ।